________________ दव्व 2463 - अभिधानराजेन्द्रः - भाग 4 दव्व द्रव्यत्वं तु स्वाभाविकं न जातम्, आपेक्षिकं जातं, तदा तं समाधत्ते - भोः तार्किक ! शृणु। यत् सकलवस्तूनां व्यवहाराऽपेक्षयैव जायते, न तु स्वभावेन, तस्मादत्र न कश्चिद्दोषः / ये च समवायिकारणप्रमुखैर्द्रव्यलक्षणं मन्यते, तेषामप्यपेक्षामनुसर्तव्यैवेति / गुणपर्यायवद्द्रव्यमिति तत्त्वार्थे / विस्तरस्तु द्रव्याणामुद्देशलक्षणपरीक्षाभिस्त-- त्रैवास्ति, अतस्ततोऽवसेयः / / 1 / / द्रव्या० 2 अध्या० "सहभावी गुणो धर्मः, पर्यायः क्रममाव्यथ। भिन्ना अभिन्नास्त्रिविधास्त्रिलक्षणयुता इमे / / 2 / / मुक्ताभ्यः श्वेतताऽऽदिभ्यो, मुक्तादाम यथा पृथक्। गुणपर्याययोव्यक्ते-द्रव्यशक्तिस्तथाऽऽश्रिता।३।'' द्रव्या०२ अध्या०। गुणाऽऽश्रयो द्रव्यम्गुणाणमासओ दव्वं, एगदव्वस्सिया गुणा। लक्खगं पजवाणं तु, दुहओ अस्सिया भवे // 6|| गुणानां वक्ष्यमाणानामाश्रय आधारो, यत्रस्थास्ते उत्पद्यन्ते, उत्पद्य चाऽवतिष्ठन्ते, प्रलीयन्ते च, तद्रव्यम्। अनेन रूपाऽऽदय एव वस्तु, न तव्यतिरिक्तमन्यदिति तथागतमतमपास्तम्। तथाहि-यदुत्पादविनाशयोन यस्योत्पादविनाशौ, न तत्ततोऽभिन्नम्, यथा घटात्पटः, न भवतः पर्यायोत्पादविनाशयोर्द्रव्यस्योत्पादविनाशौ। न चायमसिद्धो हेतुः, स्थासकोशकुशूलाऽऽद्यवस्थासुमृदादिद्रव्यस्याऽऽनुगामित्वेन दर्शनात्। नचास्य मिथ्यात्वं,कदाचिदन्यथादर्शनासिद्धेः। उक्तं हि"यो ह्यन्यरूपसंवेद्यः, संख्येय्येतान्यथा पुनः। स मिथ्या न तु तेनैव, यो नित्यमवगम्यते // 1 // " तथैकस्मिन् द्रव्ये स्वाऽऽधारभूते आश्रिताः, के ते? गुणा रूपाऽऽदयः। एतेन च ये द्रव्यमेवेच्छन्ति, तद् व्यतिरिक्ताँश्च रूपाऽऽदीन् अविद्योपदर्शितानाहुः, तन्मतनिषेधः कृतः / संविन्निष्ठा हि विषयव्यवस्थितयः। न च रूपाऽऽद्युत्कलितरूपं कदाचित् केनचित् द्रव्यमवगतम्, अवगम्यते वा, अतस्तद्विवर्त एव रूपाऽऽदयो, न तु तात्त्विकाः केचनतद्रेदेन सन्ति / नन्वेवं रूपाऽऽदिविवर्तो द्रव्यमित्यपि किं न कल्पते? अथ तथैव प्रतीतिः / एवं सति प्रतीतिसभयत्र साधारणेत्युभयमुभयाऽऽत्मकमस्तु। लक्ष्यतेऽनेनेति लक्षणम्, पर्यायाणां वक्ष्यमाणरूपाणां तु, विशेषण उभयोर्द्वयोः प्राकृतत्वाद् द्रव्यगुणयोराश्रिताः (भवे त्ति) भवेयुः स्युः / अनेन च य एवमाहुः यदाद्यन्तयोरसद्, मध्येऽपि तत्तथैव, यथा मरीचिकाऽऽदौ जलाऽऽदि / न सन्ति च कुशूलकपालाऽऽद्यवस्थयोघंटाऽऽदिपर्यायाः, ततो द्रव्यमेवाऽऽदिमध्यान्तेषु सत्, पर्यायाः पुनरसन्तो यैराकाशके शाऽऽदिभिः सदृशा अपि भ्रान्तैः सत्यतया लक्ष्यन्ते / यथोक्तम्-"आदावन्ते च यन्नास्ति, मध्येऽपि हि न तत् तथा। वितर्थः सदृशाः सन्तोऽवितथा इव लक्षिताः।।१।।'' ते अपाकृताः / तथाहिआद्यन्तयोरसत्त्वेन मध्येऽप्यसत्त्वं साधयतामिदमाकूतम्-यद् क्वचिदसत्तत्सर्वस्मिन्नसदिति, ततश्च मृद्रव्ये अपद्रव्यस्यारात्त्वात्सर्वरिमन्नप्यसत्त्वप्रसङ्गः / अथेष्टमेवैतत्, सत्तामावस्यैव तत्त्वत इष्टत्वात्। उक्तं हि- "सर्वमेकं सदिविशेषात।" नन्येवमभावे भावाभावाद्भावस्यापि सर्वत्राभावप्रसङ्गः, तस्मादाधकप्रत्ययोदय एवासत्त्वेऽपि निबन्धनमिति न क्वचिदसत्वे तस्यावश्यं भावः, ततो द्रव्ययत्पर्यायाणामप्यबाधितबोधविषयत्वे सत्यमस्तु, तथा गुणेष्वपि नवपुराणाऽऽदिपर्यायाः प्रत्यक्ष प्रतीताः, एके कियत्कालभाविनः, प्रतिसमयभाविनस्तुपुराणत्वाऽऽद्यन्यथाऽनुपपत्तेरनुमानतोऽवसीयन्ते / ततश्च द्रव्यगुणपर्यायाऽऽत्मकमेक राबलमणिवचित्रपतङ्गाऽऽदिवगा वस्त्विति स्थितमिति सूत्रार्थः / उत्त० पाई०२० अ०। प्रज्ञा०। ('दव्वं पञ्जवविजुअं, दव्वविउत्ता य पञ्जवा नत्थि / उप्पायट्टिइभंगा, हंदि दवियलक्खणं एयं // 12 // " इति द्रव्यलक्षिका प्रथमकाण्डस्था सम्मतितर्क ग्रन्थगाथा ‘णय' शब्देऽस्मिन्नेव भागे 1886 पृष्ठ द्रव्यपर्यायार्थिकप्रस्तावे व्याख्याता) (एष एवार्थो "दव्वणय' शब्दे उपपादयिष्यते) द्रव्यगुणपर्यायाश्च यथोत्तरं सूक्ष्माः / आ०म०१ अ०१ खण्ड। ("दव्वं जहा परिणयं, तहेव अस्थि त्ति तम्मि समयम्मि। विगयभविस्सेहि उ पजएहिं भयणा विभयणा वा ||4||" (सम्म०३ काण्ड) इत्यादिगाथोक्तं द्रव्यस्य नित्यत्वाऽऽद्यनेकधर्मान्वितत्वम् 'अणेगंतवाय' शब्दे प्र० भागे 426 पृष्ठे उक्तम्) (उत्पादव्ययध्रौव्ययुक्तं सदिति लक्षणमपि अणेगंतवाय' शब्दे प्रथमभागे 426 पृष्ठे समुक्तम्) अथ गृह्णीमो गुणानामाश्रयो द्रव्यलक्षणं, तच्चैवलक्षणं द्रव्यं किमेकम्? उत तस्य भेदा अपि सन्तीति? आहधम्मो अहम्मो आगासं, कालो पुग्गल-जंतवो। एस लोगो त्ति पण्णत्तो, जिणेहिं वरदंसिहिं / / 7 / / धर्म इति धर्मास्तिकायः, अधर्म इति अधर्मास्तिकायः, आकाशमिति आकाशास्तिकायः, कालोऽद्धा समयाऽऽत्मकः, पुद्गलजन्तव इति--पुद्गलास्तिकायः, जीवास्तिकायः / एतानि द्रव्याणीति शेषः / प्रसङ्ग तो लोकस्वरूपमप्याह-एष इत्यादि सुगममेव / नवरभेष इति सामान्यतः प्रतीतो, लोक इत्येवस्वरूपः, कोऽर्थः? अनन्तरोक्तद्रव्यषट् काऽऽत्मकः / उक्तं हि-"धम्माऽऽदीनां वृत्तिर्द्रव्याणां भवति यत्र तत् क्षेत्रम् / तद्रव्यः सह लोकस्तद्विपरीतं ह्यलोकाऽऽख्यम्" ||1|| इति सूत्रार्थः / / 7 / / आह-किमेतेऽपि धर्माऽऽदयो भेदवन्तः, उतान्यथा? उभ यथाऽपीति क्रमः / तथा चाऽऽहधम्मो अहम्मो आगासं, एगं दव्वं वियाहियं / अणंताणि उ दव्याई, कालो पोग्गल-जंतवो।।८।। धर्मोऽधर्म आकाशं, द्रव्यमिति धर्माऽऽदिभिः प्रत्येक योज्यते, एकैकमेकसंख्याया एव एतेषु भावादाख्यातं तीर्थकृद्भिरिति गम्यते। ततः कि कालाऽऽदिद्रव्याण्यप्येवमेवेत्याह-अनन्तान्यनन्तसंख्यानि, स्वगतभेदानन्त्यात् / चः पुनरर्थे उत्तरत्र योक्ष्यते / कानि द्रव्याणि कतमानि, कालः, पुद्गलं, जन्तवश्वोक्तरूपाः, कालस्य चानन्त्यमतीतानागतापेक्षयेति सूत्रार्थः / उत्त०२८ अ०ा आचा०ा सका षड् द्रव्यनिगमनम्एवं समासेन षडेव भेदान, द्रव्यस्य विस्तारतयाऽऽगमेभ्यः। श्रुत्वा समभ्यस्य च भव्यलोकाः! अर्हत्क्रमाम्भोजयुगं भजन्तु // 21 / / एवं पूर्वोक्त प्रकारेण समासेन संक्षेपेण च षडेव षट् संख्यावतो जीवधर्माऽधर्माऽऽकाशकालपुद्गलान् भेदान् द्रव्यस्य पदार्थस्य षण्णामपि द्रव्यशब्दः पृथग् युक्तः सन् षड् द्रव्यत्वमापादय