________________ धम्म 2666 - अभिधानराजेन्द्रः - भाग 4 धम्म तिराज्य भिन्नः स च कराऽऽदिः पुरवरधर्मः प्रतिपुरवरं भिन्नः, वचित् किञ्चिद्विशिष्टोऽपि पौरभाषाप्रतिपादनाऽऽदिलक्षणः / सद्वितीया योषिनेहान्तरं गच्छतीत्यादिलक्षणो वा / ग्रामधर्मः प्रतिग्राम भिन्नः। गणधर्मोमल्लाऽऽदिगणव्यवस्था यथा रामपदपातेन विषभग्रह इत्यादि। गोष्ठीधर्मो गोष्ठीव्यवस्था। इह चसमवयःसमुदायो गोष्टी। तद्व्यवस्था पुनर्वसन्ताऽऽदावेवंकर्तव्यमित्यादिलक्षणा / राजधर्मो दुष्टेतरनिग्रहपरिपालनाऽऽदिरिति / भावधर्मता चाऽस्य गभ्याऽऽदीनां विवक्षया भावरूपत्वाद् द्रव्यपर्यायत्वाद्वा तस्यैव च द्रव्यानपेक्षस्य विवक्षितत्वाद् लौकिकैर्वा भावधर्मत्वेनेष्टत्वात्। देशराज्याऽऽदिभेदश्चैकदेश एवानेकराज्य-संभव इत्येवं सुधिया भाव्यम् / इत्युक्तो लौकिकः। कुप्रावचनिक उच्यतेअसावपि सावद्यप्रायो लौकिककल्प एव / यत आह- (सावज्जो उ इत्यादि) अवयं पापं सहावद्येन सावद्यः / तुशब्दरत्वेवकारार्थः / स चावधरणे / सावद्य एव, कः? कुतीर्थिकधर्मश्चरकपरिव्राजकाऽऽदिधर्म इत्यर्थः / कुत एतदित्याह-न जिनरर्हद्भिस्तुशब्दादन्यैश्च प्रेक्षापूर्वकारिभिः प्रशसितः स्तुतः। सारम्भपरिग्रहत्वाद् / अत्र बहुवक्तव्यम्, तत्तु नोच्यते, गमनिकामात्रफलत्वात्प्रस्तुतव्यापारस्येति गाथार्थः / / 4 2 / / उक्तः कुप्रावचनिकः। साम्प्रतं लोकोत्तरं प्रतिपादयन्नाहदुविहो लोगुत्तरिओ, सुयधम्मो खलु चरित्तधम्मो य। सुयधम्मो सज्झाओ, चरित्तधम्मो समणधम्मो।।४३।। द्विविध द्विप्रकारो, लोकोत्तरो लोकप्रधानो, धर्म इति वर्त्तते / तथा चाऽऽह- श्रुतधर्मः, खलु चारित्रधर्मश्च / तत्र श्रुतं द्वादशाङ्गं तस्य धर्मः श्रुतधर्मः / खलुशब्दो विशेषणार्थः। किं विशिनष्टि। स हि वाचनाऽऽदिभेदाचित्र इति। आह च-श्रुतधर्मः स्वाध्याय-वाचनाऽऽदिरूपस्तत्त्वचिन्तायां धर्महेतुत्वाद् धर्म इति / तथा चारित्रधर्मश्च तत्र 'चर' गतिभक्षणयोरित्यस्य "अर्तिलूधूसूखन-सहचर इत्रः" / / 3 / 2 / 184 // इति इत्रप्रन्ययान्तस्य चरित्रमिति भवति। चरन्त्यनिन्दितमनेनेति चरित्र क्षयोपशमरूपं, तस्य भावश्चारित्रमशेषकर्मक्षयाय चेष्टेत्यर्थः। ततश्चारित्रमेव धर्मश्चारित्रधर्म इति / चःसमुच्चये / अयं च श्रमणधर्म एवेत्याहचारित्रधनः श्रमणधर्म इति / तत्र श्राम्यतीति श्रमणः "कृत्यल्युटो बहुलम्" ||3 / 3 / 113 / / इति वचनात् कर्तरि ल्युट् श्राग्यतीति तपस्यतीति / एतदुक्तं भवतिप्रव्रज्यादिवसादारभ्य सकलसावद्ययोगविरतौ गुरूपदेशादनशनाऽऽदि यथाशक्त्या प्राणोपरमात्तपश्चरतीति / उक्तं च-"यः समः सर्वभूतेषु, त्रसेषु स्थावरेषु च। तपश्चरति शुद्धात्मा, श्रमणोऽसौ प्रकीर्तितः।।१।।" इति। तस्य धर्मः स्वभावः। श्रमणधर्मश्व क्षान्त्यादिलक्षणो वक्ष्यमाण इति गाथार्थः / / 43 / / दश०१ अ०। / धर्मभेदान् सामान्येन निरूपयन्नाहदसविहे धम्मे पण्णत्ते। तं जहा–गामधम्मे, नगरधम्मे, रट्ठधम्मे, पाखंडधम्मे, कुलधम्मे , गणधम्मे, संघधम्मे, सुयधम्मे, चरित्तधम्मे, अस्थिकायधम्मे / स्था०० ठा०। (कस्य दर्शन कति धर्मभेदा इति 'वाद' शब्दे वक्ष्यते) (10) धर्मस्य स्वलक्षणाभित्सया सम्बन्धमुपरचयति प्रकरणकार:- | अस्य स्वलक्षणमिदं, धर्मस्य बुधैः सदैव विज्ञेयम्। सर्वाऽऽगमपरिशुद्धं, यदादिमध्यान्तकल्याणम्॥१।। (अस्येत्यादि) अस्य धर्मस्य स्वलक्षणं लक्ष्यते तदितरव्यावृत्तं वरत्वनेनेति लक्षणम् / स्व च तल्लक्षणं चेति स्वलक्षणमिदं वक्ष्यमाणं बुधैर्विद्वद्भिः सदैव सर्वकालमेव विज्ञेयम् / सर्वकालव्याप्त्या लक्षणस्याऽन्यथात्वाभावमुपदर्शयति सर्वैरागमैः परिशुद्ध निर्दोष यदादि-- मध्यान्तकल्याणमादिमध्यावसानेषु सुन्दरमिति योऽर्थः / / 1 / / किं पुनर्धर्मस्य स्वलक्षणमित्याहधर्मश्चित्तप्रभवो, यतः क्रियाऽधिकरणाऽऽश्रयं कार्यम्। मलविगमेनैतत् खलु, पुष्ट्यादिमदेष विज्ञेयः॥२॥ (धर्म इत्यादि) प्रभवत्यस्मादिति प्रभवः / चित्तरूपत्वाचित्तहेतुकत्वाचरित्रं, चित्तं स चाऽसौ प्रभवश्च चित्तप्रभवः स धम्मों विज्ञेयः। विशेषणसमासाड्गीकरणाद्यच्छब्दन चित्तमेव परामृश्यते, यतश्चित्तात्क्रिया प्रवर्त्तते विधिनिषेधविषया। सा च क्रिया कार्य चित्तनिष्पाद्यत्वात् / तच स्वरूपेण क्रियालक्षणं कार्य कीदृशं यचित्तात्प्रवर्त्तत इत्याहअधिकरणाऽऽश्रयमिह यद्यप्यधिकरणशब्दः सामान्येनाऽऽधारवचनस्तथापि प्रक्रमात चित्तस्याधिकरणमाश्रयः शरीरं, चित्तस्य शरीराssधारत्वात्। क्रियालक्षण कार्यमधिकरणाऽऽश्रय शरीराऽऽश्रयं यतः प्रवर्तते चित्तात्तच्चित्तं धर्म इत्युक्तम् / चित्तात्प्रभवतीति पुनरुच्यते चित्तस्य। एतत्पुष्ट्यादिमदित्यनेन सह संबन्धो न स्यात्। यत् इत्यनेनापि केवलमेव चित्तं न गृहोता तथा धर्मस्यैव विशेष्यत्व स्यान्न चित्तस्य, ततश्च चित्तस्य विशेषणपदैरभिसंबन्धो न स्यादिति दोषः / एतदेव चित्तं मलविगमेन रागाऽऽदिमलापगमेन पुष्ट्यादिमत् पुष्टिशुद्धिद्वयसमन्वितमेष धर्मा विज्ञेय इति / / 2 / / मलविगमेनेतत्खलु पुष्टिमदित्युक्त, तत्र के मलाः कथं च पुष्ट्यादिमत्त्वं चित्तस्येत्येवं वक्तुकामनायो श्रोतुरिदमाह-- रागाऽऽदयो मलाः ख-ल्यागमसद्योगतो विगम एषाम् / तदयं क्रियात एव हि, पुष्टिः शुद्धिश्च चित्तस्य / / 3 / / (रागाऽऽदय इत्यादि) इह मलाः प्रक्रमाश्चित्तस्यैव संबन्धिनः परिगृह्यन्ते। ते च रागाऽऽदयो रागद्वेषमोहा जातिसंग्रहीताः / व्यक्तिभेदेन तु भूयांसः / खलुशब्दावधारणादागाऽऽदय एव नान्ये / आगमनमागमः सम्यकपरिच्छेदस्तेन सद्योगः सद्व्यापारः आगमसहितो वा यः सद्यो-- गः सतक्रियारूपः / ततः सकाशाद्विगम एषां रागाऽऽदीना मलापगमः संजायते / तत् तरमादयमागमसद्योगः क्रिया वर्तते सर्वाऽपि शास्त्रोक्ता विधिप्रतिषेधाऽऽत्मिका / अत एव ह्यागमसद्योगात् क्रियारूपात पुष्टिवक्ष्यमाणस्वरूपा शुद्धिश्च चित्तस्य संभवति / / 3 / / पुष्टिशुद्ध्योर्लक्षणं दर्शयतिपुष्टिः पुण्योपचयः, शुद्धिः पापक्षपेण निर्मलता। अनुबन्धिनि द्वयेऽस्मिन्, क्रमेण मुक्तिः परा ज्ञेया |4|| (पुष्टिरित्यादि) उपचीयमानपुण्यता पुष्टिरभिधीयते, शुद्धिः पापक्षयेण निर्मलता, पाप ज्ञानावरणीयाऽऽदि च सम्यगज्ञानाऽऽदिगुणविघातहेतुर्घातिकर्मोच्यते। तत्क्षयेण यावती काचिद्देशतोऽपि निर्मलता संभवति सा शुद्धिरुच्यते, अनुबन्धः सन्तानः