________________ देव 2612 - अभिधानराजेन्द्रः - भाग 4 देव वत्तीस सागराऊ, उक्कोसेणं वियाहिया। चउसु पि विजयाईसु, जहन्ना इक्कतीसई / / 242 / / अजहण्णमणुक्कोसं, तेत्तीसं सागरोवमा। महाविमाणे सव्वड्डे, ठिई एसा वियाहिया।।२४३।। जा चेव य आउठिई, देवाणं तु वियाहिया। सा तेसिं कायठिई, जहण्णमुक्कोसिया भवे // 244 / / सप्तविंशतिसूत्राणि प्रायो निगदसिद्धान्येव, नवरं (साहियं ति) प्राकृतत्वात् साधिकम् / (सागरं इति) सागरोपममेकम, उत्कृष्टेन स्थितिर्भवति / भौमेयकानां भवनवासिनाम, इयं च सामान्योक्तावप्युत्तरनिकायाधिपस्य बलेरेवावगन्तव्या / दक्षिणनिकाये विन्द्रस्यापि सागरोपममेव। उक्तं हि- "चमरं बलिं सागरमहियं ति।" जघन्यन दशवर्षसहस्राणि प्रमाणमस्या दशवर्षसहस्रिका / इयमपि सामान्योतावपि किल्विषाणानेव स्थितिप्रभावाऽऽदीनां देवेषु सहैव ह्रासादित्युरत्रापि भावनीयम् / तथा पल्योपमवर्षलक्षाधिकमिति। ज्योतिषामुत्कृष्टस्थित्यभिधानम्, चन्द्रापेक्षम्, सूर्यस्य तुवर्षसहस्राधिकंपल्योपममायुः / ग्रहाणामपितदेव नातिरिक्तं, नक्षत्राणां तस्यैवार्द्ध, तारकाणां तच्चतुर्भागः, तथा पल्योपमाष्टभागो ज्योतिःषु जघन्या स्थितिरित्यपि तारकापेक्षमेव।। शेषाणां पल्योपमचतुर्थभागस्यैव जघन्यस्थितित्वात् / यत उक्तम्चतुर्भागः शेषाणामिति। इह च सर्वत्र उक्तरूपयोरुत्कृष्टजघन्यस्थित्योरपान्तरालवर्तिनी मध्यमा स्थितिरिति द्रष्टव्य, तथा प्रथम इति प्रक्रमाद ग्रैवेयके अधस्तनाधस्तने / एवं द्वितीयाऽऽदिष्वपि ग्रैवेयकमितिसंबन्धनीयम् / अविद्यमानं जघन्यमिति जघन्यत्वमस्यामित्यजघन्या। तथा अविद्यमानमुत्कृष्टमित्युकृष्टत्वमस्यामित्यनुत्कृष्टा, अजघन्या चासावनत्कृष्टा च जघन्यानुत्कृष्टा। मकारो लाक्षणिकः / महचतदायुः स्थित्याद्यपेक्षया विमानं च महाविमानं तच तत्। सर्वे निरवशेषा अर्थ्यमानत्यादर्था अनुत्तरसुखाऽऽदयो यस्मिस्तत् सर्वार्थ च महाविमानं सर्वार्थ तस्मिन् स्थितिरिति सर्वत्रायुः स्थितिप्रक्रमाद्देवानां तथा आयुःस्थितिरेय कायस्थितित्वाभिधाने तत्रानन्तरमनुत्पत्तिरेवेत्यभिप्राय इति सप्त-- विशतिसूत्रार्थः / अन्तरविधानाभिधायि च सूत्रद्वयं पूर्ववव्याख्येयम्। अणंतकालमुक्कोसं, अंतोमुहत्तं जहण्णयं / विजढम्मि सए काए, देवाणं होज्ज अंतरं / / 245 / / एएसिं वण्णत्तो चेव, गंधओ रसफासओ। संठाणदेसतो वा वि, विहाणाई,सहस्ससो॥२४६|| सूत्रद्वयं प्राग्वद्व्याख्येयम्। इत्थं जीवानजीवांश्च सविस्तरमुपदर्य निगमयितुमाहसंसारत्था य सिद्धा य, इइ जीवा वियाहिया। रूविणो चेवऽरूवी य, अजीवा दुविहा वि य // 247 / / संसारस्थाश्च सिद्धाश्च इतीत्येवंप्रकारा जीवा व्याख्याता विशेषेण सकलभेदाऽऽद्यवाप्त्या प्रकथिताः / रूपिषाश्चैव (रूवी य त्ति) अकारप्रश्लेषादरुपिणश्चाजीवा द्विविधा अपिव्याख्याता इति योग इति सूत्रार्थः। / यदुक्तं जीवाजीवविभक्तिं शृणुतैकमनस इति, तत्र जीवाजीवविभक्तिमभिधाय शृणुतेकमनस इतिवचनात् कश्विच्छ्रवणश्रद्धानमात्रेणैव कृतार्थतां मन्येत नयतस्तदाशङ्काऽपनोदार्थमाहइइ जीवमजीवे, य, सोचा सद्दहिऊण य। सव्वनयाण अणुमए, रमेज्जा संजमे मुणी // 248|| इतीत्येवंप्रकारान् (जीवमजीव त्ति) जीवाजीवानेताननन्तरोक्तान श्रुत्वा अवधार्य श्रद्धाय च तथेति प्रतिपद्य सर्वे च ते नयाश्च सर्वनया ज्ञानक्रियानयान्तर्गता नैगमाऽऽदयः, तेषामनुमतोऽभिप्रेतस्तस्मिन् / कोऽर्थः? ज्ञानसहितसम्यक्चारित्र रूपे रमेत रतिं कुर्यात्। व? सम्यक्यमन पृथिव्यादिजीवोपमर्दतस्तृणपञ्चकाऽऽद्यजीवोपादानाऽऽदेश्व उपरमणं संयमः, तस्मिन् मुनिरुक्तरूप इति सूत्रार्थः / उत्त०३६अ। पञ्चविधा देवास्तद्यथाकइविहा णं भंते देवा ! पण्णत्ता ? पंचविहा देवा पण्णत्ता। तं जहा- भवियदव्वदेवा, नरदेवा, धम्मदेवा, देवाधिदेवा, मावदेवा। (कइविहा णमित्यादि) दीव्यन्ति क्रीडां कुर्वन्ति, दीव्यन्ते वा स्तूयन्ते आराध्यतया ते देवाः (भवियदव्वदेव त्ति) द्रव्यभूता देवा द्रव्यदेवाः,द्रव्यता चाप्राधान्याद् भूतभावत्वाद्वा,भाविभावत्याद्वा / तत्राप्राधान्यादेवगुणशून्या देवा द्रव्यदेवाः यथा साध्याभासा द्रव्यसाधवः / भूतभावपक्षे तु भूतस्य देवत्वपर्यायस्य प्रपन्नकारणभावदेवत्वाच्च्युता द्रव्यदेवः / भाविभावपक्षे तु-भाविनो देवत्वपर्यायस्य योग्या देवतयोत्पत्स्यमाना द्रव्यदेवाः। तत्र भाविभावपक्षपरिग्रहार्थमाह- भव्याश्च ते द्रव्यदेवाश्चेति। नरदेवाः, (धम्मदेव त्ति) धर्मेण श्रुताऽऽदिना देवा धर्मप्रधाना वा देवा धर्मदेवाः (देवाइदेव त्ति)देवान् शेषानतिक्रान्तः पारमार्थिकदेवत्वयोगाद्देवा देवातिदेवाः "देवाहिदेव त्ति।" क्वचिद् दृश्यते। तत्र च देवानामधिकाः पारमार्थिकदेवत्वयोगाद्देवा देवाधिदेवाः (भावदेव त्ति) भावेन देवगत्यादिकर्मोदयजातपर्यायण देवा भावदेवाः। भविकद्रव्यदेवा यथा-- से केणद्वेणं भंते ! एवं वुचइ-मवियदव्वदेवा भवियदव्वदेवा? गोयमा! जे भवियपंचिंदियतिरिक्खजोणिए वा मणुस्से वा देवेसु उववज्जित्तए, से तेणटेणं गोयमा !एवं वुच्चइ-भवियदव्वदेवा। (भविए इत्यादि) इह जातावेकवचनमतो बहुवचनार्थ व्याख्येयं, ततश्च ये भव्या योग्याः पञ्चेन्द्रियतिर्यग्योनिका वा, मनुष्या वा देवेषुत्पत्तु ते यस्माद्भाविदेवभावा इति गम्यम्। अथ तेनार्थेन तेन कारणेन हे गौतम ! तान् प्रत्येवमुच्यते- भव्यद्रव्यदेवा इति। से केणटेणं भंते ! एवं वुच्चइ-नरदेवा नरदेवा? गोयमा ! जे इमे रायाणो चाउरंतचक्कवट्टी उप्पण्णसम्मत्तचक्करयणप्पहाणा णवणिहिपइणो समिद्धकोसा वत्तीसं रायवरसहस्सा णुयातमग्गा सागरवरमेहलाहिपतिणो मणुस्सिदा से तेणद्वेणं० जाव नरदेवा। (जे इमे इत्यादि) (चाउरंत वक्तवाहित्ति) चतुरन्ताया भर