SearchBrowseAboutContactDonate
Page Preview
Page 1066
Loading...
Download File
Download File
Page Text
________________ थविरकप्प 2388 - अभिधानराजेन्द्रः - भाग 4 थविरकप्प णुयात, तदा तदध्ययनप्रयासो विफल एव स्यात्, तस्मात्सूत्राध्ययनानन्तरमवश्यमेव द्वादश वर्षाणि तदर्थः श्रोतव्यः / तस्माद्यत एवं स्थिविरकल्पक्रमोयदुत प्रथम प्रव्रज्या, ततः सूत्राध्ययनं, ततोऽप्यर्थग्रहणमिति। अतोऽनुयोगप्रदानक्रमेणेवेहाधिकार इत्येव प्रस्तुतमभिसंबध्यते / सूत्राध्ययनान्तरभावी हि तदर्थव्याख्यानरूपः स्थविरकल्पक्रमदृष्टोऽनुयोग एवाऽऽवश्यकस्य शास्त्रकृता वक्तुमारब्धः, अतः सूत्राध्ययनकालस्यातिक्रान्तत्वेनेह विवक्षितत्वादनुयोगस्यैवाऽभिधित्सितत्वात् तत्प्रधानक्रमेणैवाधिकार इति भावः / एतावच्चास्या गाथायां प्रकृतोपयोगि / यत् पुनरन्य-व्याख्यास्यते-"अनियओ वासो। निष्फत्ती य विहारो" इत्यादि, तत्प्रासङ्गिकमित्यवगन्तव्यम्। तत्र (अनियओवासो त्ति) ततोऽस्य गृहीतसूत्रार्थस्य शिष्यस्याऽनियतो वासः क्रियते, ग्राम-नगरसन्निवेशाऽऽदिष्वनियतनिवासेनैष गृहीतसूत्रार्थः शिष्यो यद्याचार्यपदयोग्यः, तदा जघन्यतोऽपि सहायद्वयं दत्त्वाऽऽत्मतृतीयो द्वादश वर्षाणि यावन्नानादेशदर्शन नियमेन कार्यत इत्यर्थः, आचार्यपदाऽनहस्य त्वनियमः / आचार्यपदार्होऽपि किमिति देशदर्शन कार्यत इति ? चेत् / उच्यते स हि नानादेशेषु पर्यटस्तीर्थकराणा जन्माऽऽदिभूमीः पश्यति; ताश्च दृष्ट्वा अत्र जाताः, इह दीक्षा प्रतिपन्नाः, अस्मिंश्च देशे निर्वृता भगवन्तः, इत्याद्यध्यवसा-यतो हर्षातिरेकात्तस्य सम्यक्त्वस्थैर्य भवति; अन्येषां च स पश्चात् तस्थिरतामुत्पादयति, श्रुताऽऽद्यतिशायिनश्वाऽऽचार्याऽऽदीन्ना-नास्थानेषु पश्यतः सूत्रार्थेषु सामाचार्या चाऽस्य विशेषोपलम्भो भवति, नानादेशभाषासमाचारांश्चैष बुद्ध्यते, ततश्च तत्तद्देशजानामपि विनेयानां तत्तद्भाषया धर्म कथयति, ततः प्रतिबोध्य तान् प्रव्राजयति, पूर्वप्रव्रजितास्तु तदुपसंपदं प्रतिपद्यन्ते, निःशेषास्मद्भाषासमाचारकुशलोऽयमिति शिष्याणां तदुपरि प्रीतियोगश्च जायते, इत्यादिगुणदर्शनादनियतवासः। (निप्फत्ती य ति) एवं चाऽनियतवासेन द्वादश वर्षाणि पर्यटतस्तस्याऽऽचार्यपदार्हस्य शिष्यत्वेनाsऽत्मनो निष्पत्तिर्भवति, अन्येषां च प्रभूतशिष्याणां तदन्तिके निष्पत्तिजायत इति / (विहारो त्ति) एवं शिष्यत्वेन निष्पत्तौ, सूरिपदे च प्राप्ते, स्वपरोकारकरणेन दीर्घ च पर्याये परिपालिते, अन्यस्मिश्च योग्यशिष्ये आचार्यपदे व्यवस्थापिते ततोऽनन्तरं विहरणं विशेषेण भगवदभिहितमार्ग पराक्रमणं विहारो विशेषानुष्ठानरूपोऽनेन कर्तव्यः / स च द्विविधः भक्तपरिक्षेङ्गिनीपादपोषगमनलक्षणमभ्युद्यतमरणं, जिनकल्पपरिहारविशुद्धिककल्प-यथालन्दिककल्पप्रतिपत्तिर्वा / अस्मिंश्च द्विविधेऽपि विहारे सामाचारी ज्ञात्वाऽनुष्ठेया। सा चाऽऽद्ये मरणलक्षणे विहारे"निप्फाइया य सीसा, सउणी जह अंडयं पयत्तेणं! बारस संवच्छरियं, सो संलेहं अह करेइ / 1 / / चत्तारि विचित्ताई, विगईनिजूहियाइँ चत्तारि। संवच्छरे उ दोन्नि उ, एगंतरियं च आयामं // 2 // नाइविगिट्टोय तवो, छम्मासे परिमिअंच आयामं। अन्ने वि य छम्मासे, होइ विगिट्ठ तवोकम्मं / / 3 / / वासं कोडीसहियं, आयामं कटु आणुपुव्वीए। गिरिकदरं तु गंतु, पायवगमणं अह करेइ // 4 // " इत्यादिका ज्ञातव्याः / द्वितीये तु विहारे जिनकल्पाऽऽदिप्रतिपत्ती सामाचारी निर्दिश्यते तत्र जिनकल्पाऽऽदिप्रतिपित्सुया आदावेव | पूर्वापररात्रकाले तावदिदं चिन्तनीयम्-विशुद्धचारित्राऽनुष्ठानेन कृतं मयाऽऽत्महितम्, शिष्याद्युपकारतः परहितं च, निष्पन्नाश्चेदानी मम गच्छपरिपालनक्षमाः शिष्याः, ततो विशेषेणैव साम्प्रतं ममाऽऽत्महितमनुष्ठातुमुचितमिति, विचिन्त्य चेदं सतिपरिज्ञाने आत्मीयमायुःशेष स्वयमेव पर्यालोचयति, तदभावेऽन्यमतिशयि-नमाचार्याऽऽदिकं पृच्छति, तत्र स्तोके स्वायुषि भक्तपरिज्ञाऽऽदी-नामन्यतरन्मरणं प्रतिपद्यते / अथ दीर्घमायुः, केवलं जवाबलपरिक्षीणः, तदा वृद्धवासं स्वीकुरुते, पुष्टायां तु शक्तौ जिनकल्पाऽऽदिप्रतिपत्तिमुररीकरोति / तत्र जिनकल्प प्रतिपित्सुना प्रथममेव तावत्पञ्चमिस्तुलनाभिराल्मा तोलनीयः। तद्यथा"तवेण सत्तेण सुत्तेण, एगत्तेण बलेणय। तुलणा पंचहा वुत्ता, जिणकप्पं पडिवजओ' ||1|| तुलना, भावना, परिकर्म चेत्येकार्थानि / तत्राऽऽचार्योपाध्यायप्रवर्तकस्थविरगणावच्छेदकलक्षणाः प्रायः पञ्चैव जनाः प्रशस्ताभिरेताभिः पञ्चभिर्भावनाभिर्जिनकल्पं प्रतिपित्सवः प्रथममेवाऽऽत्मानं भावयन्ति / अप्रशस्तास्तु कन्दर्पदवकिल्विषिकाऽऽभियोगिकासुरसंमोहस्वरूपाः पञ्च भावनाः सर्वथा दूरतः परित्यजन्ति। तत्र तपसाऽऽत्मानं भावयंस्तथा बुभुक्षां पराजयते यथा देवा-ऽऽद्युपसर्गाऽऽदिनाsनेषणाऽऽदिकरणतो यदि षण्मासान् यावदाहारं न लभते,तथाऽपि न बाध्यते / सत्त्वभावनया तु भयं पराजयते। तत्र भयजयार्थ रात्रौ सुप्तेषु शेषसाधुषूपाश्रय एव कायोत्सर्ग कुर्वतः प्रथमा सत्त्वभावना भवति / द्वितीयाऽऽदिकास्तूपाश्रयबाह्याऽऽदिप्रदेशेषु / आह च- ''पढमा उवरसयम्मी, बीया बाहिं तइयचउक्कम्मि / सुण्णहरम्मि चउत्थी, अह पंचमिया मसाणम्मि / / 1 / / " सूत्रभावनया तु स्वनामवत् सूत्रं परिचित तथा करोति यथा रात्रौ दिवा चोच्छ्रास-प्राण-स्तोकलवमुहूर्ताऽऽदिकं कालं सूत्रपरावर्त्तनानुसारेणैव सर्व सम्यगवबुद्ध्यते, एकत्वभावनया चाऽऽत्मानं भावयन् सङ्घाटकसाध्वादिना सह पूर्वप्रवृत्तानालापसूत्रार्थसुखदुःखाऽऽदिप्रश्रीमथःकथाऽऽदिव्यतिकरान् सर्वानपि परिहरति, ततो बाह्यममत्वे मूलत एव व्यवच्छेदिते पश्चाद्देहोपध्यादिभ्योऽपि भिन्नमात्मानं पश्यन् सर्वथा तेष्वपि निरभिष्यङ्गो भवति / (अत्रोदाहरणम्"एगत्त भावना ' शब्दे तृतीयभागे 12 पृष्ठे द्रष्टव्यम्) बलभावनायां बल द्विविधम्-शारीरं, मानसधृतिबलं च। तत्र शारीरमपि बलं जिनकल्पाहस्य शेषजनाऽतिशयिकमेष्टव्यम्, तपः प्रभृतिभिस्त्वपकृष्यमाणस्य यद्यपि शारीरं बलं तथाविधं न भवति, तयाऽपि धृतिबलेनाऽऽत्मा तथा भावयितव्यो यथा महद्भिरपि परीषहोपसर्गर्न बाध्यते / एताभिः पञ्चभिर्भावनाभिर्भाविताऽऽत्मा जिनकल्पिकप्रतिरूपो गच्छेऽपि प्रतिवसन्नाहाराऽऽदिपरिकर्म प्रथममेव करोति, तत्राऽऽहारे तृतीयपौरुष्यामवगाढायांवल्लचणकाऽऽदिकमन्तं प्रान्तं रूक्षं च। 'संसट्ठमसंसट्ठा, उद्धम तह होइ अप्पलेवा या उग्गहिआ पगहिया, उज्झियधम्मा य सत्तमिया" एतासां सप्तानां पिण्डैषणानां मध्ये आद्यद्वयवर्ज शेषपञ्चानां मध्यादन्यतरैषणाद्वयाभिग्रहेणाऽऽहारं गृह्णाति, एकया भक्तम्, अपरया त्वेषणया पानकमिति / एवमाद्याऽऽगमोक्तविधिना गच्छान्तर्गतः पूर्वमेवाऽऽत्मानं परिकर्म्य ततो जिनकल्पं प्रतिपित्सुः सई मीलयति, तदभावे स्वगणं तावदवश्यामाह्वयते, ततस्तीर्थकर-समीपे, तदभावे गणधरसन्निधाने, तदसत्त्वे चतुर्दशपूर्वधरान्तिके, तदसंभवे दशपूर्वधराऽभ्यणे , तदलाभेतु
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy