________________ धम्म 2664 - अभिधानराजेन्द्रः - भाग 4 धम्म धर्मधर्मिभावः, ततो न दूषणमिति चेत्तर्हि वस्त्वभावप्रसङ्गः / न हि धर्मधर्मिस्वभावरहित किञ्चिद्वस्त्विति, धर्मधर्मिभावश्च कल्पित इति तदभावप्रसङ्गः / धर्मा एव कल्पिता न धर्मः, तत्कथमभावप्रसङ्ग इति चेत्, न, धर्माणां कल्पनामात्रभावत्वाभ्युपगमेन परमार्थतोऽसत्त्वाभ्युपगमात्, तदभावे च धर्मिणोऽप्यभावाऽऽपत्तिः / अथ तदेवैक स्वलक्षणं सकलसजाती। यविजातीयव्यावृत्त्येकस्वभावाः धर्मिव्यावृत्तिनिबन्धनाश्च या व्यावृत्तयो भिन्ना इव विकल्पितास्ता धर्मास्ततो न कश्चिद्दोषः। तदप्ययुक्तम् / एवं कल्पनायां वस्तुनोऽनेकान्तात्मकताप्रसक्तेः / अन्यथा सकलसजातीयविजातीयव्यावृत्तयोगान्न हि येन निजस्वभावेन घटाद् व्यावर्तते पटस्तेनैव स्तम्भादपि, स्तम्भस्य घटरूपताप्रसक्तेः। तथाहिघटाद् व्यावर्तते घटव्यावृत्तिस्यभावतया स्तम्भादपि चेत् धटव्यातृत्तिस्वभावतयैव व्यावर्तते, तर्हि बलात् स्तम्भस्य घटरूपताप्रसक्तिः। अन्यथा-ततः तत्स्वभावतया व्यावृत्त्ययोगात्। तस्माद्यतो यतोव्यावर्तत तत्तद्यावृत्तिनिमित्तभूताः स्वभावा अवश्यमभ्युपगन्तव्याः, ते चानेकान्तेन धर्मिणो भिन्नाः, तदभावप्रसङ्गात्। तथा च तदवस्थ एव पूर्वोक्तो दोषः तस्मानिन्ना अभिन्नाश्च / भेदाभेदोऽपि धर्मधर्मिणोः कथमिति चेत्? उच्यते-इह यद्यपि तादात्म्यतो धर्मिणा धर्माः सर्वेऽपि लोलीभावेन व्याप्ताः, तथाऽप्ययं धर्मी, एते धर्मा इति परस्पर भेदोऽप्यस्ति, अन्यथा तद्भावानुपपत्तिः / तथा च सति प्रतीतिबाधा, मिथो भेदेऽपि च विशिष्टान्योन्यानुवेधेन सर्वधर्माणां धर्मिणा व्याप्तत्वादभेदोऽप्यरित। अन्यथा तस्य धर्मा इति प्रसङ्गानुपपत्तेः / नं० सम्म (2) अथ चैतन्याऽऽदयो रूपाऽऽदयश्च धर्मा आत्माऽऽदेर्घटाऽऽदेश्व धर्मिणोऽयन्तं व्यतिरिक्ता अपि समवायसबन्धेन संबद्धाः सन्तो धर्मिधर्मव्यपदेशमश्नुवते, तन्मतं दूषयन्नाहन धभधभित्वमतीव भेदे, वृत्त्याऽस्ति चेन्न त्रितयं चकास्ति। इहेदमित्यस्ति मतिश्च वृत्तौ, न गौण भेदोऽपि च लोकबाधः / / 7 / / धर्मधर्मिणोरतीव भेदेऽतीवेत्यत्रेवशब्दो वाक्यालङ्कारे / तं च प्रायोऽतिशब्दाकिंवृत्तेश्च प्रयुञ्जते शाब्दिकाः / यथा-"आवजिता किञ्चिदिव स्तनाभ्याम्।" उद्धृतः क इव सुखावहः परेषाम्' इत्यादि। ततश्चैकान्तभिन्नत्येऽङ्गीक्रियमाणे धर्माधर्मित्वं न स्यात्। अस्य धर्मिण इमे धाः, एषां च धर्माणामयमाश्रयभूतो धर्मीत्येवं सर्वप्रसिद्धो धर्माधर्मिव्यपदेशो न प्राप्नोति, तयोरत्यन्तभिन्नत्वेऽपि तत्कल्पनायां पदार्थान्तरधर्माणामपि विवक्षितधर्माधर्मिमत्वाऽऽपत्तेः / एवमुक्ते सति परः प्रत्यवतिष्ठतेवृत्त्याऽस्तीति अयुतसिद्धामामाधार्याऽऽधारभूतानामिह प्रत्ययह तुः संबन्धः समवायः। स च समवयनात्समवाय इति / द्रव्यगुणकर्मसामान्यविशेषेषु पञ्चसु पदार्थेषु वर्तनाद्वृत्तिरिति चाऽऽख्यायते / तया वृत्त्या समवायसंबन्धेन तयोर्धर्माधर्मिणोरितरेतरविनिलण्ठितत्वेऽपि धर्मधर्मव्यपदेश इष्यते / इति नान्तरोक्तो दोष इति / अत्राऽऽचार्यः समाधत्तेचेदिति / यद्येवं तव मतिः, सा प्रत्यक्षप्रतिक्षिता, यतो न त्रितयं चकास्तिअयं धर्मी, इमे चास्यधाः , अयं चैतत्सम्बन्धनिबन्धन समवाय इत्येतत्त्रितयं वस्तुत्रयं न चकास्ति, ज्ञानविषयतया न प्रतिभासते। यथा किल शिलाशकलयुगलस्य मिथोऽनुसंधायक रालाऽऽदिद्रव्यं तस्मात्पृथक् तृतीयतया प्रतिभासते, नैवमत्र समवायस्याऽपि प्रतिभानम्। किन्तु द्वयोरेव धर्माधर्मिणोः / इति शपथप्रत्यायनीयोऽयं समवाय इति भावार्थः / किं चायं तेन वादिना एको नित्यः सर्वव्यापको मूर्तश्च परिकल्प्यते, ततो यथा घटाऽऽश्रिताः पाकजरूपाऽऽदयो धाः समवायसंबन्धेन समवेतास्तथा किं न पटेऽपि? तस्यैकत्वनित्यत्वव्यापकत्वैः सर्वत्र तुल्यत्वात्। यथाऽऽकाश एक नित्यो व्यापकः, अमूर्तश्च सन्सः संबन्धिभियुगपदविशेषेण संबध्यते,तथा कि नायमपीति विनश्यदेकवस्तुसमवायाभावे च समस्तवस्तुसमवायाभावः प्रसज्यते। तत्तदवच्छेदकभेदान्नायं दोष इति चेदेवमनित्यत्वा-ऽऽपत्तिः / प्रतिवस्तु स्वभावभेदादिति। अथ कथं समवायस्य न ज्ञाने प्रतिभासनं, यतस्तस्येहेतिप्रत्ययः सावधान साधनम्। इहप्रत्ययश्चानुभवसिद्ध एव। इह तन्तुषु पटः, इहाऽऽत्मनि ज्ञानमिह घटे रूपाऽऽदय इति प्रतीतेरुपलम्भात् / अस्य च प्रत्ययस्य केवलधर्मधर्म्यनालम्बनत्वादस्ति समवायाऽऽख्य पदार्थान्तरं तद्धेतुः इति पराशङ्कामभिसंधाय पुनराहइहेदमित्यस्ति मतिश्च वृत्ताविति। इहेदमिति इहेदमिति आश्रयाऽऽश्रयिभावहेतुक इहप्रत्ययो वृत्तावप्यस्ति समवायसंबन्धेऽपि विद्यते, चशब्दोऽपिशब्दार्थः, तस्य च व्यवहितसंबन्धः, तथैव च व्याख्यातम् / इदमत्र हृदयम-- यथा त्वन्मते पृथिवीत्वाभिसंबन्धात्पृथिवी, तत्र पृथिवीत्वं पृथिव्या एव स्वरुपमस्तित्वाख्य, नापरं वस्त्वन्तरं, तेन स्वरूपणैव सम योऽसावभिसंबन्धः पृथिव्याः, स एव समवाय इत्युच्यते, "प्राप्तानामेव प्राप्तिः समवायः" इति वचनात् / एवं समवायत्वाभिसंबन्धात्समवाय इत्यपि किं न कल्प्यते? यतस्तस्यापि यत्समवायत्वं स्वस्वरूपं, तेन सार्द्ध संबन्धोऽस्त्येव / अन्यथा निःस्वभावत्वात् शशविषाणवदवस्तुत्वमेव भवेत्। ततश्च इह समवाये समवायित्वमित्युल्लेखेन इहप्रत्ययः समवायेऽपि युक्त्या घटत एव / ततो यथा पृथिव्यां पृथिवीत्वं समवायेन समवेतम्, समवायेऽपि समवायत्वमेवं समवायान्तरेण संबन्धनीय, तदप्यपरेणेत्येव दुस्तराऽनवस्थामहानदी। एवं समवायचस्याऽपि समवायत्वाभिसंबन्धे युक्त्या उपपादिते साहसिक्यमालम्ब्य पुनः पूर्वपक्षवादी वदतिननु पृथिव्यादीनां पृथिवीत्वाऽऽदिसंबन्धनिबन्धन समवायो मुख्यस्तत्र त्वतलाऽऽदिप्रत्ययाभिव्यङ्गयस्य सगृहीतसकलावान्तरजातिलक्षणव्यक्तिभेदस्य सामान्यस्योद्भवात्। इह तु समवायस्यैकत्वेन व्यक्तिभेदाऽभावे जातेरनुभूतत्वाद्रौणोऽयं युष्मत्परिकल्पित इहेतिप्रत्ययसाध्यः समवायत्वाभिसंबन्धः, तत्साध्यश्च समवाय इति। तदेतन्न विपश्चिचेतश्वमत्कारकारणम्। यतोऽत्रापि जातिरुद्भवन्ती केन निरुध्येत? व्यक्तेरभेदेनेति चेत् / न तत्तदवच्छेदकवशात्तभेदोपपतौ व्यक्तिभेदकल्पनाया दुर्निवारत्वात् / अन्यो हि घटसमवायोऽन्यश्च पटसमवाय इति व्यक्त एव समवायस्यापि व्यक्तिभेद इति तत्सिद्धौ सिद्ध एव जात्युद्वस्तस्मादन्यत्राऽपि मुख्य एव समवायः, इहप्रत्य-यस्योभयत्राप्यव्यभिचारात्। तदेतत्सकलं सपूर्वपक्ष समाधान मनसि निधाय सिद्धान्तवादी प्राऽऽह-न गौण इति योऽयं भेदः सनास्ति, गौणलक्षणाभावात् / तल्लक्षणं चेत्थमाचक्षते- 'अव्यभिचारी मुख्योऽविकलोऽसाधारणोऽन्तरङ्गश्च / विपरीतो गौणोऽर्थः, सति मुख्ये धीः कथं गौणे? / / 1 / / '' तस्माद्धर्मधर्मिणोः संबन्धेन मुख्यः समवायः, समवाये च समवायत्वाभिसबन्धे गौण इत्ययं भेदो नानात्व नास्तीति