________________ 2686- अभिधानराजेन्द्रः - भाग 4 धम्म प्रमता असवः प्राणा यस्मादिति प्रासुकं निर्जीवम् / तच्च स्वकृतमपि भवत्यत आह-अकृतं, तदपि कारितमपि भवत्यत आह-अकारितम्, तदप्यनुमतमपि भवत्यत आह-अननुमतम् / तदप्युद्दिष्टमपि भवति यथावदर्थिकाऽऽदि, न च तदिष्यत इत्यत आह-अनुद्दिष्टमिति, एतत्परिज्ञानोपावश्चो पन्यस्तसकलप्रदानाऽऽदिलक्षणस्तत्रावगन्तव्य इति गाथार्थः। तदन्ये पुनः किमित्यत आहअप्फासुयकयकारिय-अणुमयउद्दिट्ठभोइणो हंदि। तसथावरहिंसाए, जणा अकुसलाउ लिप्पंति / / 68|| अप्रासुककृतकारितानुमोदितोद्दिष्टभोजिनश्वरकाऽऽदयः, हन्दीत्युपप्रदर्शने, किमुपप्रदर्शयति-त्रसन्तीति सा द्वीन्द्रियाऽऽदयः, तिष्ठन्तीति स्थावराः पृथिव्यादयः, तेषां हिंसा प्राणव्यपरो पणलक्षणा, तया जनाः प्राणिनः, अकुशला अनिपुणा स्थूलमतयश्चरकाऽऽदयो लिप्यन्ते संबध्यन्त इत्यर्थः / इह च हिंसाक्रियाजनितेन कर्मणा लिप्यन्त इति भावनीयं, कारणे कार्योपचारात्, ततश्च ते शुद्धधर्मसाधका न भवन्ति, साधव एव भवन्तीति गाथार्थः / एसा हेउविसुद्धी, दिर्सेतो तस्स चेव य विसुद्धी। सुत्ते भणिया उ फुडा, सुत्तप्फासे उइयमन्ना ||6|| एषा अनन्तरोक्ता, हेतुविशुद्धिः प्राग्निरूपितशब्दार्था, अधुना दृष्टान्तः प्राग्निरूपितशब्दार्थः, तथा तस्यैव च दृष्टान्तस्य विशुद्धिः, किम्? सूत्रे भणितोक्तव, स्फुटा स्पष्टा। तच्चेदं सूत्रम्जहा दुमस्स पुप्फेसु, भमरो आवियइ रसं / ण य पुप्फ किलामेइ, सो य पीणेइ अप्पयं / / 2 / / अत्राऽऽह- अथ कस्मादशावयवनिरुपणायां प्रतिज्ञाऽऽदीन विहाय सूत्रकृता दृष्टान्त एकोक्त इति? उच्यते- दृष्टान्तादेव हेतुप्रतिज्ञे अभ्यूह्ये, इति न्यायप्रदर्शनार्थम् / कृतं प्रसङ्गेन,प्रकृतं प्रस्तुमः / तत्र यथा येन प्रकारेण मस्य प्राग्निरूपितशब्दार्थस्य, पुष्पेषु प्राग्निरूपितशब्दार्थब्वेव, असमस्तपदाभिधानमनुमेयगृहिद्रुमाणामाहाराऽऽदिषु पुष्पाण्य - धिकृत्य विशिष्टसंबन्धप्रतिपादनार्थमिति / तथा चान्यायोपार्जितवित्तदानेऽपि ग्रहणं प्रतिषिद्धमेव, भ्रमरश्चतुरिन्द्रियविशेषः, किम्? आपिवति, मर्यादया पिबत्यापिबति, कम्? रस्यत इति रसस्त निर्यास, मकरन्दमित्यर्थः / एष दृष्टान्तः। अयं च तद्देशादोहरणमधिकृत्य वेदितव्य इत्येतच्च सूत्रस्पर्शिकनियुक्तौ दर्शयिष्यति। उक्तं च-सूत्रस्पर्श त्वियमन्येति। अधुना दृष्टान्तविशुद्धिमाह- न च नैव, पुष्पं प्राग्निरूपितस्वरूप, क्लामयति पीडयति, स च भ्रमरः प्रीणाति तर्पयत्यात्मानमिति सूत्रसमुदायार्थः / अवयवार्थ तु नियुक्तिकारो महता प्रपञ्चेन व्याख्यास्यति / तथा चाऽऽहजह भमरो त्ति य एत्थं, दिटुंतो होइ आहरणदेसे / चंदमुहि दारिगेयं, सोम्मत्तवहारणं ण सेसं / / 10 / / यथा भ्रमर इति चात्र प्रमाणे दृष्टान्तो भक्त्युदाहरणदेशमधिकृत्य, यथा चन्द्रमुखी दारिकेयमित्यत्र सौम्यत्वावधारण गृह्यते, न शेषं कलङ्गाङ्कितत्वाऽनवस्थितत्वाऽऽदीति गाथार्थः / एवं भमराऽऽहरणे, अणिययवित्तित्तणं न सेसाणं। गहणं दिटुंतविसु--द्धि सुत्ते भणिया इमा चन्ना // 101 / / एवं भ्रमरोदाहरणे अनियतवृत्तित्वं, गृह्यत इति शेषः, न शेषाणामविरत्यादीनां भ्रमरधर्माणां ग्रहणं दृष्टान्त इति / एषा दृष्टान्तविशुद्धिः सूत्र भणिता, इयं चान्या सूत्रस्पर्शिकनियुक्ताविति गाथार्थः / एत्थ य भणिज्ज कोई, समणाणं कीरए सुविहियाणं। पागोवजीविणो त्ति य, लिप्पंतारंभदोसेण / / 102 / / अत्र चैवं व्यवस्थिते सति ब्रूयात्कश्चिद्, यथा- श्रमणानां क्रियते सुविहितानामिति / एतदुक्तं भवति-यदिदं पाकनिर्वर्तन गृहिभिः क्रियते, इदं पुण्योपादानसंकल्पेन श्रमणानां क्रियते सुविहितानामिति तपस्विनां, गृह्णन्ति च ते ततो भिक्षामित्यतः पाकोपजीविन इति कृत्वा लिप्यन्ते, आरम्भदोषेणाऽऽहारकरणक्रियाफले नेत्यर्थः। तथा च लौकिका अप्याहुः- "क्रयेण क्रायको हन्ति, उपभोगेन खादकः / घातको वधचित्तने, इत्येष त्रिविधो वधः॥१॥" इति पाथार्थः / साम्प्रतमेतत्परिहरणाय गुरुराहवासइन तणस्स कए, न तणं वड्डइ कए मयकुलाणं / न य रुक्खा सयसाला, फुलंति कए महुयराणं / / 103|| वर्षति न तृणस्य कृते, न तृणार्थमित्यर्थः / तथा न तृणं व ते कृते मृगकुलानामयि, तथा न च वृक्षाः शतशाखाः पुष्यन्ति क्रतेऽर्थाय मधुकराणाम्, एवं गृहिणोऽपि न साध्वर्थं पार्क निर्वर्तयन्तीत्यभिप्राय इति गाथार्थः। अत्र पुनरप्याहअग्गिम्मि हवी हूयइ, आइचो तेण पीणिओ संतो। वरिसइ पयाहियाए, तेणोसहिओ परोहंति / / 104 / / इह यदुक्तं वर्षति न तृणार्थमित्यादि, तदसाधु, यस्मादग्नौहविहूयते, आदित्यस्तेन हविषा घृतेन प्रीणितः सन् वर्षति, किमर्थम्? प्रजाहितार्थ लोकहिताय, तेन वर्षितेन किम्? औषध्यः प्ररोहन्त्युद्गच्छन्ति / तथा चोक्तम्-'अग्नावाज्याऽऽहुतिः सम्यगादित्यमुपतिष्ठते आदित्याज्जायते वृध्वृिष्टरनं ततः प्रजाः / / 1 / / '' इति गाथार्थः / अधुनैतत्परिहारायेदमाहकिं दुभिक्खं जायइ, जइ एवं अह भवे दुरिटुं तु / किं जायइ सव्वत्था, दुभिक्खं अह भवे इंदो / / 10 / / किं दुर्भिक्ष जायते यद्येवं कोऽभिप्रायः? तद्धविः सदा हूयत एव, ततश्च कारणाविच्छेदेन कार्यविच्छेदोऽयुक्त इति / अथ भवेद् दुरिष्ट तु दुर्नक्षत्रं दुर्यजनं वा, अत्राप्युत्तरम्, किं जायते सर्वत्र दुर्भिक्षम्? नक्षत्रस्य दुरिष्टस्य वा नियतदेशविषयत्वात्, सदैव सद्यज्वनां भावात? उक्तं च- "सदैव देवाः सद्गावो, ब्राह्मणाश्च क्रियापराः। यतयः साधवश्चैव, विद्यन्ते स्थितिहेतवः / / 1 / / " इत्यादि। अथ भवेदिन्द्र इति किम्?-- वासइ तो किं विग्छ, निग्घायाईहिँ जायए तस्स। अह वासइ उउसमए, न वासई तो तणट्ठाए // 106 / /