________________ दिट्ठिवाय 2515 - अभिधानराजेन्द्रः - भाग 4 दिट्ठिवाय सोलस तीसा वीसा, पण्णरस अणुप्पवायम्मि / / 1 / / बारस इक्कारसमे, वारसमे तेरसेव वत्थूणि। तीसा पुण तेरसमे, चोद्दसमे पण्णवीसा उ।।२।। चत्तारि दुवालस अ-8 चेव दस चेव चूलवत्थूणि। आइल्लाण चउण्हं, सेसाणं चूलिया नत्थि / / 3 / / सेतं पुव्वगए 3 // (सेकें तं इत्यादि ) अथ किं तत् पूर्वगतम् ? इह तीर्थकरस्तीर्थप्रवर्तनकाले गणधरान् सकल श्रुतार्थावगाहनसमर्थानधिकृत्य पूर्व पूर्वगतसूत्रार्थ भाषते, ततस्तानि पूर्वाण्युच्यन्ते, गणधराः पुनस्तत्र रचना विदधले आचाराऽऽदिक्रमेण विदधति, स्थापयन्ति वा / अन्ये तु व्याचक्षते-पूर्व पूर्वगतसूत्रार्थमर्हन भाषते, गणधरा अपि पूर्व पूर्वगतसूत्र विरचयन्ति, पश्चादाचाराऽऽदिकम् / अत्र चोदक आहनन्विदं पूर्वापर - विरुद्ध, यस्मादाचारनियुक्तावुक्तम्-'सव्वेसिं आयारो पढमा इत्यादि। सत्यमुक्तम्, किं तु तत्स्थापनाम-धिकृत्योक्तम् / अक्षररचनामधिकृत्य पुनः पूर्व पूर्वाणि कृतानि, ततो न कश्चित्पूर्वापरविरोधः / सूरिराह(पुव्वगतो इत्यादि) पूर्वगतं श्रुतं चतुर्दशविध प्रज्ञप्तम् / तद्यथा-- उत्पादपूर्वमित्यादि / तत्रोत्पादप्रतिपादक पूर्वमुत्पादपूर्वम् / तथाहि-तत्र सर्वव्याणां सर्वपर्यायाणा चोत्पादमधिकृत्य प्ररूपणा क्रियते। आह च चूणिकृत्-"पढम उप्पायपुव्वं, तत्थ सव्वदव्वाणं पज्जवाण य उप्पायमंगीकाउं चण्णवणा कया।'' इति / तस्य पद परिमाणमेका पदकोटी। द्वितीयमग्रायणीयम्। अग्रंपरिमाणं तस्य अयनं गमनं, परिच्छेद इत्यर्थः / तस्मै हितमग्रायणीयम्, सर्वद्रव्याऽऽदिपरिमाणपरिच्छेदकारीति भावार्थः / तथाहि-तत्र सर्वद्रव्याणां सर्वपर्यायाणा सर्वजीवविशेषाणा च परिमाणमुपवर्ण्यते / यत उक्तं चूर्णिकृता-''विइयं अग्गेणीय, तत्थ सबटव्वाणं पजवाण य सव्वजीवाण य अगं परिमाणं वन्निज्जइ।' इति / अग्रारणीय, तस्य पदपरिमाण षण्णवतिपदशतसहस्त्राणि तृतीयं पूर्व विरचयन्ति। पदैकदेशे पदसमुदायोपचारात् वीर्यप्रवादं तत्र सकर्मेतराणां जीवानाम-जीवानां च वीर्य प्रवदन्तीति वीर्यप्रवादं, कर्मणि अण्प्रत्ययः। तस्य पदपरिमाणं सप्ततिपदशतसहस्त्राणि / चतुर्थम् अस्तिनास्तिप्रवाद, तत्र यद्वस्तु लोकेऽस्ति धर्मास्तिकायाऽऽदि, यच नास्ति खरशृङ्गाऽऽदि, तत्प्रवदतीत्यस्तिनास्तिप्रवादम् / अथवा-सर्वं वस्तु स्वरूपणास्ति, पररूपेण नास्तीति अस्तिनास्तिप्रवाद, तस्य पदपरिमाणं षष्टिः पदशतसहस्त्राणि / पञ्चमं ज्ञानप्रवादंज्ञानं मतिज्ञानाऽऽदिभेदभिन्न पञ्चप्रकार तत्सप्रपञ्च वदतीति ज्ञानप्रबादं, तस्य पदपरिमाणम्, एका पदकाटी पदेनैकेन न्यूना / षष्ठं सत्यप्रवाद, सत्यं संयमो वचनं वा तत्सत्यसंयमं वचनं वा प्रकर्षेण सप्रपञ्च वदतीति सत्यप्रवाद, तस्य पदपरिमाणम् एका पदकोटी षड्भिः पदैरधिका। सप्तमं पूर्वम-आत्मप्रवादमात्मानं जीवमनेकधा नयमतभेदेन यत्प्रवदतीति तदात्मप्रवाद, तस्य पदप्रमाण षड्विशतिप्रदकोटयः। अष्टमं कर्मप्रवादं कर्म ज्ञानाऽऽवर- | णीयाऽऽदिकमष्टप्रकार, तत्प्रकर्षण प्रकृतिस्थित्यनु-भागप्रदेशाऽऽदिभिर्भेदैः सप्रपञ्चं वदति कर्मप्रवाद, तस्य पदपरिमाणम् एका कोटी अशीतिश्च षट्सहस्राणि, नवम (पचक्खाणं ति) अत्रापि पदैकदेकदेशे पदसमुदायोपचारात् प्रत्याख्यानप्रवादमिति द्रष्टव्यम् / प्रत्याख्यानं सप्रभेदं यद्वदति तत्प्रत्याख्यानप्रवादं, तस्य पदप्रमाणं चतुरशीतिपदलक्षाणि / दशम विद्याऽनुप्रवाद, विद्याऽनेकातिशयसंपन्ना अनुप्रवदति साधनानुकूल्यन सिद्धिप्रकर्षेण प्रवदतीति विद्याऽनुप्रवाद. तस्य पदपरिमाणम्, एका पदकोटी दश च पदलक्षाः / एकादशमवन्ध्य, वन्ध्यं नाम-निष्फलं, न विद्यते वन्ध्यं यत्र तदवन्ध्यम्। किमुक्तं भवति? -यत्र सर्वेऽपि ज्ञानतपःसंयमाऽऽदयःशुभफलाः सर्वेच प्रमादाऽऽदयोऽशुभफला यत्र वर्ण्यन्ते तदवन्ध्य नाम, तस्य पदपरिमाण षट्विंशतिपदकोटयः। द्वादशं प्राणायुः, प्राणाः पञ्चेन्द्रियाणि, त्रीणि मानसाऽऽदीनि बलानि, उच्छ्वासनिःश्वासो च आयुश्च प्रतीतं, ततो यत्र प्राणा आयुश्च सप्रभेदमुपवर्ण्यते, तदुपचारतः प्राणाऽऽयुरित्युच्यते, तस्य पदपरिमाणमेका पदकोटी षट्पञ्चाशच पदलक्षाणि। त्रयोदशं क्रियाविशालम्-क्रियाः कायिक्यादयः, संयमक्रियाछन्दःक्रियाऽऽदयश्च, ताभिः प्ररूप्यमाणाभिर्विशालं, तस्य पदपरिमाणं नव पदकोटयः / चतुर्दश लोकबिन्दुसारम् लोके जगति श्रुतलोके वा अक्षरस्योपरि बिन्दुरिव सारं सर्वोत्तम सर्वाक्षरसन्निपातलब्धिहेतुत्वाद् लोकबिन्दुसार, तस्य पदपरिमाणमर्द्धत्रयोदशपदकोटयः। (उप्पायपुव्वस्स णं) इत्यादि कणठ्यं, नवरं वस्तु ग्रन्थविच्छेदविशेषः, तदेव लघुतरक्षुल्लकं वस्तु, तानि चाऽऽदिमेष्वेव चतुर्ष पूर्वेषुन शेषेषु। तथा चाऽऽह-"आइल्लाण चउण्हं, सेसाणं चूलिया नस्थि / सेतं पुव्वगए। " तदेतत् पूर्वगतम् / नं०। (अनुयोगव्याख्या 'अणुओग' शब्द प्रथमभाग 341 पृष्ठादारभ्य द्रष्टव्या) (मूलप्रथमानुयोगः 'मूलपढमाणुओग' शब्दे वक्ष्यते) (गण्डिकानुयोगव्याख्या 'गंडियाणुओग' शब्दे तृतीयभागे 761 पृष्ठे द्रष्टव्या) से किं तं चूलियाओ ? चूलियाओ आइल्लाणं चउण्हं पुव्वाणं, सेसाई पुव्वाइं अचूलियाई / सेतं चूलियाओ। दिट्ठिवायस्सणं परित्ता वायणा, संखिज्जा अणुओगदारा, संखिज्जा वेढा, संखिज्जा सिलोगा, संखिजाओ पडिवत्तीओ, संखिज्जाओ निजुत्तीओ, संखिजाओ संगहणीओ, सेणं अंगठ्याए वारसमे अंगे एगे सुयखंधे, चोद्दस पुव्वाइं, संखिजा वत्थू, संखिज्जा चूलवत्थू, संखिज्जा पाहुडा, संखेजा पाहुडपाहुडा, संखिजाओ पाहुमियाओ, संखिज्जाओ पाहुडपाहुडियाओ, संखिज्जाई पयसयसहस्साइं पयग्गेणं संखिज्जा अक्खरा, अणंता गमा, अणंता पजवा, परित्ता तसा, अणंताथावरा, सासया कडनिबद्धनिकाइया जिणपन्नत्ता भावा आघविजं ति, पन्नविज्जंति, परूविजंति, दंसिखंति, निदंसिज्जंति, उवदंसिज्जंति। एवं आया, एवं नाया, एवं विण्णाया, एवं चरणकरणपरूवणा आघविज्ञ्जति। सेतं दिट्ठिवाए।॥ 12 // अथ कारताश्चूलाः ? इह चूला शिखरमुच्यते। यथा मेरौ चूलाः, तत्र चूला इन चूला दृष्टिवादे परिकर्मसूत्रपूर्वानुयोगोक्तानुक्तार्थसंग्रहपरा ग्रन्थपद्धतयः। या चाऽऽह चूर्णिकृत-दिट्ठिवाए जं परिकम्मसुत्त-पुव्वाणुजोगे चूलिअन मणिय, तं चलासु भणियं ति। अत्र सूरिराह-चूला आदिमानां चतुर्णा पूर्वाणाम्, शेषाणि पूर्वाण्य चूलिकानि, ता एव चूलाः, आदिमानां चतुर्णा पू