________________ धम्म 2672 - अभिधानराजेन्द्रः - भाग 4 सिद्धस्य च निष्पन्नस्य चास्य प्रत्यक्षीकृतस्य सम्यगवैपरीत्येन प्रशस्तानि वा लिङ्गानि लक्षान्येतानि वक्ष्यमाणानि धर्मतत्त्वस्य धर्मस्वरूपस्य विहितानि शास्त्रेऽभिहितानि तत्त्व विद्भिः परमार्थवदिभिः सुखावबोधाय सुखपरिज्ञानाय येन तानि सुखेनैव बुद्ध्यन्ते भव्याना योग्यानाम् // 1 // तान्येन लिङ्गानि स्वरूपतो ग्रन्थकारः पठतिऔदार्य दाक्षिण्यं, पापजुगुप्साऽथ निर्मलो बोधः। लिङ्गानि धर्मसिद्धेः,प्रायेण जनप्रियत्वं च // 2 // उदाररु भाव औदार्य वक्ष्यमाणलक्षण, दक्षिणोऽनुकूलस्तद्भावो दाक्षिण्य निर्देक्ष्यमाणस्वरूपं पापजुगुप्सा पापपरिहारः। अथ निर्मलो बोधोऽभिधास्यमानस्वरूपः, लिङ्गानि चिह्नानि धर्मसिद्धर्धर्मनिष्पतेः प्रायेण बाहुल्येन जनप्रियत्वं च लोकप्रियत्वं च / / 2 / साम्प्रतमीदार्यलक्षणमाहऔदार्य कार्पण्य-त्यागाद्विज्ञेयमाशयमहत्त्वम्। गुरुदीनाऽऽदिष्वौचि-त्यवृत्ति कार्ये तदत्यन्तम् / / 3 / / औदार्य नाम धर्मतत्त्वलिङ्ग, कार्पण्यत्यागात् कृपणभावपरित्यागादतुच्छवृत्त्या विज्ञेयमाशयमहत्त्वमाशयस्याध्यवसायस्य महत्त्व विपुलत्वम्। तदेव विशिष्यते-गुरुदीनाऽऽदिष्वौचित्यवृत्ति गुरुषु गौरवाहेषु तदधिकारे। यथोक्तम्- 'माता पिता कलाऽऽचार्यः, एतेषां ज्ञातयस्तथा। वृद्धा धर्मोपदेशशरो, गुरुवर्गः सता मतः / / 1 / / " दीनाऽऽदिषु चानाधारेषु यदौचित्यवृत्ति औचित्येन वृत्तिरस्मिन्नौदार्य आशयमहत्त्वे वा तदौचित्यवृत्ति, कार्ये कार्यविषये तदौदार्यमाशयमहत्त्व वा अत्यन्तमतिशयेन औचित्यवृत्तिकारि वा, एतद् गुर्वादिषु // 3 // षो०४ विव०। (दाक्षिण्यम् [4] इत्यादिना दाक्षिण्यलक्षणं 'दक्खिण्ण' शब्दे 2441 पृष्टेऽत्रैव भागे गतम्) (पापजुगुप्सा [5] इत्यादिना पापजुगुप्सालक्षणं पावदुगुंछा' शब्दे वक्ष्यते) (निर्मल [6] इत्यादिना निर्मलबोधलक्षणं 'णिम्मलबोहवंत' शब्देऽस्मिन्नेव भागे 2084 पृष्ठे गतम्) (युक्तम् [7] इत्यादिना जनप्रियत्वलक्षणं 'जणप्पियत्त' शब्देऽस्मिन्नेव भागे 1388 पृष्ठे रामुक्तम्) / एवं धर्मतत्त्वलिङ्गान्यौदार्याऽऽदीनि विधिमुखेन प्रतिपाद्य धर्मतत्त्वव्यवस्थितानां पुंसां व्यतिरेकमुखेन विषयतृष्णाऽऽदीनां स्वरूप प्रतिपिपादयिषुर्दृष्टान्तपूर्वक विकाराभावमाविर्भावयितुमाह आरोग्ये सति यद-व्याधिविकारा भवन्ति नो पुंसाम्। तद्धाऽऽरोग्ये, पापविकारा अपि ज्ञेयाः ||8|| (आरोग्ये इत्यादि) आरोग्ये रोगाभावे सति जायमाने यद्वदिति यथा व्याधिविकारा रोगविकास भवन्ति नो पुंसामारोग्यवता तद्वदिति। तथा धर्माऽऽरोग्ये धर्मरूपमारोग्यं तस्मिन् सति पापविकारा अपि वक्ष्यमाणा न भवन्तीति विज्ञेयाः ||8|| पापविकारा ये न भवन्ति तान् विशेषतो निर्दिशतितन्नास्य विषयतृष्णा, प्रभवत्युच्चैर्न दृष्टिसंमोहः / अरुचिर्न धर्मपथ्ये, न च पापा क्रोधकण्डूतिः / / 6 / तदेवं स्थिते धर्मतत्त्वयुक्तस्य नास्य पुरुषस्य विषयतृष्णा वक्ष्यमाणलक्षणा प्रभवति जायते उच्चैरत्यर्थ न दृष्टिसंमोहो वक्ष्यमाणलक्षण एव अरुचिरभिलाषाभावो न धर्मपथ्ये नधर्मपथ्यविषये, न च पापा स्वरूपेण पापहेतुर्वा क्रोधकण्डूतिः क्रोध एव कण्डूतिः, कण्डूशब्दः कण्ड्वादिषु | पठ्यते, तस्य क्तिन्नन्तस्यरूपमेतत्।।६।। षो०४ विव०। (विषयतृष्णालक्षणं 'विसयतण्हा' शब्दे वक्ष्यते) (दृष्टिसंमोहश्च 'दिहिसंमोह' शब्देऽरिमन्नेव भागे 2517 पृष्ठे गतः) एवं दृष्टिसंमोहमभिधाय तदनन्तर धर्मपथ्यविषयाया अरुचेर्लिङ्गमाहधर्मश्रवणेऽवज्ञा, तत्वरसाऽऽस्वादविमुखता चैव। धार्मिकसत्त्वाऽऽसक्ति-श्व धर्मपथ्येऽरुचिलिङ्गम् // 12 // (धर्मेत्यादि) धर्मस्य श्रवणमविपरीतार्थमाकर्णनं तत्राऽव ज्ञाऽनादरस्तत्त्वे परमार्थे रस आसक्तिहेतुः तस्याऽऽस्वादस्तस्मिन् विमुखता वैमुख्यं तत्त्वरसाऽऽस्वादविमुखता चैव, धार्मिका ये सत्त्वास्तैरसक्तिरसंयोगोऽसंपर्को धार्मिकसत्त्वासक्तिश्च / धर्मपथ्ये धर्मः पथ्यमिव तस्मिन्नरुचेर्लिङ्ग मिति प्रत्येकमभिसंबन्धः करणीयः / / 12 / / न च पापा क्रोधकण्डूतिरिक्युक्तं तस्याश्चिमाहसत्येतरदोषश्रुति-भावादन्तर्बहिश्च यत् स्फुरणम्। अविचार्य कार्यतत्त्वं, तचिह्न क्रोधकण्डूतेः॥१३॥ (सत्येत्यादि) सत्यदोषश्रुतिभावादसत्यदोषश्रुतिभावाच्चान्तर्बहिवाभ्यन्तरपरिणाममाश्रित्यान्तर्बहिर्गताऽप्रसन्नताऽऽद्याकारद्वारेण बहिश्च यत् स्फुरणं वा वृद्धिश्चलनं वा अविचार्यानालोच्य कार्यतत्त्व कार्यपरमार्थ तचिह्न लक्षणं क्रोधकण्डूतेः क्रोधकण्ड्डाः॥१३।। एवमेते विषयतृष्णाऽऽदयो व्यतिरेकमुखेनोक्तास्तद-भावमुपदर्शयन् मैत्र्यादिगुणसंभवमाहएते पापविकाराः, न प्रभवन्त्यस्य धीमतः सततम्। धर्मामृतप्रभावा-द्भवन्ति मैत्र्यादयश्च गुणाः // 14 // (एते इत्यादि) एते पापविकाराः पूर्वोक्ता न प्रभवन्ति न जायन्तेऽस्य पुरुषस्य धीमतो बुद्धिमतः सततमनवरतं धर्मामृतप्रभावाद्धर्म एवामृतं धर्मामृतं तत्प्रभावाद्भवन्ति संपद्यन्ते मैत्र्यादयश्च गुणा वक्ष्यमाणस्वरूपाः ||14|| मैत्र्यादीनामेव लक्षणमाहपरहितचिन्ता मैत्री, परदुःखविनाशिनी तथा करुणा। परसुखतुष्टिर्मुदिता, परदोषोपेक्षणमुपेक्षा // 15|| (परेत्यादि) परेषां प्राणिनां हितचिन्ता हितचिन्तनं मैत्री, ज्ञेयेति सर्वत्र वाक्यशेषः / परेषां दुःखंतद्विनाशिनी तथा करुणा कृपा, परेषां सुखं तेन तस्मिन् वा तुष्टिः परितोषोऽप्रीतिपरिहारो मुदिता, परेषां दोषा अविनयाऽऽदयः प्रतिकर्तुमशक्यास्तेषामुपेक्षामवधीरणमुपेक्षा, संभवत्प्रतीकारेषु तु दोषेषु नोपेक्षा विधेया।।१५।। एवं मैत्र्यादिगुणान् भावनारूपानभिधाय धर्मतत्त्वलक्षणोपसंहार चिकीर्षुराहएतज्जिनप्रणीतं, लिङ्गं खलु धर्मासिद्धिमज्जन्तोः। पुण्याऽऽदिसिद्धिसिद्धेः, सिद्धं सद्धेतुभावेन // 16 // (एतदित्यादि) एतत् पूर्वोक्तं सर्वमेवौदार्याऽऽदिविधि-प्रतिषेधविषयं जिनप्रणीतं जिनोक्तं लिङ्ग लक्षणं, खलु शब्दो वाक्यालङ्कारे, धम्मासिद्धिमतः धर्मनिष्पत्तिमजन्तोः प्राणिनः पुण्याऽऽदिसिद्धि सिद्धः पुण्य ऽऽद्यु-पायनिष्पत्तेः, सिद्धं प्रतिष्ठितं, सद्धेतुभावेन सत्का