________________ ददुर 2454 - अभिधानराजेन्द्रः - भाग 4 दडुर णं भंते ! देवस्स केवइयं कालं ठिती पण्णत्ता? गोयमा ! चत्तारि पलिओवमाइं ठिती पण्णत्ता / से णं दद्दरे देवे आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता महाविदेहे वासे सिज्झिहिति, वुज्झिहिति०जाव अंतं करेहिति। (एवं सूरियाभ ति) यथा राजप्रश्नकृते सूर्याभो देवो वर्णितः, एवमयमपि वर्णनीयः / कियता वर्णकनेत्याह-(०जाव दिव्वाई इत्यादि) स चाय वर्णकः -"तिहिं परिसाहिं सत्तहिं अणीएहिं सत्तहिं अणीयाहिवईहिं।'' इत्यादि। (इमं च णं केवलकप्पं ति) इमं च-केवलः परिपूर्णः, स चासो कल्पश्व स्वकार्यकरणसमर्थ इति केवलकल्पः, केवल एवथा केवलकल्पः, तम् / (आभोएमाणे त्ति) इह यावत्करणादिद दृश्यम्-''पासइ समण भगवं महावीरं।'' इत्यादि। (कूडागारदिट्टते त्ति) एवं चाऽसौ-से केणट्टेणं भते! एवं वुचइ-सरीरंग गया, सरीरगं अणुप्पविहा? गोयमा ! से जहानामए कूडागारसाला सिया दुहओ।" बहिरन्तश्च ''गुत्ता लित्ता।" साऽऽवरणत्वेन, गोमयाऽऽद्युपलेपनेन च / उभयतो गुप्तत्वमेवाऽऽह- 'गुत्ता' बहिःप्राकारावृता: 'गुत्तदुवारा।' अन्तर्गुप्तेत्यर्थः / अथवा-गुप्ता गुप्तद्वाराणां केषाशिद् स्थगितत्वात्, केषाशिचास्थगितत्वादिति / "निवाया।" बायोरप्रवेशात्। "निवायगंभीरा।" किलमहद् गृहं निवातं प्रायो न भवतीत्यत आह-"निवातगंभीरा / " निर्वातविशालेत्यर्थः / "तीसे णं कूडागारसालाए अदूरसामते एत्थ णं महं एगे जणसमूह चिट्ठइ, तएणं से जणसमूहे एगं महं अभवद्दलयं वा वासवद्यलय वा महावायं वा एजमाणं पासइ, पासइत्ता तं कूडागारसालं अंतो अणुपविसित्ताणं चिट्ठइ। से तेण?ण गोयमा! एवं वचइसरीरंग गया, सरीरंग अणुपवित्र त्ति / ' असाधुदर्शननेति, साधूनामदर्शनेन, अत एवापर्युपासनया अनासेक्नया, अननुशासनया शिक्षाया अभावेन, अशुश्रूषणया श्रवणेच्छाया अभावेन, सम्यक्त्वपर्यवैः सम्यक्त्वरूपपरिणामविशेषैरेवं मिथ्यात्वं विशेषेण प्रतिपन्नः विप्रतिपन्नः, काष्ठकर्माणि दारुमयपुत्रिकाऽऽदिनिर्मापणानि / एवं सर्वत्र, नवरं पुस्तं वस्त्रं चित्रं लेप्य च प्रसिद्ध, गन्थिमानि यानि सूत्रेण गृथ्यन्ते, मालावत् / वेष्टिमानि वेष्टनतो निष्पाद्यन्ते, पुष्पमालालम्बूसकवत् / पूरिमाणि यानि पूरणतो भवन्ति, कनकाऽऽदि प्रतिमावत्। संघातिमानि संघातनिष्पाद्यानि, रथाऽऽदिवत् / उपदयमानानि लोकैरन्योऽन्यमित्यर्थः / (तालायरकम्मं ति) प्रेक्षणककर्मविशेषः / (तेगिच्छियसालं ति) चिकित्साशालामरोगशाला, वैद्या भिषग्वरा आयुर्वेदपाठकाः, वैद्यपुत्रास्तत्पुत्रा एव, (जाणुय त्ति) ज्ञायकाः, शास्त्रानध्यायिनोऽपि शास्त्रज्ञप्रवृत्तिदर्शनेन रोगस्वरूपतश्चिकित्सावेदिनः। / कुशलाः स्ववितकीचिकित्साऽऽदिप्रवीणाः। (वाहियाणं ति) व्याधितानां विशिष्टचित्तपीडावता, शोकाऽऽदिविप्लुतचित्तानामित्यर्थः / अथवा-- विशिष्टा आधिर्यस्मात्स व्याधिः स्थिररोगः कुष्टाऽऽदिः, तद्वता ग्लानानां क्षीणहर्षाणामशक्तानामित्यर्थः। रोगिताना संजातज्वरकुष्ठाऽऽदिरोगिणाम्, आशुघातिरोगाणां वा (ओसहमित्यादि) औषधमेकद्रव्यरूप, भेषजं द्रव्यसंयोगरूपम्। अथवा-औषधमेकानेकद्रव्यरूपम, भेषजं तु पथ्यम्। भक्तं तु भोजनमात्रम्, प्रतिचारककर्म प्रतिचारकत्वम्। (अलंकारियसभ ति) नापितकर्मशालाम् / (विसज्जिय इत्यादि) विसृष्टस्वदेजल्लमलपरिश्रमनिद्राक्षुत्पिपाशाः / तत्रजल्लः स्थिरोमालिन्यहेतुः, मलस्तु स एव कठिनीभूत इति / राजगृहविनिर्गतोऽपि च यत्र बहुजनः / (किं ते ति) किं तद्यत्करोति? उच्यते-जलरमणैर्जलक्रीडाभिः, विविधमज्जनः बहुप्रकाररनानैः, कदलीनां लतानां च गृहकैः, कुसुमस (प्र) स्तरैः, अनेकशकुनिगणरुतैश्च / कीदृशैः? रिभितैः स्वरघोलनावद्भिर्मधुरैरित्यर्थः / संकुलानि यानि तानि तथा तेषु, पुष्करिणीवनखण्डलक्षणेषु पञ्चसु वस्तुष्विति प्रक्रमः / (संतुयट्टो यत्ति) शयितः (साहेमाणो य ति) प्रतिपादयन् / (गमओ त्ति) पूर्वोक्तपाठः / (साया मोक्खं त्ति) सातात् सातवेदनीयोदयात् सौख्यं सुखम्। "सासे" इत्यादि श्लोकः प्रतीतार्थः, नवरम् (अजीरए त्ति) आहारापरिणतिः। (दिट्ठीमुद्धसूले ति) दृष्टि शूलं नेत्रशूलं, मूर्द्धशूलं मस्तकशूलम् / (अकारए त्ति) भक्त द्वेषः / "अच्छिवेयणा'' इत्यादि श्लोकातिरिक्तम् / (कडु ति) खर्जूः। (उदरे त्ति) उदरं, जलोदरमित्यर्थः। (सत्थकोसेत्यादि) शस्त्रकोशः क्षुरनखरदनाऽऽदिभाजन, स हस्ते गतः स्थितो येषां तेतथा। एवं सर्वत्र / नवरं शिलिकाः किराततिक्तकाऽऽदितणरूपाः, प्रतलपाषाणरूपा वा शस्त्रतीक्ष्णीकरणार्थीः / तथा-गुटिका द्रव्यसंयोगनिष्पादितगोलिकाः / औषधभेषजे तथैव। (उव्वलणेहीत्यादि) उदलनानि देहोपलेपनविशेषाः, यानि देहाद् हस्तामर्शनेनापनीयमानानि मलाऽऽदिकमादायोद्वलन्तीति। उद्वर्त्तनानि तान्येव / विशेषस्तु लोकरूढिसमवसेय इति / स्नेहपानानि द्रव्यविशेषपक्कघृताऽऽदिपानानि / वमनानि प्रसिद्धानि / विरेचनान्यधोविरेकाः / स्वेदनानि सप्तधान्येकादिभिः(?) अवदहनानि दम्भनानि। अपस्नानानि स्नेहापनयनहेतुद्रव्यसंस्कृतजलेन स्नानानि अनुवासनाश्चर्मयन्त्रप्रयोगेणापानेन जठरे तैलप्रवेशनानि / वस्तिकर्माणि चर्मवेष्टनप्रयोगेण शिरःप्रभृतीनां स्नेहपूर्णानि, गुदे वा वादिक्षेपणानि। निरू हा अनुवासना एव, केवलं द्रव्यकृतो विशेषः / शिरावेधा नाडीवेधनानि, रुधिरमोक्षणानीत्यर्थः / तक्षणानि त्वचः क्षुरप्राऽऽदिना तनूकरणानि। प्रक्षणानि ह्रस्वानित्वचो विदारणानि। शिरोवस्तयः शिरसि बद्धस्य चर्मकोशस्य संस्कृततेलापूरलक्षणः। प्रागुक्तानि वस्तिकर्माणि सामान्यानि, अनुवासनानिरूहशिरोव-स्तयस्तु तद्भेदाः / तर्पणानि स्नेहद्रव्यविशेषवृंहणानि / पुटपाकाः कुष्ठिकानां कणिकावेष्टितानामग्निना पचनानि / अथवा-पुटपाकाः पाकविशेषनिष्पन्ना औषधविशेषाः / छल्लयो रोहिणीप्रभृतयः, वल्लयो गुडूचीप्रभृतयः / कन्दाऽऽदीनि प्रसिद्धानि / एतैरिच्छन्ति एकमपि रोगमुपशमयितुमिति / (निवद्धाउए त्ति) प्रकृतिस्थित्यनुभागबन्धापेक्षया / (बद्धपएसिए त्ति) प्रदेशबन्धापेक्षयेति / (अंतनिग्घाइए ति) निर्घातितान्तः / (सध्वं पाणाइवाय पचक्खामि) इत्यनेन यद्यपि सर्वग्रहणम, तथाऽपि तिरश्वां देशविरतिरेव। इहार्थे गाथे"तिरियाणं चारित्त, निवारियं अह जतो पुणो तेसिं। सुव्वइ बहुयाण पिय, महव्वयारोहणं सभए।।१।। न महव्वयसब्भावे, विचरणपरिणामसंभवो तेसिं। न बहुगुणाणं पि जओ, केवलसंभूइपरिणामो // 2 // " इति / इह यद्यपि सूत्रे उपनयो नोक्तस्तथाऽप्येवं द्रष्टव्यः''सपन्नगुणो विजओ, सुसाहुसंसग्गिवजिओ पायं। पावइ गुणपरिहाणिं, दद्दरजीवो व्य मणियारो॥१॥" ति।