________________ दसद्धवण्ण 2480 - अभिधानराजेन्द्रः - भाग 4 दसवेयालिय औला जी० "दसद्धवण्णस्स कुसुमस्स जाणुस्सेहपमाणमेत्त / " रा०। दसपएसिय पुं०(दशप्रदेशिक) दशाणुके, स्था०१० ठा०। दसपएसोगाढ पुं०(दशप्रदेशावगाढ) दशप्रदेशेष्वाकाशस्यावगाढा आश्रिता दशप्रदेशावगाढाः / आकाशस्य दशसु प्रदेशेषु आश्रिते, स्था०१० ठा। दसपुवि(ण) पुं०(दशपूर्विन्) अधीतोत्पादाऽऽदिपूर्वदशके, कल्प०। "महागिरिःसुहस्ती च, सूरिः श्रीगुणसुन्दरः। श्यामाऽऽर्यः स्कन्दिलाऽऽचार्यो , रेवतीमित्रसूरिराट् / / 1 / / श्रीधम्मो भद्रगुप्तश्च, श्रीगुप्तो वज्रसूरिराट्। युगप्रधानप्रवराः, दशैते दशपूर्विणः / / 2 / / " कल्प०८क्षण। दसबल पुं०(दशबल)"दशपाषाणे हः" |8 / 1 / 262 / / इति शकारस्य वैकल्पिको हकारः / 'दसबलो। दहबलो।' प्रा०१ पाद / दश बलानि यस्य सः / बुद्धभगवति, कोला "दानशीलक्षमावीर्यध्यानप्रज्ञाबलानि च / उपायाः प्रणिधिनि, दश बुद्धबलानि वै'' ||1| वाच दसम त्रि०(दशम) दशानां पूर्णः, डटि मट् / येन दश सङ्ख्या पूथ्यते तस्मिन्, आचा०१ श्रु०६ अ०४ उ०। पञ्चा०। दसमभत्तिय पुं०(दशमभक्तिक) दिनचतुष्टयमुपोषिते. प्रश्न०३ संव०द्वार। दसमी स्त्री०(दशमी) डीप् / सा च ''शताऽऽयुर्वे पुरुषः" इति श्रुतेः पुरुषस्याऽऽयुःकालस्य शतसंख्यकतया दशभिर्विभागः / नवतेरुद्ध दशवर्षावच्छिन्ने काले पुरुषावस्थाऽऽदौ, वाचाद०प०ाज्योग ('तिहि शब्देऽस्मिन्नेव भागे 2330 पृष्ठे दशमीफलान्युक्तानि) दसमुद्दामंडियग्गहत्थ पुं०(दशमुद्रामण्डिताग्रहस्त) दशभिर्मुद्रा- | भिर्मण्डितौ अग्रहस्तौ येषां तेषु, जी०३ प्रति०४उ०। दसमुद्दियाणंतय न०(दशमुद्रिकानन्तक) हस्ताङ्गुलीमुद्रिकादशके, भ०६ श०३३ उ०। दसरत्तट्ठिइवडिया स्त्री०(दशरात्रस्थितिपतिता) कुलक्रमादागते पुत्रजन्मानुष्ठाने, विपा०१ श्रु०३ अ०। दसरह पुं०(दशरथ) जम्बूद्वीपे भारते वर्षेऽस्यामेवोत्सप्पिण्यां जातेऽष्टमस्य वासुदेवस्य पितरि, स्था०६ ठा०। आव०ा तिला सा जम्बूद्वीपे भारते वर्षेऽतीतायामुत्सर्पिण्यां जाते नवमे कुलकरे,स्था०१०टा०स० दसविह त्रि०(दशविध) दशप्रकारके, प्रश्न०३ संब० द्वार। दसविहकप्प पुं०(दशविधकल्प) कल्पविकल्पाऽऽदिके दशप्रकारे कल्पे, प०भा०। (दशविधकल्पाः 'कप्प' शब्दे तृतीयभागे 226 पृष्ठे उक्ताः) दसवेयालिय न० (दशवैकालिक) विकालेनापराह्णलक्षणेन निर्वृत्त वैकालिकम, दशाध्ययननिर्माण च तद्वैकालिकं च मध्यपदलोपादृशवैकालिकम् / पा०। नं० शय्यम्भवसूरिकृते स्वनामख्याते श्रुतग्रन्थे, अस्य दशवकालिक स्यानुयोगः / तत्रानुयोगव्याख्या स्वस्थाने निरवशेषोक्ता। इह तु... एयाइँ परूवेठ, कप्पे वणियगुणेण गुरुणा उ। अणुओगो दसवेयालियस्स विहिणा कहेयव्वो।।६।। एतानि निक्षेपाऽऽदिद्वाराणि ('अणुओग' शब्दे) प्ररूप्य व्याख्याय कल्पे वर्णितगुणेन गुरुणा, षट् त्रिंशद् गुणसमन्वितेनेत्यर्थः / अनुयोगो दशवकालिकस्य, विधिना प्रवचनोक्तेन कथयितव्य आख्यातव्यः / इति गाथाऽर्थः / / 6 / / सम्प्रत्यजानानः शिष्यः पृच्छति-यदि दशकालिकस्यानुयोगः, ततस्तदशकलिकं भदन्त! किमङ्गमङ्गानि, श्रुतस्कन्धः श्रुतस्कन्धाः, अध्ययनम्, अध्ययनानि, उद्देशक उद्देशका इत्यष्टी प्रश्नाः। एतेषां मध्ये त्रयो विकल्पाः खलु प्रयुज्यन्ते, तद्यथा-दशकालिक, श्रुतस्कन्धः, अध्ययनानि, उद्देशकाश्चेति, यतश्चैवमतो दशाऽऽदीनां निक्षेपः कर्तव्यः / तद्यथा-दशानां कालस्य श्रुतस्कन्धस्याध्ययनस्य, उद्देशकस्य चेति। तथा चाऽऽह नियुक्तिकार:दसकालियं ति नाम, संखाए कालओ य निद्देसो। दसकालिय सुअखंधं, अज्झयणुद्देस निक्खिविउं।।।। दशकालिकं प्राग्निरूपितशब्दार्थम्, इति एवंभूतं, यन्नाम अभिधानम्। इदं किम्? संख्यानं संख्या, तया, कालतश्च कालेन चायं निदेशः-निर्देशन निर्देशः, विशेषाभिधानमित्यर्थः / अस्य च निबन्धन विशेषेण वक्ष्यामः "मणग पडुच्च'' इत्यादिना ग्रन्थेन / यतश्चैवमतः-(दसकालियं ति) कालेन निवृत्त कालिकं. दशशब्दस्य कालशब्दस्य च निक्षेपः / निर्वृत्तार्थस्तु निक्षेपः / तथा श्रुतस्कन्धम्, तथाऽध्ययनमुद्देशं तदेकदेशभूतम् / किम्? निक्षेप्तुमनुयोगोऽस्य कर्त्तव्य इति गाथाऽर्थः / दश०१ अ० (दशशब्दस्य निक्षेपः 'दस' शब्देऽस्मिन्नेव भागे 2476 पृष्ठे गतः) (कालशब्दस्य च 'काल' शब्द तृतीयभागे 470 पृष्टादारभ्य विशेषो द्रष्टव्यः) इह पुनर्दिवसप्रमाणकालेनाऽधिकारः, तत्राऽपि तृतीयपौरुष्या, तत्राऽपि बह्वतिक्रान्तयेति।आह-यदुक्तम्-"पगयं तु भावेणं ति'' तत्कथं न विरुध्यत इति? उच्यते-क्षायोपशमिकभावकाले शय्यंभवेन निर्दृढ, प्रमाणकाले चोक्तलक्षणमित्यविरोधः / अथवा-प्रमाण कालोऽपि भावकाल एव, तस्याऽद्धाकालस्वरूपत्वात्, तस्य च भावत्वादिति। तथा चाऽऽह नियुक्तिकारःसामाइयअणुकमओ, वन्नेउं विगयपोरसीए उ। निव्वूढं किर सिजं-भवेण दसकालियं तेणं / / 12 / / सामायिकमावश्यकप्रथमाध्ययनं, तस्यानुक्रमः परिपाटीविशेषः, सामायिके वाऽनुक्रमः सामायिकानुक्रमः, ततः सामायिकानुक्रमतः सामायिकानुक्रमेण, वर्णयितुम, अनन्तरोपन्यस्तगाथाद्वाराणीति प्रक्रमाद्गम्यते। विगतपौरुष्यामेव, तुशब्दस्याऽवधारणार्थत्वाद. नियूंढ पूर्वगतादुत्य विरचितम्। किलशब्दः परोक्षाऽऽप्ताऽऽगमवादसंसूचकः। शय्यभवेन चतुईशपूर्वविदा, दशकालिक प्राग्निरूपिताक्षरार्थं , तन कारणेनोच्यत इति गाथार्थः / / 12 / / श्रुतस्कन्धयोश्च निक्षेपश्चतुर्विधो द्रष्टव्यः, यथाऽनुयोगद्वारेषु, स्थानाशून्यार्थ किञ्चिदुच्यते-इह नोआगमतः ज्ञशरीर-भव्यशरीव्यतिरिक्तं द्रव्यश्रुतं पुस्तकपत्रन्यस्तम् अथवा