________________ धम्म 2707 - अभिधानराजेन्द्रः - भाग 4 धम्म ककथाविस्तारको भवेदिति / किं कृत्वेति दर्शयति-ज्ञात्वाऽवबुध्य नास्योत्तरो विद्यत इत्यनुत्तरस्तं श्रुतचारित्राऽऽख्यं धर्म सम्यगवगम्य, तस्य हि धर्मस्यैतदेव फलं यदुत विकथानिमित्तपरिहारेण सम्यक क्रियावान् स्यादिति तदर्शयतिकृता स्वभ्यस्ता क्रिया संयमानुष्ठानरूपा येन स कृतक्रियस्तथाभूतशच, न चाऽपि मामको ममेदमहमस्य स्वामीत्येवं परिग्रहाऽऽग्रही भवेदिति // 28 // छन्नं च पसंस णो करे, न य उक्कोस पगास माहणे। तेसिं सुविवेगमाहिए, पणया जेहिं सुजोसिअंधुयं / / 26 / / (छन्नमित्यादि) 'छन्नं ति' माया, तस्याः स्वाभिप्रायप्रच्छादन ... रूपत्वात, तां न कुर्यात् / चशब्द उत्तरापेक्षया समुच्चयार्थः / तथाप्रशस्थते सर्वैरप्यविगानेनाऽऽद्रियत इति प्रशस्यो लोभः, तं च न कुर्यात् / तथा--जात्यादिभिर्मदस्थानलघुप्रकृति पुरुषभुत्कर्षयतीत्युत्कर्षको मानः, तमपि न कुर्यादिति सम्बन्धः / तथा अन्तर्व्यवस्थितोऽपि मुखदृष्टिभङ्गाविकारैः प्रकाशीभवतीति प्रकाशः क्रोधः, तं च (माहणे त्ति) साधुन कुर्यात्। तेषांकषायाणां यैर्महात्मभिर्विवेकः परित्याग आहितो जनित्स्त एव धर्म प्रति प्रणता इति। यदिवा-तेषामेव सत्पुरुषाणां सुष्ठ विवेकः परिज्ञानरूप आहितः प्रथितः प्रसिद्धिं गतः, त एव च धर्म प्रति प्रणताः, यैर्महासत्त्वैः सुष्ठ जुष्ट सेवितं, धूयतेऽष्टप्रकार कर्म येन तद्भूत संयभानुष्ठानम्। यदि वा–यैः सदनुष्टायिभिः (सुजोसिअंति) सुष्टु क्षिप्त धूननार्हत्वाद्धूते कर्मेति // 26 // अपि चअणिहे सहिए सुसंवुडे, धम्मट्ठी उवहाणवीरिए। विहरेज समाहिइंदिए, अत्तहिअंखु दुहेण लब्भइ // 30 // (अणिहे इत्यादि) स्निह्यत इति स्निहः। न स्निहा:-अस्निहः, सर्वत्र ममत्वरहित इत्यर्थः / यदि वा-परीषहोपसर्गनिहन्यते इति निहः, न निहोऽनिहः उपसगैरपराजित इत्यर्थः / पाठान्तरं वा-"अणहे ति।" नास्यघमस्तीत्यनघो, निरवद्यानुष्ठायीत्यर्थः / सह हितेन वर्तत इति सहितः, सहितो युक्तो वा ज्ञानाऽऽदिभिः, स्वहित आत्महितो वा सदनुष्टानप्रवृत्तेः / तमेव दर्शयति-सुष्टु संवृत इन्द्रियनोइन्द्रियस्रिोतसिकारहित इत्यर्थः / तथा-धर्मः श्रुतचास्त्रिाऽऽख्यस्तेनार्थः प्रयोजनं, स एवार्थः, तस्यैव सद्भिरळमाणत्वाद् धर्मार्थः, स यस्याऽस्तीति स धर्मार्थी। तथापेधानं तपः, तत्र वीर्यवान्, स एवम्भूतो विहरेत् संयमानुष्ठान कुर्यात्। समाहितेन्द्रियः संयतेन्द्रिय एव। यत आत्महितं दुःखेनाऽसुमता संसार पर्यटता अकृतधर्मानुष्ठानेन लभ्यते अवाप्यत इति / तथाहि"नपुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम्। मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम्॥१॥" तथाहि-युगसमिलाऽऽदिदृष्टान्तनीत्या मनुष्यभव एव तावद्दुर्लभः, तत्राऽप्यार्यक्षेत्राऽऽदिकं दुरापभित्यत आत्महितं दुःखेनाऽवाप्यत इति मन्तव्यम्। अपिचभूतेषु जङ्गमत्वं, तस्मिन् पञ्चेन्द्रियत्वमुत्कृष्टम्। तस्मादपि मानुष्यं, मानुष्येऽप्यार्यदेशश्च / / 1 / / देशे कुल प्रधान, कुले प्रधाने च जातिरुत्कृष्टा। जातौ रूपसमृद्धी, रूपे च बलं विशिष्टतमम् / / 2 / / भवति बले चाऽऽयुष्कं, प्रकृष्टमायुष्कतोऽपि विज्ञानम्। विज्ञाने सम्यक्त्वं, सम्यक्त्वे शीलसंप्राप्तिः॥३॥ एतत्पूर्वश्वाऽय, समासतो मोक्षसाधनोपायः। तत्र च बहु संप्राप्त, भवद्भिरल्पं च संप्राप्यम्॥४॥ तत्कुरुतोद्यममधुना, मदुक्तमार्ग समाधिमाधाय / त्यक्त्वा सङ्ग मनार्य, कार्य सद्भिः सदा श्रेयः // 5 // " इति।।३०।। एतच प्राणिभिर्न कदाचिदवाप्तपूर्वमित्येतदर्शयितुमाहण हि णूण पुरा अणुस्सुतं, अदुवा तं तह णो समुट्ठियं / / मुणिणा सामाइआऽऽहितं, नाएणं जगसव्वदंसिणा॥३१॥ यदेतन्मुनिना जगतः सर्वभावदर्शिना ज्ञातपुत्रीयेण सामायिकाऽऽद्याहितमाख्यातं तन्नूनं निश्चितं न हि नैव पुरा पूर्व जन्तुभिरनुश्रुतं श्रवणपथमायातम्। अथवा-श्रुतमपि तत् सामायिकाऽऽदि यथाऽवस्थित तथा नाऽनुष्ठितभा पाठान्तरंवा-"अवितह त्ति'' अवितथं यथावन्नानुष्ठितमतः कारणादसुमतामात्महितं सुदुर्लभमिति // 31 / / पुनरप्युपदेशान्तरमधिकृत्याऽऽहएवं मत्ता महंतरं, धम्ममिणं सहिया बहू जणा। गुरुणो छंदाणुवत्तगा, विरया तिन महोघमाहितं / / 3 / / (एवं मत्ता इत्यादि) एवमुक्तरीत्या आत्महितं सुदुर्लभं मत्वा ज्ञात्वा धर्माणां च महदन्तरं धर्मविशेष कर्मणो वा विवरं ज्ञात्वा / यदि वा-(महंतरं ति) मनुष्याऽऽर्यक्षेत्राऽऽदिकमवसरं सदनुष्ठानस्य ज्ञात्वा एनं जैन धर्म श्रुतचारित्राऽऽत्मकं, सह हितेन वर्तत इति सहिता ज्ञानाऽऽदियुक्ता बहवो जना लघुकर्माणः समाश्रिताः सन्तो गुरोराचार्याऽऽदेस्तीर्थकरस्य वा छन्दानुवर्तकास्तदुक्तमार्गानुष्ठायिनो, विरताः पापेभ्यः कर्मभ्यः सन्तस्तीर्णा महोघमपारं संसारसागर-मेवमाख्यातं मया भवतामपरैश्च तीर्थकृद्भिरन्येषाम्॥३२।। सूत्र०१ श्रु०२अ०२उ०। किंचसंधए साहुधम्मं च, पावधम्मं णिराकरे। उवहाणवीरिए भिक्खू, कोहं माणं न पत्थए / / 35 / / (संधए इत्यादि) साधूनां धर्मः क्षान्त्यादिको दशविधः, सम्य-- ग्दर्शनचारित्राऽऽख्यो वा, तमनुसंधयेद् वृद्धिमापादयेत् / तद्यथाप्रतिक्षणमपूर्वज्ञानग्रहणेन ज्ञानम् / तथा शङ्काऽऽदिदोषपरिहारेण, सम्याजीताऽऽदिपदार्थाधिगमेन च सम्यग्दर्शनमस्खलितमूलोत्तरगुणसंपूर्णपालनेन प्रत्यहमपूर्वज्ञानग्रहणेन चारित्रं वृद्धिमापादयेदिति / पाठान्तरं वा-"राहहे साधुधम्म च'' पूर्वाक्तविशेषणविशिष्ट साधुधर्म मोक्षमार्गत्वेन श्रद्दधीत निःशङ्कतया गृह्णीयात्, चशब्दात्सम्यगनुपालये च / तथा-पापं पापोपादानकारणं धर्म प्राण्युपमर्दैन प्रवृत्तं, निराकुर्यात् / तथा-उपधानं तपः, तत्र यथाशक्त्या वीर्यं यस्य स भवत्युपधानवीर्यः, तदेवंभूतो भिक्षुः, क्रोध, मानं च न प्रार्थयेन्न वर्धयति // 35 / / सूत्र० 1 2011 अ०॥