________________ दिक्खा 2507 - अभिधानराजेन्द्रः - भाग 4 दिक्खा एवं समानफलत्वं ज्ञान्यज्ञानिनोः प्रतिपाद्य दीक्षाऽर्हत्व विशेषज्ञानासमन्वितस्यापि दर्शयतियस्यास्ति सत्क्रियाया-मित्थं सामर्थ्ययोग्यताऽविकला। गुरुभावप्रतिबन्धाद, दीक्षोचित एव सोऽपि किल / / 5 / / यस्य विशिष्टज्ञानरहितस्याप्यस्ति विद्यते सत्क्रियाया सदाचारे, इत्थमनन प्रकारेण, सामर्थ्ययोग्यता सामर्थ्येन समानफलसाधकत्वरूपेण योग्यताऽविकला परिपूर्णा, गुरुपुधर्माऽऽचार्याऽऽदिषु भावप्रतिबन्धाभावतः प्रतिबद्धत्वेन हेतुना दीक्षोचित एव दीक्षायोग्य एव प्रस्तुतः, किलत्याप्ताऽऽगमवादः यतः संसारविरक्त एवास्या अधिकारी शेषगुणवैकल्येऽपी-युक्तम् // 5 // इदानीं दीक्षायाः समानफलतया देयत्वमभिदधानो विषमफलस्य चाऽदयत्वमुपदर्शयन्निदमाहदेयाऽस्मै विधिपूर्वं, सम्यक्तन्त्रानुसारतो दीक्षा। निर्वाणबीजमेषे-त्यनिष्टफलदाऽन्यथाऽत्यन्तम्।। 6 / / दया दाव्याऽस्मै योग्याय विधिपूर्व विधानपूर्व सम्यगवेपरीत्येन / तन्त्रानुसारतः शास्त्रानुसारतो दीक्षा व्रतरूपा निर्वाणस्य बीज मोक्षसु खरोहे तुत्वेन / एषे ति दीक्षे वाऽनिष्ट फलदा विपर्ययफला संरगरफलाऽन्यथाऽयोग्याय दीयमानाऽत्यन्तमतिशयेनेति / / 6 / / का पुनरियं दीक्षेत्याहदेशसमग्राऽऽख्ययेयं, विरतियासोऽत्र तदति च सम्यक् / तन्नामाऽऽदिस्थापन-मत्रिद्रुतं स्वगुरुयोजनतः / / 7 / / देशाऽऽख्या, रामग्राऽऽख्या चेयं दीक्षा विरतिरुच्यते, देशविरति-दीक्षा, सर्वविरतिदीक्षा वेत्यर्थः। न्यासो निक्षेपोऽत्र दीक्षाया इतन्यास इत्यर्थः / सा विद्यते यस्य तारतरिंभस्तद्वति च पुरुषे देशदीक्षावति, सर्वदीक्षावति च सम्यग समीचीनं संगतम् / तन्नामाऽऽदिस्थापनं तेषां प्रवचनप्रसिद्धानां नामाऽऽदीन चतुर्था स्थापनमारोपणमविद्रुतं उपद्रवरहितमनुपप्लवमिति यावत् / कथ तन्नामाऽऽदिस्थापनम् ? स्वगुरुयोजनतः स्वगुरुभिरा- त्मीय-पूज्वर्योजन संबन्धनमा चित्येन यत्र तन्नामाऽऽदीना ततः सकशात् ! 7 // कथं पुनर्विशिष्टनामन्यासस्य स्वगुरुभिः प्रसादीकृतस्य दीक्षानिमित्तत्वमिति मन्यमानं परं प्रत्याहनामनिमित्तं तत्त्वं, तथा तथा चोद्धतं पुरा यदिह। तत्स्थापना तु दीक्षा, तत्त्वेनान्यस्तदुपचारः।। 8 / / नामनिमित्त नामहेतुकं तद्रावरतत्त्व नामप्रतिपाद्यगुणाऽऽत्मकत्वम्, कृतप्रशान्ताऽऽदिनाम्नः प्रशमाऽऽदिस्वरूपोपलम्भात् / तन्नाम्नि च तदगुणस्मरणाऽऽद्युपलब्धेस्तथा तथा चोद्धृतं तेन तेन स्वरूपेणोद्धृतमुदूद कृतनिर्वाहम / पुरा पूर्व , यद्यस्मादिह प्रवचने, मुनिभिः तत् स्थापना तु तस्यैव नाम्नः स्थापना तु स्थापनैव नामन्यास एव दीक्षा प्रस्तुता, तत्त्वेन परमार्थनान्यस्तदुपचारोऽन्यक्रियाकलापस्तदुपचारस्तस्या दीक्षाया उपचारों वर्तते, विद्योपचारात्।। 8 / / करमात्पुनामाऽऽदिन्यासे महानादरः क्रियत इत्याशड्क्याऽऽहकीरोिग्यधुवपद-संप्राप्तेः सूचकानि नियमेन / नामाऽऽदीन्याचार्याः, वदन्ति तत्तेषु यतितव्यम्।।६।। कीर्तिः श्लाघा, आरोग्यं नीरुजत्वं, प्राक्तनसहजोत्पातिकरोगविरहेण, धुव्र स्थैर्य भावप्राधान्यान्निद्देशरय। पदं स्थानं विशिष्टपुरुषावस्थारूपमाचार्यत्वाऽऽदि। कीर्तिश्चारोग्यं च ध्रुवं च पदं च कीयाराग्यधुवपदानि, तेषां संप्राप्तिरपूर्वलाभः, तस्या अप्राप्तिपूर्विकायाः प्राप्तेः सूचकानि गमकानि नियमेनावश्यतया, नामस्थापनाद्रव्यभावरूपाण्याचार्याः पूज्या वदन्ति ब्रुवते / तत्तरभातेषु नामाऽऽदिषु यतितव्य यत्नो विधेयः। इह चेद तात्पर्यभवसेयम अन्वर्थनाम्नो हि कीर्तनमात्रादेव शब्दार्थप्रतिपत्तेर्विदुषां प्राकृतजनस्य च मनःप्रसादात्कीर्तिशविर्भवति / यथा सुधर्मभद्रबाहुस्वामिप्रभृतीनामुत्तमपुरुषाणं प्रवचने कीर्तिरुद्रपादि। स्थापनाऽप्याकारवती रजोहरणमुखवस्त्रिकाऽऽदिधारणद्वारेण भावगर्भप्रवृत्या आरोग्यमुपजनयति, द्रव्यमप्याचाराऽऽदिश्रुतं सकलसाधुक्रिया चाभ्यरयमाना व्रतरोपपत्तये प्रभवति, भावोऽपि सम्यग्दर्शनाऽऽदिरूपः पूर्वोक्तपदावाप्तय संपद्यते। न हि विशिष्टभावमन्तरेणाऽऽगमोक्तविशिष्टपदावाप्तिर्भावतो भवति / अथवा सामान्येनैव कीयारोग्यमोक्षसंप्राप्तः सूचकानि सर्वाण्येव नामाऽऽदीनिति॥६॥ किमिति दीक्षाप्रस्तावे नाभाऽऽदिषु यतितव्यमित्याशङ्कयाऽऽहतत्संस्कारादेषा, दीक्षा संपद्यते महापुंसः। पापविषापगमात् खलु, सम्यग्गुरुधारणायोगात्।।१०।। तत्संस्कारान्नाभाऽऽदिसंस्कादादेषा द्विविधा दीक्षा व्रतरूपा संपद्यते संभवति महापुंसा महापुरुषस्य, न ह्यमहापुरुषा व्रतधारिणो भवन्ति / पापं विषमिव पापविषं, तस्यापगमात् खल्वपगमादेव, पापविषयोर्धाsपगमात्। विपापहारिणी दीक्षेति केषाञ्चित् प्रसिद्धिस्तदनुरोधादिदमुक्तम्। पापविषापगमादेव दीक्षेति सम्यगवैपरीत्येन गुरुश्च धारणा च गुरुधारणे, ताभ्यां योगः संबन्धस्तस्माद् गुरुधारणायोगात्। गुरुयोगात्पापापगमो, धारणायोगादेव विषायगम इति / / 10 // दीक्षा सम्पद्यते महापुंस इत्युक्त तत्सम्पती सर्वविरतस्य यद्भवति तदाहसंपन्नायां चास्यां, लिङ्गव्यावर्णयन्ति समयविदः / धर्मकनिष्ठतैव हि, शेषत्यागेन विधिपूर्वम् / / 11 / / संपन्नायां च संजातायां चास्या दीक्षाया लिङ्ग लक्षणं ध्यावर्णयन्ति कथयन्ति समयविदः आगमवेदिनः, धर्मैकनिष्ठतैव हि धर्मतत्परतैव हि, शेषत्यागेन धर्मादन्यः शेषस्तत्यागेन तत्परिहारेण, विधिपूर्वं शास्त्रोक्तविधानपुरःसरं यथाभवत्येवं शेषत्यागेन धर्मकनिष्ठता सेवनीया नान्यथेति भावः। अरयामेव सर्वविरतिदीक्षायां क्षान्त्यादियोजनामार्याद्वयेन दर्शयतिवचनक्षान्तिरिहाऽऽदौ, धर्मक्षान्त्यादिसाधनं भवति। शुद्धं च तपोनियमाद्, यमश्व सत्यं च शौचं च / / 12 / / आकिञ्चन्यं मुख्यं, ब्रह्मापि परं सदागमविशुद्धम्। सर्वं शुक्लमिदं खलु, नियमात्संवत्सरादूर्ध्वम् / / 13 / / वचनक्षान्तिरागमक्षान्तिरिह दीक्षायामादौ प्रथम धर्मक्षान्त्यादिसाधनं भवति / आदिशब्दाद्धर्ममार्दवाऽऽदिग्रहः / धर्मक्षान्त्यादीनां साधनं वचनक्षान्तिर्भवति, तत्पूर्वकत्वात्तेषाम्, शुद्ध चाक्लि