________________ दंसण 2426- अभिधानराजेन्द्रः - भाग 4 दसण सम्यग्दर्शनभेदमाहसम्मइंसणे दुविहे पन्नत्ते / तं जहा-णिसग्गसम्मइंसणे चेव, अभिगमसम्मइंसणे चेव। णिसग्गसम्मइंसणे दुविहे पन्नत्ते / तं जहा-पडिवाई चेव, अपडिवाई चेव / अभिगमसम्मइंसणे दुविहे पन्नत्ते / तं जहापडिवाईचेव, अपडिवाई चेव। (सम्मइंसणे इत्यादि) निसर्गः स्वभावोऽनुपदेश इत्यनान्तरम्। अभिगमो गुरूपदेशाऽऽदिरिति, ताभ्यां यत्तत्तथा, क्रमेण मरुदेवीभरतवदिति / (निसग्गेत्यादि) प्रतिपतनशील प्रतिपाति सम्यग्द-- र्शनमौपशमिकं क्षायोपशमिक वा प्रतिपाति क्षायिकं, तत्रैषां क्रमेण लक्षणम्-इहोपशमिकी श्रेणिमनुप्रविष्टस्यानन्तानुबन्धिनां दर्शनमोहनीयत्रयस्य चोपशमादौपशमिकं भवति, यो वाऽनादिमिथ्यादृष्टिरकृतसम्यक्त्वमिथ्यात्वमिश्राभिधानशुद्धाशुद्धोभयरूपमिथ्यात्वपुद्गलत्रिपुजीक एवाऽक्षीणमिथ्यादर्शनोऽक्षपक इत्यर्थः, सम्यक्त्वं प्रतिपद्यते, तस्यौपशमिक भवतीति / कथम्? इह यदस्य मिथ्यादर्शनमोहनीयमुदीर्ण तदनुभवेनैवोपक्षीणम्, अन्यच मन्दपरिणामतया नोदितम्, अतस्तदन्तर्मुहूर्त्तमात्रमुपशान्तमास्ते, विष्टम्भितोदयमित्यर्थः / तावन्तं कालमस्यौपशमिकसम्यक्त्वलाभ इति। आह च"उवसामगसैढिगयस्स होति उवसामियं तु सम्मत्तं / जो वा अकयतिपुंजे, अखवियमिच्छो लहइ सम्मं / / 1 / / खीणम्मि उदिन्नम्मी, अणुदिजते य सेसमिच्छत्ते। अंतोमुहुत्तकालं, उवसमसम्म लहइ जीवो ॥२॥इति। अन्तर्मुहूर्तमात्रकालत्वादेवास्य प्रतिपातित्वम्। यच्चानन्तानुबन्ध्युदये औपशमिकसम्यक्त्यात्प्रतिपततः सास्वादनमुच्यते तदौपशमिकमेव, तदपि च प्रतिपात्यैव , जघन्यतः समयमात्रत्वात्, उत्कृष्टतस्तुषडावलिकमानत्यादस्येति / तथा इह यदस्य मिथ्यादर्शनदलिकमुदीर्ण तदुपक्षीणं, यचानुदीर्ण तदुपशान्तम्, उपशान्तं नामविष्टम्भितोदयमुपनीत मिथ्यास्वभावं च, तदिह क्षयोपशमस्वभावमनुभूयमानं क्षायोपशमिकमित्युच्यते / नन्वौपशमिकेऽपि यथा क्षयोपशमश्च, तथेहापीति कोऽनयोर्विशेषः? उच्यते-अयमेव हि विशेषो यदिह वेद्यते दलिकं, न तत्र, इह हि क्षायोपशमिके पूर्वशमितमनुसमयमुदेति वेद्यते क्षीयते च, औपशमिके तूदयविष्टम्भनमात्रमेव / आह च- "मिच्छत्ते जमुदिण्णं, तं खीण अणुदियं च उवसंतं / मीसीभावपरिणयं, वेइज्जतं खओवसमं / / 1 / / " इति / एतदपि जघन्यतोऽन्तमुहूर्त्तस्थितिकत्वात्, उत्कर्षतः षट् षष्टि-सागरोपमस्थितिकत्वाच प्रतिपातीति / यदपि च क्षपकस्य सम्यग्दर्शनदलिकचरमपुद्गलानुभवनरूपं वेदकमित्युच्यते, तदपि क्षायोपशमिकभेदत्वात् प्रतिपात्येवेति। तथा मिथ्यात्वसम्यग्मिथ्यात्वसम्यक्त्वमोहनीयक्षयात् क्षायिकमिति / आह च-''खीणे दंसणमोहे, तिविहम्मि वि नवनियाणभूयम्मि। निप्पच्चवायमउलं, सम्मत्तं खाइयं होइ / / 1 / / " इति / इदं तु क्षायिकत्वादेवाप्रतिपाति / अत एव सिद्धत्वेऽप्यनुवर्तते। मिच्छादसणे दुविहे पण्णत्ते / तं जहा-अभिग्गहियमिच्छादंसणे चेव, अणभिग्गहियमिच्छादसणे चेव / अभिग्गहियमिच्छादसणे दुविहे पण्णत्ते / तं जहा-सपज्जवसिए चेव, अप-- जवसिए चेव / एवमणभिग्गहियमिच्छादसणे वि।। (मिच्छादसणे इत्यादि) अभिग्रहः कुमतपरिग्रहः, स यत्राऽस्ति तदाभिग्रहिक, तद्वीपरीतमनभिग्रहिकमिति। (अभिग्गहियेत्यादि) आभिग्रहिकमिथ्यादर्शन सपर्यवसितं सपर्यवानं सम्यक्त्वप्राप्तौ, अपर्यवसितमभव्यस्य सम्यक्त्वाप्राप्तेः, तच्च मिथ्यात्वमात्रमप्यतीतकालतयाऽनुवृत्त्याऽऽभिग्रहिकमिति व्यपदिश्यते // 6 / / अनाभिग्रहिकं भव्यस्य सपर्यवसितम्, इतरस्याऽपर्यवसितमिति / स्था०२ ठा०१ उ०। आ०म०ा दर्शनं त्रिविधम्। तद्यथा-मिथ्यादर्शन, सम्यमिथ्यादर्शनम्, सम्यग्दर्शनं च। आ०म०१ अ०१खण्ड। दर्शनं मिथ्यात्वमिश्रसम्यक्त्वभेदात्त्रिविधम्। विशे०क्षायिकक्षायोपशमिकौपशमिकभेदाद्दर्शन त्रिविधम् / चक्षुरचक्षुरवधिकेवलदर्शनभेदाद्दर्शनं चतुर्धा / विशे० औपशमिकसास्वादनक्षायोपशमिकक्षायिकभेदात्पञ्चविधम् / सूत्र०१ श्रु०६ अ०। पं०भा०। दर्शनस्य सप्तविधत्वमाहसत्तविहे दंसणे पण्णत्ते / तं जहा-सम्मइंसणे, मिच्छदंसणे, सम्मामिच्छादंसणे, चक्खुदंसणे, अचक्खुदंसणे, ओहिदंसणे, केवलदसणे। "दसणे' इत्यादि सुगमम् / नवरं सम्यग्दर्शनं सम्यक्त्वम्, मिथ्यादर्शन मिथ्यात्व, सम्यग् मिथ्यादर्शन मिश्रमिति। एतच त्रिविधमपि दर्शनमोहनीयभेदानां क्षयक्षयोपशमोदयेभ्यो जायते, तथाविधरुचिस्वभावं चेति। चक्षुर्दर्शनाऽऽदितुदर्शनाऽऽवरणीयभेदचतुष्टयस्य यथासंभव क्षयोपशमत्तयाभ्यां जायते, सामान्यग्रहणस्वभावं चेति। तदेवं श्रद्धानसामान्यग्रहणयोर्दर्शनशब्दवाच्यत्वाद्दर्शन सप्तधोक्तमिति। अनन्तरं केवलदर्शनमुक्तं, तच छद्मस्थावस्थायां अनन्तरं भवतीति। स्था०७ ठा०। अष्टविधत्वम्अट्ठविहे दंसणे पण्णत्ते / तं जहा–सम्मइंसणे, मिच्छदंसणे, सम्मामिच्छदंसणे, चक्खुदसणे०जाव केवलदसणे, सुविणदंसणे। ''अट्टविहे दसणे" इत्यादि कण्ठ्यम् / केवलं स्वप्रदर्शनस्याचक्षुर्दर्शनान्तविऽपि सुप्तावस्थोपाधितो भेदो विवक्षित इति। स्था०८ ठा। पं०भा०। कारकरोचकदीपकभेदादा दर्शनं त्रिविधम्। आतु०। (एते भेदीः 'सम्मत्त' शब्दे स्फुटीभविष्यन्ति, सम्यक्त्वपर्यायत्वाद, दर्शनस्य, नवरमिह दर्शनाऽऽदिशब्दे छद्मस्थदर्शनवीतरागदर्शनभेदाः प्रदर्शयिष्यन्ते) श्रद्धानलक्षणे व्यवसाये, व्यवसायांशत्वात्तस्य। स्था०३ ठा०३उ०। 'दृशिर्' प्रेक्षणे, दृश्यते सम्यक्परिज्ञायते सावद्यमनेनेति दर्शनम्। चारित्रे, अनेकार्थत्वाद्वातूनाम् / संथा०। सम्यक्त्वप्रभावकशास्त्रे, आव०४अ० स्था०। शास्त्रमात्रे, विशेष दर्शनविशोधके सूत्रे, व्य०१उ०। बृ०। उत्त०। ''गोविंद निजुत्तिमादी दसण।" नि०चू०११ उ०। अभिप्राये, उपदेशे, आचा०१ श्रु०३ अ०४ उ०। दय॑ते सामान्यरूपेण वस्त्विपि दर्शनम्। उत्त०८ अ० दृश्यते विलोक्यते वस्त्वनेनेतिदर्शनम् / यद् वा-दृष्टि