________________ धाईपिंड 2741 - अभिधानराजेन्द्रः - भाग 4 धाईपिंड ण : प्रशासिता॥१॥" इत्यादि। तथा यामभिनवस्थापितां गर्हते, तस्याः समाना समानवण्णां च चिरन्तनी स्थाप्यमाना भवति, तर्हि तां जीवामतिशयेन प्रशस्यां प्रशस्तवर्णा श्लाघते, इतरां त्वभिनवस्थापिता दुर्वर्णाग / एवं चोक्ते सति गृहस्वामी साध्वभिप्रेतां धात्रीं धारयति, इतरां तु परित्यजति। तथा सति यो दोषस्तमाह-- उव्वट्टिया पओसं, छोभग उब्भामओ य से जंतु। होज्जा मज्झ वि विग्यो, विसाइ इयरी वि एमेव।। य अभिनवस्थापिता धात्री उद्घर्तिता धात्रीत्वात् च्याविता, सा साधारपरि प्रद्वेष कुर्यात् / तथा सति छोभक दद्यात्, यथा-व्यमुद्भ्रामको जारोऽनया धात्र्या सह तिष्ठतीति / तथा (से) तस्य साधोयत्प्रद्वेषवशात्कर्तव्यं बधाऽऽदि, यत्तदोर्नित्याभिसंबन्धात्तदपि कुर्यात् / धाऽपि चिरन्तनी राप्रति रथापिता कदाचिदेवं चिन्तयति यथैव तस्या धात्रीत्वत् च्यावनं कृतम्, एवमेव कदावित् रुष्टेन ममापि विध्नो घात्रीच्यावनरूपोऽन्तरायः करिष्यते, तत एवं विचिन्त्य मारणाय वेषाऽऽदि गरप्रभृति प्रयुञ्जति / उक्ता क्षीरधात्री। साम्प्रतं शेषधात्रीराश्रित्य दोषानतिदेशेनाऽऽह-- एमेव सेसियासु वि, सुयमाइसु करण कारणं सगिहे। इड्डीसु य धाईसु य, तहेव उव्वट्टियाण गमो / / अत्र षड्यर्थे सप्तमी। ततोऽयमर्थः--एवमेता यथा क्षीरधात्र्यस्तथा शापिकास्वपि शेषाणामपि मज्जनाऽऽदिधात्रीणां, सुतमातृकल्पानां यत चयं करणं मजनाऽऽदः, यच्चान्यया कारणं, तत् स्वगृहे गतः सन् साधुर्यथा करोति तथा वाच्यं, तथा च सति 'अहिगरण-भद्दपंता'' इत्यादिगायोक्तः दोषा वक्तव्याः यथा तथैव क्षीरगतेनैव प्रकारेण ऋद्धिषु शद्धिमत्लुईश्वरगृहेषु, अभिनवस्थापिताना मज्जनाऽऽदिधात्रीणा (धाईसु यत्ति) भावप्रधानोऽयं निर्देशः, पञ्चम्यर्थे च सप्तमी / ततोऽयमर्थःधात्रीत्वेभ्य उद्घर्तितानां च्यावितानां, यो गमः- "उव्वट्टिया पओसं" इत्यादिरूपः, स सकलोऽपि तथैव वक्तव्यः।। अतिसंक्षिप्तमिदमुक्तमतो विशेषत एतद्विभाषयिषुः प्रथमतो मज्जनधाओत्वस्य करणं कारणं च, तथा अभिनवधात्र्या दोषप्रकटनं चयथा साधुः कुरुते तथा भावयतिलोलइ महीऍ धूली-ऍ गुंडिओ पहाहि अह व णं मजे / जलभीरु अबलनयणो, अइउप्पिलणे अ रत्तच्छो / / / एष बालो मह्या लोलति लोडते, ततो धूल्या गुण्डितो वर्तते, तस्मात् स्नापय / एतद् मज्जनधात्रीत्वस्य करणम्। अथवा-यदि पुनस्वं न स्नपयसि, तर्हि अहं मजामि स्नापयामि। एतत् स्वयं मज्जनधात्रीत्वस्य करणम्। कापि ईश्वरगृहे काऽपि मज्जनधात्री धात्रीत्वात स्फेटिता, साधुश्च तस्या गृह भिक्षार्थ प्रविष्टः, तां च धात्रीत्वात्परिभ्रंशेन विषण्णां दृष्ट्वा पूर्वप्रकारेण च पृष्ट्वा कृत्वा च प्रतिज्ञामीश्वरगृहे च गत्वा अभिनवमजनधात्र्या टोषप्रकटनायाऽऽह-(जलभीरु इत्यादि) अतिशयेन उत्प्लावनेन प्रभूतजलप्लावनेन गुप्यमानो बालो गुरूरपि जातो नद्यादी जलभीरुर्भवति। तथा निरन्तर जलेनोत्प्लाव्यमानोऽबलनयनोऽप्रबलनयनो रक्ताक्षश्च / यदि पुनः सर्वथाऽपि न मज्ज्यते, तर्हि न शरीर बलमादत्ते नापि कान्तिभाग, दृष्ट्या चाऽबलो जागते / एषा च धात्री | बालगतिजलोत्प्लावनेन मज्जयति, ततो जलभीरुताऽऽदयो दोषा वालस्य भविष्यन्ति, तस्मान्नेषा मजनधात्री युक्ता / तत एवमुक्ते सति तामभिनवरथापिता मजनधात्री गृहस्वामी स्फेटयति, चिरन्तनीमेव कुरुते। तथा च सति त एव प्राक्तना "उव्वट्टिया पओसं' इत्यादिरूपा दोषा दातव्याः। एवमुत्तरत्रापि प्रतिगाथा भावनीया। अथ च मजनधात्री कथंभूतं बालं कृत्वा मण्डनधात्र्याः समर्पयति,तत आहअब्भंगिय संवाहिय, उव्वट्टिय मज्जियं च तो बालं। उवणेइ मजधाई, मंडधाईऍ सुइदेहं / / स्नानधात्री प्रथमतः स्नेहेनाभ्यङ्गितं, ततो हस्ताभ्यां संबाधित, तदनन्तरं पिटकाऽऽदिना उर्तितं, ततो मज्जितं, शुचिभूतं वा देहं बालस्य कृत्वा मण्डनधान्याः समर्पयति। उक्ता मजनधात्री। संप्रति मण्डनधात्रीत्वस्य कारण, करणं च, तथा अभिनवस्थापिताया धात्र्या दोषप्रकटनं च यथा साधुः कुरुते तथा दर्शयतिउसुयाइएहिं मंडे-हि ताव णं अह व णं विभूसेमि। हत्थव्वगा व पाए, कया गलिव्वा व पाए वा / / इषुका इषुकारमाभरणम्, अन्ये तिलकमित्याहुः / आदिशब्दात् क्षुरिकाऽऽकाराऽऽद्याभरणपरिग्रहः / इह भिक्षार्थ प्रविष्टः सन् श्राद्धिकाचित्ताऽऽवजनार्थ बालकमनाभरणमवलोक्य तजननीभेवमाह-इषुकाराऽऽद्यभरणविशषेस्तावदेन बालकं मण्डय विभूषय। एतन्मण्डनधात्रीत्वस्य कारणम् / अथवा-यदि पुनः त्वं न प्रपारयसि, तर्हि अहं विभूषयामि। एतत्स्वयं मण्डनधात्रीत्वस्य करणम् / पूर्वधात्री स्थापनीयेत्यभिनयरस्थापिताया मण्डनधात्र्या दोषानाह-(हत्थव्वग त्ति) हस्तयोग्यानि आभरणानि पादे कृतानि। अथवा-(गलिय्व त्ति) गलसत्कानि आभरगानि पादे कृतानि, तस्मान्नेयं मण्डनधात्री मण्डनेऽभिज्ञा, ततस्तस्या मण्डनधात्रीत्वाच्च्यावनमित्यादि पूर्ववद्भावनीयम्। उक्ता मण्डनधात्री। संप्रत्यभिनवस्थापितायाः क्रीडनधात्र्या दोषप्रकटनं, क्रीडन-धात्रीत्वे च करणं कारणं च यथा विदधाति साधुस्तथाऽऽहदढयरसर युन्नमुहो, मउयगिरा मउय मम्मणालावो। उल्लावणगाईहिं व, करेइ कारेइ वा किडं / / रपा अभिनवस्थापिता क्रीडनधात्री दृढतरस्वरा, ततस्तस्याः स्वरमाकर्मयन वालो बुन्नमुखः क्लीवमुखो भवति। अथवा-मृदुगीरेषा ततोऽनया रम्यमाणो बालो मृद्गीर्भवति / यदि वा मृदुगीः स्वयं ब्रीडा कारयति / उक्ता क्रीडनगीः। मन्मनोल्लापोऽव्यक्तवाक्, तस्मान्नैषा शाभना, किं तु चिरन्तनेवेत्यादि प्रागिव / तथा भिक्षार्थ प्रविष्टः श्रादिकाचित्तावर्जनार्थ बालमुल्लापनाऽऽदिभिः स्वयं क्रीडां करोति, अन्यः कारयति वा / उक्ता क्रीडनधात्री। संप्रत्यड्डधात्र्या अभिनवस्थापितायाः स्फेटनाच सामान्यतो दोपप्रकटनं यथा साधुः करोति तथा दर्शयतिथुल्लाएँ वियमपाओ, भग्गकडीसुक्खडीऍ दुक्खं च / निम्मंसकक्खडकरे-हिँ भीरू उ होइ घेप्पंतो।। इह रथलया गासलया धात्र्या कट्यां ध्रियमाणो बालो विकट.. पादः परस्परवहन्तरालपादो भवति / भग्नकट्या, शुष्ककट्या वा