________________ धम्म 2657 - अभिधानराजेन्द्रः - भाग 4 धम्म वर्षति ततः किं विघ्नोऽन्तरायः निर्धाताऽऽदिभिर्जायते, आदिशब्दादिग्दाहाऽऽदिपरिग्रहः / तस्येन्द्रस्य, परमैश्वर्ययुक्तत्वेन विघ्नानुपपत्तेरिति भावना / अथ वर्षति ऋतुसमये गर्भसङ्घात इति वाक्यशेषः। न वर्षति ततस्तृणार्थ, तस्येत्थमभिसंधेरभावादिति गाथाद्वयार्थः / किं च दुमा पुप्फंती, भमराणं कारणा अहासमयं मा भमरमहुयरिंगणा, किलामएज्जा अणाहारा / / 107 / / किं च द्रुमाः पुष्यन्ति भ्रमराणां कारणात् कारणेन यथासमये यथाकालं, मा भमरमधुकरिगणाः क्लामेयुः ग्लानिं प्रतिपद्येरन्, अनाहारा अविद्यमानाऽऽहाराः सन्तः, काक्वा नैवैतदित्थमिति गाथार्थः / साम्प्रतं पराभिप्रायमाहकस्सइ बुद्धी एसा, वित्ती उवकप्पिया पयावइणा। सत्ताणं तेण दुभा, पुप्फंती महुयरिंगणट्ठा / / 108 / / अथ कस्यचिद् बुद्धिः कस्यचिदभिप्रायः स्याधदुत एषा वृत्तिरुपकल्पिता, केन? प्रजापतिना, केषाम्? सत्त्वाना प्राणिना, तेन कारणेन द्रुमाः पुष्यन्ति, मधुकरिगणार्थभवेति गाथार्थः। अत्रोत्तरमाहतं न भवइ जेण दुमा, नामागोयस्स पुध्वविहियस्स। उदएणं पुप्फफलं, निवत्तइंती इमं चन्नं / / 10 / / यदुक्तं परेण तन्न भवति, कुत इत्याह- येन द्रुमा नामगोत्रस्य कर्मणः पूर्वविहितस्य जन्मान्तरोपात्तस्य, उदयेन विपाकानुभवलक्षणेन, पुष्पफलं निवर्तयन्ति कुर्वन्त्यन्यथा सदैव तद्भावप्रसंग इति भावनीयम्। इदं चान्यत्कारण वक्ष्यमाणमिति गाथार्थः / अत्थि बहू वणसंडा, भमरा जत्थ न उति न वसंति। तत्थ वि पुप्फति दुमा, पगई एसा दुमगणाणं / / 110 // सन्ति बहूनि वनखण्डानि, तेषु तेषु स्थानेषु भ्रमरा यत्र नोपयान्ति अन्यतो न वसन्ति, तेष्वेव, तथाऽपि पुष्यन्ति द्रुमाः, अतः प्रकृतिरेषा स्वभाव एषां द्रुमगणानाभिति गाथार्थः / अत्राऽऽहजइ पगई कीस पुणो, सव्वं कालं न देंति पुप्फफलं। जं काले पुप्फफलं, दयंति गुरुराह अत एव / / 111 / / यदि प्रकृतिः किमिति पुनः सर्वकालं न ददति न प्रयच्छन्ति, किम्? पुष्पफलम्, एवमाशक्याऽऽह--यद्यस्मात् कालेनियत एव पुष्पफलं ददति, गुरुराह-अत एवास्मादेव हेतोः। पगई एस दुमाणं, जं उउसमयम्मि आगए संते। पुप्फंति पायवगणा, फलं च कालेण बंधंति // 112|| प्रकृतिरेषा दुमाणा यदृतुसमये वसन्ताऽऽदावागते सति पुष्यन्ति पादपगणा वृक्षसंघातास्तथा फलं च कालेन बध्नन्ति, तदर्थानभ्युपगमे तु नित्यप्रसङ्ग इति गाथार्थः। साम्प्रतं प्रकृतेऽप्युक्तार्थयोजनां कुर्वन्नाहकिं नु गिही रंधंती, समणाणं कारणा अहासमयं / मा समणा भगवंतो, किलामएज्जा अणाहारा ||113 / / किं नु गृहिणो राध्यन्ति पार्क निर्वर्त्तयन्ति श्रमणानां कारणेन, ] यथाकालं, मा श्रमणा भगवन्त अक्लामन्ननाहारा इति पूर्ववदिति गाथार्थः / नैवैतदित्थमित्यभिप्रायः। अत्राऽऽहसमणणुकंपनिमित्तं, पुण्णनिमित्तं च गिहनिवासीओ। कोइ भणिज्जा पागं, करेंति सो भन्नइ न जम्हा? ||114|| श्रमणेभ्योऽनुकम्पा श्रमणानुकम्पा तन्निमित्तं, न ह्येते हिरण्यग्रहणाऽदिना अस्माकमनुकम्पां कुर्वन्तीति मत्वा भिक्षादानार्थ पार्क निर्वर्तयन्त्यतः श्रमणानुकम्पानिमित्तं, तथा सामान्येन पुण्यनिमित्तं च गृहनिवासिन एव कश्चित् ब्रूयात,पाकं कुर्वन्ति, स भण्यते, नैतदेवं, कुतो? यस्मात्कंतारे दुब्भिक्खे, आयके वा महइ समुप्पन्ने / रत्तिं समणसुविहिया, सव्वाहारं न भुंजंति॥११५।। कान्तारेऽरण्याऽऽदौ,दुर्भिक्षेऽत्राकाले, आतड्ढे वा ज्वराऽऽदौ, महति समुत्पन्ने सति, रात्री श्रमणाः सुविहिताः शोभनानुष्ठानाः, किम्? सर्वाहारमोदनाऽऽदि न भुञ्जते, अह कीस पुण गिहत्था, रत्तिं आयरतरेण रंधति / समणेहिँ सुविहिएहिं, चउब्विहाहारविरएहिं / / 116|| अथ किमिति पुनर्गृहस्थास्तत्रापि रात्रौ आदरतरेणात्यादरेण राद्धयन्ति श्रमणः सुहितेश्चतुर्विधाऽऽहारविरतैः सद्भिरितिगाथात्रयार्थः। किञ्चअत्थि बहुगामनगरा,समणा जत्थ न उति न वसंति। तत्थ विरंधंति गिही, पगई एसा गिहत्थाणं / / 117 / / सन्ति बहूनि ग्रामनगराणि तेषु तेषु देशेषु श्रमणाः साधवो यत्र नोपयान्ति, अन्यतो न वसन्ति, तत्रैव,अथ च तत्रापि राध्यन्ति गृहिणः, अतः प्रकृतिरेषा गृहस्थानामिति गाथार्थः / अमुमेवार्थ स्पष्टन्नाहपगई एस गिहीणं, जंगिहिणो गामनगरनिगमेसु / रंधति अप्पणो परि-यणस्स कालेण अट्ठाए / 118|| प्रकृतिरेषा गृहिणां वर्तते यद् गृहिणो ग्रामनगरनिगमेषु, निगमः स्थानविशेषः, राध्यन्ति आत्मनः परिजनस्यार्थाय निमित्तं कालेनेति योग इति गाथार्थः। तत्थ समणा तवस्सी, परकडपरनिट्ठियं विगयधूमं / आहारं एसंती, जोगाणं साहणट्ठाए।।११।। तत्र श्रमणाः तपस्विन इत्युद्यतविहारिणो नेतरे, परकृतपरिनष्ठितमिति कोऽर्थः ? परार्थ कृतमारब्धं परार्थ च निष्ठितमन्तं गत विगतधूमं धूमरहितम, एकगहणे तज्जातीयग्रहणमिति न्याया द्विगतागारं च, रागद्वेषमन्तरेणत्यर्थः / उक्तं च- "रागेण सइंगालं. दोसेण सधूमग वियाणाहि।" आहारमोदनादिलक्षणमेषन्ते गवेषन्ते, किमर्थमत्राऽऽहयोगानां मनोयोगाऽऽदीनां संयमयोगानां वा साधनार्थ ,नतुवर्णाऽऽद्यर्थमिति माथार्थः। नवकोडीपरिसुद्धं, उग्गमउप्पायणेसणासुद्धं / छट्ठाणरक्खणट्ठा, अहिंसअणुपालणट्ठाए।।१२०।। इयं च किल भिन्न कर्तृकी, अस्या व्याख्यानवकोटि परि