________________ धम्म 2673 - अभिधानराजेन्द्रः - भाग 4 धम्म रगत्वेनाबन्ध्यहेतुत्वेनेति यावत्। पुण्योपायाश्चत्वारः। यथोक्तम्-''दया भूतेषु वैराग्यं, विधिदानं यथोचितम्। विशुद्धा शीलवृत्तिश्च / पुण्योपायाः प्रकीर्तिताः / / 1 / / '' आदिग्रहणात् ज्ञानयोगपरिग्रहः, ज्ञानयोगोपायपरिनिष्पत्तेश्च सद्धेतुत्वेन सिद्धमेतल्लिङ्गमिति।१६। षो०४ विव०। (12) धर्मद्रुममूलप्रतिपादनपरा गाथामाहजीवदय सञ्चवयणं, परधणपरिवज्जणं सुसीलं च। खंती पंचिंदियनि--गहो य धम्मस्स मूलाइं॥१३॥ जीवाश्चेतनाऽऽदिलिङ्ग व्यङ्गया एकेन्द्रियाऽऽदयः, तेषां दया रक्षण जीवदयेति। -हस्वत्वं प्राकृतप्रभवम् / धर्ममूलं भवतीति सर्वत्र क्रियाऽध्याहारः कार्यः। सत्यं यथार्थ वचनं सत्यवचनं,तदपि परे आत्मव्यतिरिक्ता जनास्तेषां धनं वित्तं परघनं तस्य परि समन्ताद्वर्जन परिहरणं परधनपरिवर्जन, सुष्टु शोभनं शीलं सदाचारश्चतुर्थव्रतं या सुशील, भावप्रधानत्वान्निद्देशस्य। सदाचारत्वं चतुर्थव्रतनिः कलकता चेत्यर्थः / क्षान्तिः कषायोपशमः, पञ्चेति पञ्चसंख्यानीन्द्रियाणि स्पर्शनरसनघ्राणचक्षुः श्रोत्राऽऽख्यानि, तेषां निग्रहः, सविषयग्रहणत्यजतावपि रागद्वेषाकरणं व्याघुटनं धर्ममूलं भवति / यद्वा-तानि सर्वाण्यपि धर्मलक्षणवृक्षस्य मूलानीव मूलानि / अयमत्र भावार्थ:-चकारस्यैवकारार्थस्येह संबन्धादेतानि च प्रत्येकं समुदितानिधर्ममहाद्रुमस्य नरसुरशिवसौख्यकुसुमफलप्रदस्य मूलानि, न तु पुनः परपरिकल्पितयागपञ्चाग्रितपः शून्यारण्यनिवासकृतकारिसङ्घभक्ताऽऽदिदानप्रभृतीनि तेषां जीवघातनिष्पाद्यत्वेनाधर्मरूपत्वादिति गाथार्थः / दर्श०२ तत्त्व। 'भक्ष्याभक्ष्यविवेकाच्च, गम्यागम्यविवेकतः। तपोदयाविशेषाच, स धर्मो व्यवतिष्ठते 1 // 1 // '' द्वा०७ द्वा०। धर्मावलम्बनानि- 'धम्म णं चरमाणरस पंच निस्साठाणा पण्णत्ता / तं जहा- छकाया गणो राया गाहावई सरीरं।'' (अस्य व्याख्या 'णिस्साठाण' शब्देऽस्मिन्नेव भागे 2148 पृष्ठे द्रष्टव्या) "दोहिं ठाणेहिं आया केयलिपण्णत्तं धम्म लभेज सवणयाए।' स्था०२ ठा०४ उ०। (विशेषः 'खओवसमिय' शब्दे तृतीयभागे 660 पृष्ठे मतः) (आरम्भपरिग्रहाभ्यां विरताऽविरतस्य धर्मलाभालाभो 'आरंभ' शब्दे द्वितीयभागे 371 पृष्ठे द्रष्टव्यौ) (13) धर्मानधिकारिण आहसुत्तेण चोइओ जो, अप्पं उद्दिसिअतं ण पडिवजे / सो तत्तवायबज्झो,न होइ धम्मम्मि अहिगारी | सूत्रेण चोदित इदमित्थमुक्तमेवं यः सत्त्वः अन्य प्राणिनमुद्दिश्याऽऽत्मतुल्यमुदाहरणतया तन्न प्रतिपद्यते सौत्रमुक्तं, स एवंभूतस्तत्त्ववादबाह्यः परलोकमङ्गीकृत्य परमार्थवादबाह्यो न भवति धर्मे सकलपुरुषार्थहतावधिकारी, सम्यग्विवेकाभावादिति गाथार्थः / पं०व० 4 द्वार। अथ कलिकालिमामलिनान्तराऽऽत्मानः सन्तः सन्तोऽपि किमवंविधश्रावकश्रमणगुणगणं श्रोतुं श्रद्धां कर्तुं वा शक्नुवन्ति न सर्वेऽपीत्याह(रयणत्थिणो वीत्यादि) अथवा-किमिदंयुगीनमानवाः सर्वथैकान्ततो निराकाङ्क्षतामवलम्ब्येथंभूतगुणगणमदातुं दातुं समर्था भवन्ति / दर्श०३ तत्त्व। (14) अथ सद्धर्मग्रहणयोग्यतामाहसंविग्नस्तच्छुतेरेवं, ज्ञाततत्त्वो नरोऽनघः। दृढं स्वशक्त्या जातेच्छः, संग्रहेऽस्य प्रवर्तते / / 20 / / एवमुक्तनीत्या (तच्छुते :) तस्याः धर्मदेशनायाः श्रुतेः श्रवणान्नरः श्रोता पुमान अनघो व्यावृत्ततत्त्वप्रतिपत्तिबाधकमिथ्यात्वमालिन्यः सन्नत एव ज्ञाततत्वः करकमलतलाऽऽकलितनिस्तलास्थूलामलमुक्ताफलवच्छास्वलोचनबले नाऽऽलो कितसकलजीवाऽऽदिवस्तुवादः, तथा(संविग्नः) संवेगमुक्तलक्षण प्राप्तः सन्जातेच्छो लब्धचिकीर्षापरिणामोऽर्थाद्धमें (दृढम्) अतिसूक्ष्माऽऽभोगपूर्व यथा स्यात्तथा स्वशक्या स्वसामर्थ्येन हेतुभूतेन अस्य धर्मस्य संग्रहे सम्यग् वक्ष्यमाणयोगवन्दनाऽऽदिशुद्धिरूपविधिपूर्व ग्रहे प्रतिपत्तौ (प्रवर्तते) प्रवृत्तिमाधत्ते / अदृढमयथाशक्ति च धर्मग्रहणप्रवृत्तौ भङ्गसं भवेन प्रत्युतानर्थसंभव इति दृढस्वशक्त्योहणं कृतमिति विशेषगृहिधर्मग्रहणयोग्यताप्रतिपादिता भवति शास्त्रान्तरे चैकविंशत्या गुणैर्द्धर्मग्रहणा) भवतीति प्रतिपादितम् / 501 अधि०(ते च गुणा धम्मरयण' शब्दे वक्ष्यन्ते) (15) धर्माधिकारिणःजे पुव्वुट्ठाई णो पच्छा णिवाती,जे पुव्वुट्ठाई पच्छा णिवाती, जे णो पुव्वुट्ठाई णो पच्छा णिवाती,सेऽवि तारिसिए सिया, जे परिण्णाय लोगमण्णे सयंति / / 152|| यः कश्चिद्विदितसंसारस्वभावतया धर्मचरणकप्रवणमनाः पूर्व प्रव्रज्यावसरे संयमानुष्ठानेनोत्थातुं शीलमस्येति पूर्वोत्थायी, पश्चाच श्रवासंवेगतया विशेषेण वर्द्धमानपरिणामो नो निपाती, निपतितु शीलमस्येति विगृह्य णिनिः / निपतनं वा निपातः, सोऽस्यास्तीति निपाती, सिंहतया निष्क्रान्तः सिंहतया विहारी च गणधराऽऽदिवत्प्रथमो भङ्गः। द्वितीयभङ्गं सूत्रेणैव दर्शयन्नाह-- पूर्वमुत्थातुं शीलमस्येतिपूर्वोत्थायी, पुनर्विचित्रत्वात्कर्मपरिणतेस्तथाविध-भवितव्यतानियोगात्पश्वान्निपाती स्यात्, नन्दिवेणवत्। कश्चिद्दर्शनतोऽपि गोष्ठामाहिलवदिति / तृतीयभङ्गस्य चाभावादनुपादानं, स चायम्- (जे णो पुव्वुट्ठायीत्यादि) नो पूर्वोत्थायी पश्चान्निपातीति / तथा ह्युत्थाने सति निपातोऽनिपातो वा चिन्त्यते, सति धम्मिणि धर्मचिन्ता, तदुत्थानप्रतिषेधे च दूरोत्सादितैव निपातचिन्तेति। चतुर्थभङ्ग दर्शयन्नाह यो हि नो पूर्वोत्थायी न च पश्चान्निपाती सोऽविरत एव गृहस्थः सन्नोत्थायी भवति, सम्यग्विरतेरभावान्नापि पश्चान्निपाती, उत्थानाविनाभावित्वानिपातस्य,शाक्याऽऽदयो वा चतुर्थभङ्गापतिता द्रष्टव्याः, तेषामप्युभयासद्भावादिति / ननु च गृहस्था एव चतुर्थभङ्गापतिता युक्ता वक्तुं, तथाहितेषां सावधयोगानुष्ठानेनानुत्थानतया प्रतिज्ञामन्दराऽऽरोपाभावान्निपाताभावः, शाक्याऽऽदिरपि चतुर्थभङ्गपतित इत्यत आह- (सेऽवि इत्यादि) सोऽपि शाक्याऽऽदिर्गणः पञ्चमहाव्रतभाराऽऽरोपणाभावेन सावद्ययोगानुष्ठानतया नो पूर्वोत्थायी, निपातस्य च तत्पूर्वकत्वान्नो पश्चान्निपातीत्यतस्तादृश एव गृहस्थतुल्य एव स्यात्, आश्रवद्वाराणामुभयेषामप्यसंवृतत्वात्, उदायिनृपमारकवत्। अन्येऽपि ये सावद्यानुष्ठायिनस्तेऽपि तादृक्षा एवेति दर्शयन्नाह- (जे परिण्णाय इत्यादि) येऽपि स्वयूथ्याः पार्श्वस्थाऽऽदयो द्विविधयाऽपि परिज्ञया लोक परिज्ञाय पुनः पचनपाचनाऽऽद्यर्थ तमेव लोकमन्वाश्रिता अन्वेषयन्ति वा तेऽपि गृहस्थतुल्या एव भवेयुः / / 152 / /