________________ धम्मरयण 2728 - अभिधानराजेन्द्रः - भाग 4 धम्मरयण को भवति। तद्यथा-अक्षुद्र इत्यादि / तत्र यद्यपि क्षुद्रस्तुच्छः, क्षुद्रः क्रूरः, क्षुद्रो दरिद्रः, क्षुद्रोलधुरित्यनेकार्थः क्षुद्रशब्दस्तथाऽपीह तुच्छार्थो गृह्यते, तस्यैव प्रस्तुतोपयोगित्वात्। ततः क्षुद्रस्तुच्छोऽगम्भीर इत्यर्थः। तद्विपरीतोऽक्षुद्रः। स च सूक्ष्ममतित्वात्मुखेनैव धर्ममवबुध्यते 1 / रूपवान् संपूर्णाङ्गोपाङ्गतया मनोहराऽऽकारः, स च तथारूपसंपन्नः सदाचारप्रवृत्त्या भविकलोकानां धर्मे गौरवमुत्पादयन्प्राभावको भवति / ननु नन्दिषेणहरिकेशबलप्रभृतीनां कुरूपाणामपि धर्मप्रतिपत्तिः श्रूयते, अतः कथं रूपवानेव धर्मेऽधिक्रियते / सत्यम् / इह द्विविध रूपम्-सामान्यम्. अतिशायि च। तत्र सामान्य संपूर्णाङ्गत्वाऽऽदि। तच नन्दिषेणाऽऽदीनामप्यासीदेवेति न विरोधः। प्रायिकं चैतत्, शेषगुणसद्भावेकुरूपत्वस्याप्यदुष्टत्वात् / एवमग्रेऽपि / अतिशायि पुनर्यद्यपि तीर्थकराऽऽदीनामेव संभवति, तथाऽपि येन क्वचिद्देशे काले वयसि वा वर्तमानो रूपवानयमिति जनानां प्रतीतिमुपजनयति तदेवेहाधिकृतंम मन्तव्यम्।। प्रकृत्या स्वभावेन, सौम्योऽभीषणाऽऽकृतिर्विश्वसनीयरूप इत्यर्थः / एवंविधश्च प्रायेण न पापव्यापार व्याप्रियते,सुखाऽऽश्रयणीयश्च भवति 3 / लोकस्य सर्वजनस्येह परलोकविरुद्धविवर्जनेन दानशीलाऽऽदिगुणैश्च प्रियो वल्लभो लोकप्रियः, सोऽपि सर्वेषां धर्मे बहुमानं जनयति / / अक्रूरोऽक्लिष्टाध्यवसायः क्रूरो हि परच्छिद्रान्वेषणस्य लम्पटः कलुषमनाः स्वानुष्ठानं कुर्वन्नपि फलभाग्भवतीति 5 / भीरुरैहिकाऽऽमुष्मिकापायेभ्यस्त्रसनशीलः। स हि कारणेऽपि सति न निःशड्कमधर्म प्रवर्तते 6 / अशठः सदऽनुष्ठाननिष्ठः, शठे हि वञ्चनप्रपञ्चचतुरतया सर्वस्याप्यविश्वसनीयो भवति / सदाक्षिण्यः स्वकार्यपरिहारेण परकार्यकरणैकरसिकान्तःकरणः, स च कस्य नाम नानुवर्तनीयो भवति 8 // 37 / / (लज्जलुओ त्ति) प्राकृतशैल्या लज्जावान् स खल्वकृत्याऽऽसेवनवार्त्तयाऽपि व्रीडति, स्वयमङ्गीकृतमनुष्ठानं च परित्यक्तुं न शक्नोति / / दयालुर्दयावान्,दुःखितजन्तुजातत्राणाभिलाषुक इत्यर्थः / धर्मस्य हि दया मूलमिति प्रतीतमेव 10 / मध्यस्थोरागद्वेषत्यक्तधीः, स हि सर्वत्रारतद्विष्टतया विश्वस्याऽपि वल्लभो भवति 11 / / सौम्यदृष्टिः कस्याप्यनुद्वेजकः, स हि दर्शनमात्रेणाऽपि प्राणिनां प्रीति पल्लवयति 12 / गुणेषु गाम्भीर्यस्थैर्यप्रमुखेषु रज्यतीत्येवं शीलो गुणरागी, स हि गुणपक्षपातित्वादेव सगुणान् बहु मन्यते, निर्गुणांश्वोपेक्षते १३।सकथनरुचय उत्कथाः सदाचारचारित्वाऽऽदिचर्या ये सपक्षा सहयोजनास्तैर्युक्तोऽन्वितो धर्माविबन्धकपरिवार इति भावः। एवंविधश्च न केनिचिदुन्मार्गो गन्तुं शक्यते 14 / अन्ये तु सत्कथः, सपक्षयुक्तश्चेति पृथक् गुणद्वयं मन्यते, मध्यस्थः सौम्यदृष्टिश्चतिद्वाभ्यामप्येकमेवेति। तथा सुदीर्घदर्शी सुपार्याऽऽलोचितपरिणामपेशलकार्यकारी, स किल परिणामिक्या बुद्ध्या सुन्दरपरिणामत्वैहिकमपि कार्यमारभते 15 / विशेषज्ञः सदितरवस्तुविभागवेदी। अविशेषज्ञस्तु दोषानपि गुणत्वेन गुणानपि दोषत्वेनाध्यवस्यति 16 // 371 / / वृद्धान परिणतमतीननुगच्छति, गुणार्जनबुद्ध्या सेवत इति वृद्धानुगः। वृद्धजनानुगत्या हि प्रवर्तमानः पुमान न जातुचिदपि विपदः पदं भवति 17 / विनीतो गुरुजनगौरवकृत, विनयवति हि सपदि संपदः प्रादुर्भवन्ति / स्वल्पमप्युपकारमैहिक पारत्रिकं चापरेण कृतं | जानाति, न निहनुते इति कृतज्ञः / कृतघ्नो हि सर्वत्राप्यमन्दानिन्दा समासादयति 16 / परेषामन्येषां हितानान्प्रयोजनानि कर्तु शीलं यस्य स परहितार्थकारी, सदाक्षिण्योऽभ्यर्थित एव करोत्ययं पुनः स्वत एव परहिताय प्रवर्तते इत्यनयोर्भेदः / यश्च प्रकृत्यैव परहितकरणे नितरां निरतो भवति, स निरीहचित्ततयाऽन्यानपि सद्धर्मे स्थापयति 20 / तथा--लब्धमिव लब्धलक्षं शिक्षणीयानुष्ठान येन स लब्धलक्षः, पूर्वभवाभ्यस्तमिव सर्वमपि धर्मकृत्यं करोत्येवाधिगच्छतीति भावः / ईदृशो हि वन्दनप्रत्युपेक्षणाऽऽदिक धर्मकर्म सुखेनैव शिक्षयितुं शक्यते / तदेवमेकविंशतिगुणसम्पन्नश्राद्धः श्रावको भवतीति / प्र० 266 द्वार / धादर्श०। (१-अक्षुद्रत्वेभीमसोमकथा 'भीमसोम' शब्दे)(२-रूपवत्त्वे सुजातकथा 'सुजाय' शब्दे) (३-प्रकृतिसौम्यत्वे विजयश्रेष्ठिकथा 'विजय-सेट्टि' शब्द) (४-लोकप्रियत्वे विनयंधरकथा ‘विणयंधर' शब्दे) (५-अकूरत्वे कीर्तिचन्द्रकथा'अक्कूर' शब्दे प्रथमभागे 126 पृष्ठे प्रतिपादिता) (६-भीरुत्वे विमलदृष्टान्तः 'विमल' शब्दे)(७-अशठभावे चक्रदेवचरित्रम् 'असद' शब्दे प्रथमभागे 835 पृष्ठे गतम्) (८-सुदाक्षिण्ये क्षुल्लककुमारकथा 'अलोभया' शब्दे प्रथमभागे 785 पृष्ठे गता) (Eलज्जालुत्ये विजयकुमारकथा 'विजयकुमार' शब्दे) (१०-दयालुल्ये यशोधरवृत्तम् ‘सुरिंददत्त' शब्दे) (११-माध्यस्थत्वे सोमवसुवृत्त 'सोमवसु' शब्दे) (१२-गुणानुरागित्वे पुरन्दरराजचरित्रं 'पुरंदर' शब्दे) (१३-सत्कथायां रोहिणीज्ञातं 'रोहिणी' शब्दे) (१४-सुपक्षगुणे भद्रनन्दिवृत्तं 'भद्दणदि' शब्दे) (१५-सुदीर्घदर्शित्वे धनमित्र श्रेष्ठिवृत्त 'धणमित्त' शब्देऽस्मिन्नेव भागे 2655 पृष्ठे गतं, 'भद्दा' शब्दे च) (१६विशेषज्ञत्वे सुबुद्धि-मन्निवृत्तं 'सुबुद्धि' शब्दे) (१७-बृद्धानुगत्ये मध्यमबुद्धिचरित्रं मज्झिमबुद्धि' शब्दे) (१८-विनीतत्वे भुवनतिलकवृत्त 'भुवणतिलय' शब्दे) (१६-कृतज्ञत्वे विमलकुमारकथा विमलकुमार' शब्दे) (२०-परहितकारित्वे भीमकुमारकथा 'भीमकुमार' शब्दे) (२१लब्धलक्ष्यत्वेनागार्जुनकथा'णागजुण' शब्देऽस्मिन्नेव भागे 1635 पृष्ठेगता) साम्प्रतमेतन्निगमनायाहएए इगवीसगुणा, सुयाणुसारेण किंचि वक्खाया। अरिहंति धम्मरयणं, चित्तुं एएहि संपन्ना / / 26 / / एते पूर्वोक्तस्वरूपाः, एकविंशतिसंख्या गुणाः श्रुतानुसारेण शास्त्रान्तरोपलम्भद्वारेण, किञ्चिन्न सामस्त्येन, व्याख्याताः स्वरूपतः फलतश्च प्ररूपिताः। किमर्थम्? इत्याह-यतोऽर्हन्ति योग्यतासारं धर्मरत्नं ग्रहीतुं, न पुनर्वसन्तनृपवद्राजलीलामिति भावः। के? इत्याह-एभिरनन्तरोक्तैः गुणैः संपन्नाः संगताः संपूर्णा वेति। आह-किमेकान्तेनैतावदगुणसम्पन्ना धर्माधिकारिण उताऽप वादोऽप्यस्तीति प्रश्न सत्याहपायऽद्धगुणविहीणा, एएसिं मज्झिमावरा नेया। इत्तो परेण हीणा, दरिद्दपाया मुणेयव्वा / / 30 / / इहाधिकारिण स्त्रिधा चिन्त्याः-उत्तमा मध्यमा जघन्याश्च / तत उत्तमाः सम्पूर्ण गुणा एव, पादश्चतुर्थाशोऽर्द्ध दल, गुणशब्दस्य प्रत्येक मभिसंबन्धात् पादप्रमाणे रद्ध प्रमाणे श्च गुण ये विही