________________ दंसणट्ठया 2426 - अभिधानराजेन्द्रः - भाग 4 दंसणणय दंसणट्ठया स्त्री(दर्शनार्थता) दर्शनप्रभावकशास्त्रार्थिकत्ये, स्था० 5 ठा०२301 दसणणय पुं०(दर्शननय) दर्शनिन एव सम्यक्त्वमित्येवंभूते नये, आव०। 'णाणणय' शब्दे 1686 पृष्ठे ज्ञानप्राधान्यं चारित्रप्राधान्यं च वर्णयित्वाऽऽह; तत्र दर्शननयमतावलम्बी अधिगतज्ञाननये इदमाहजह नाणेणं न विणा, चरणं नादंसणिस्स इअनाणं / न य दंसणं न भावो, तेन य दिट्टि पणिवयामो ||4|| यथा ज्ञानेन विना न चरणं, किंतु सहेव, नादर्शनिन एवं ज्ञानं, किंतु दर्शनिन एव / “सम्यग्दृष्टज्ञनि, मिथ्यादृष्टर्विपर्यासः।" इति वचनात्। तथा न च दर्शन न भावः, किं तु भाव एव; भावलिङ्गान्तर्गतमित्यर्थः / तेन कारणेन ज्ञानस्य तद्भावभावित्वाद्दर्शनस्य ज्ञानोपकारकत्वात् प्राग्वद् (दिहिति) प्राकृलशैल्या दर्शनमस्यास्तीति दर्शनी, तंदर्शनिनं प्रणमामः पूजयामः / इति गाथाऽर्थः / / 8 / / स्यादेतत् सम्यक् त्वज्ञानयोर्युगपदावादुपकार्योपका रकभावानुपपत्तिरित्येतच्चासत्; यतःजुगवं पि समुप्पन्नं, सम्मत्तं अहिगमं विसोहेइ। जह कयगमंजणाई,जलदिट्ठीओ विसोहंति / / 8 / / युगपदपि तुल्यकालमपि समुत्पन्नं संजातं सम्यक्त्वं ज्ञानेन सह अधिगम्यन्ते परिच्छिद्यन्ते पदार्था येन सोऽधिगमः, ज्ञानमेवोच्यते, तमधिगम विशोधयति, ज्ञानं विगलीकरोतीत्यर्थः / अत्रार्थे दृष्टान्तमाह-- यथा कातकाञ्जने जलदृष्टी विशोधयत इति। कतको वृक्षस्तस्येदं कातकं फलम् , अज्जनं सौवीराऽऽदि, कातकं चाञ्जनं च कातकाञ्जने, अनुस्वारोऽत्रालाक्षणिको, जलमुदकं, दृष्टिः स्वविषये लोचनप्रसरलक्षणा, जलं च दृष्टिश्च जलदृष्टी, ते शोधयतः। इति गाथाऽर्थः / साम्प्रतमुपन्यस्तदृष्टान्तस्य दान्तिकेनांशतो भा वनिका प्रतिपादयन्नाहजह जह सुज्झइ सलिलं, तह तह रूवाइँ पासई दट्ठा। इय जह जह तत्तरुई, तह तह तत्तागमो होइ॥८६|| यथा यथा शुद्धयति सलिलं कातकफलसंयोगात्तथा तथा रूपाणि तद्गतानि पश्यति द्रष्टा / (इय) एवं यथायथा तत्त्वरुचिः सम्यक्त्वलक्षणा, संजायत इति क्रिया। तथा तथा तत्त्वाऽऽगमः तत्त्वपरिच्छे दो भवतीति। एवमुपकारकं सम्यक्त्वं ज्ञानस्येति गाथाऽर्थः।८६५ स्यादेतन्निश्चयतः कार्यकारणभाव एवोपकार्योपकारकभावः, स चासम्भवी युगपद् भाविनोरित्यत्रोच्यतेकारणकजविभागो, दीवपगासाण जुगवजम्मे वि। जुगवुप्पन्नं पि तहा, हेऊ नाणस्स संमत्तं / / 87 / / यथेह कारणकार्यविभागो दीपप्रकाशयोर्युगपजन्मनि युगपदुत्पादेऽपीत्यर्थः, युगपदुत्पन्नमपि तथा हेतुः कारणं ज्ञानस्य सम्यक्त्वम्। यस्मादेवं तस्मात्सकलगुणमूलत्वाद् दर्शनस्य दर्शनिन एव कृतिकर्म कार्यमात्मनाऽपि तत्रैव यत्नः कार्यः, सकलगुणमूलत्वादेवेति। उक्तं च"द्वारं मूलं प्रतिस्थानमाधारो भाजन निधिः। धर्महतोषिट् कस्य, सम्यग् दर्शनमिष्यते / / 1 / / " अयं गाथाऽभिप्रायः। इत्थं चोदकेनोक्ते सत्याहाऽऽचार्यःनाणस्स जइ वि हेऊ, सविसयनिअयं तहा वि संमत्तं / तम्हा फलसंपत्ती, न जुज्जई नाणपक्खे व्व ||5|| जह तिक्खरुई वि नरो, गंतुं देसंतरं नयविहूणो। पावेइ न तं देसं, नयजुत्तो चेव पाउणइ // 86 इय नाणचरणरहिओ, सम्मदिट्ठी वि मुक्खदेसं तु / पाउणइनेव नाणाऽ5-इसंजुओ चेव पाउणइ / / 60|| इदमन्यकर्तृकंगाथात्रयं सोपयोगमितिकृत्वा व्याख्यायतेज्ञानस्य यद्यपि हेतुः कारणं, सम्यक् त्वमिति योगः। अपिशब्दोऽभ्युपगमवादसंसूचकः / अभ्युपगम्याऽपि ब्रूमः / तत्त्वतस्तुकारणमेव न भवति, उभयोरपि विशिष्टयोरुपशमकार्यत्वात्स्वविषयनियतमिति कृत्वा। स्वविषयश्चास्य तत्त्वेषु रुचिरेव। तथाऽपि तस्मात् सम्यक्त्वात् (फलसंपत्ती न जुञ्जई) फलसंप्राप्तिर्न युज्यते, मोक्षसुखप्राप्तिन घटत इत्यर्थः। स्वविषयनियतत्वादेव, असहायत्वादित्यर्थः / ज्ञानपक्ष इव। अनेन तत् प्रतिपादितसकलदृष्टान्तसंग्रहमाह-यथा ज्ञानपक्षो मार्गज्ञाऽऽदिभिर्दृष्टान्तैरसहायस्य ज्ञानस्यैहिकाऽऽमुष्मिकफलासाधकत्वमुक्तम्, एवमत्रापि दर्शना-भिलापेन द्रष्टव्यम् / दिड्मात्रंतु प्रदर्श्यते-यथा तीक्ष्णरुचिरपि नरः तीव्रश्रद्धोऽपि पुरुषः, गन्तुं देशान्तरं, देशान्तरगमन इत्यर्थः / नयविहीनः, ज्ञानाऽऽगमक्रियालक्षणनयशून्य इत्यर्थः / प्राप्नोति न तं देशं गन्तुमिष्ट तद्विषयश्रद्धायुक्तोऽपि, नययुक्त एव प्राप्नोति। (इय)एवं ज्ञानधरणरहितः सम्यग्दृष्टिरपि तत्त्वश्रद्धानयुक्तोऽपि मोक्षदेशं तु प्राप्नोति नैव सम्यक्त्वप्रभावादेव, किं तु ज्ञानाऽऽदिसंयुक्त एव प्राप्नोति / तस्मात् तत् त्रितयं प्रधानम्, एतत् त्रितययुक्तस्यैव कृतिकर्म कार्य , त्रितयं चाऽऽत्मना सेवनीयम्, "सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" इति वचनात्। अयं गाथात्रितयार्थः। एवमपि तत्त्वे समाख्याते ये खल्वधर्मभूयिष्ठाः, यानि चासदालम्बनानि प्रतिपायन्ति, तदेतदभिधित्सुराहधम्मनियत्तमईआ, परलोयपरम्मुहा विसयगिद्धा। चरणकरणे असत्ता, सेणिअरज्जं ववइसंति ||1|| धर्मश्चारित्रधर्मः परिगृह्यते, तस्मान्निवृत्ता मतिर्येषां ते धर्मनिवृत्तमतयः,परः प्रधानो लोकः परलोकः मोक्षः, तस्मात् पराङ्मुखाः, विषयगृद्धाः शब्दाऽऽदिविषयानुरक्ताः; ते एवंभूताश्चरणकरणे अशक्ता असमर्थाः सन्तः श्रेणिकराज्य व्यपदिशन्त्यालम्बनमिति गाथाऽर्थः / / 11 / / न सेणिओ आसि तया बहुस्सुओ, न यावि पन्नत्तिधरो न वायगो। सो आगमिस्साइजिणो भविस्सई, समिक्ख पन्नाइ, वरं खुदंसणं ||2|| (न सेणिओ इत्यादि) न श्रेणिको नरपतिः आसीत्तदा तस्मिन्काले बहुश्रुतो बागमः, महाकल्पाऽऽदिश्रुतधर इत्यर्थः / नचाऽपि प्रज्ञप्तिधरो नचापि भगवतीवेत्ता, न वाचकः-नपूर्वधरः, तथाऽपि सोऽसहायो दर्शनप्रभावादेव (आगमिस्साइ त्ति) आयत्यामागामिनि काले, जिनो भविष्यति तीर्थकरो भविष्यति / यतश्चैवमतः समीक्ष्य दृष्ट्वा प्रज्ञया बुद्ध्या दर्शनवि