SearchBrowseAboutContactDonate
Page Preview
Page 965
Loading...
Download File
Download File
Page Text
________________ गुरुकुलवास ६४१-अभिधानराजेन्द्रः - भाग 3 गुरुकुलवरास तेषां मूलभूतः प्रथमकारणं, भणित उक्तः, आचारः प्रथमङ्ग, तस्य प्रथमसूत्रे "सुयंते आउसंतेणं भगवया एव मक्खायं" इति वचनरचनाप्रकारे,यद्यस्मादरुकूलवासे गुरुपादपच्छायासेवनम। अयमत्र भावार्थ:श्रीसुधर्मस्वामी जम्बूस्वामिनं कथयति स्म-'श्रुतं मया वसता भगवतः समीपे तिष्ठता वक्ष्यमाणमर्थपदमिति' / कः पुनरस्य भावार्थः? सर्वेण धर्मार्थिना गुरुसेवा विधेयेति / यस्मादेवं तस्माद्वसेत्तिष्ठेत्तत्र गुरुकुले चरणार्थी चारित्रकामी। तथाच गच्छे वसतो गुणः-- "गुरुपरिवारो गच्छो, तत्थ वसंताण निजरा विउला। विणयाउ तहा सारण-माईहि न दोसपडिवत्ती।।१।। जइ विहु निग्गयभावो, तहा वि रक्खिजई स अन्नेहिं। वंसकडिल्ले छिन्नो, विच वेणुओ पावए न महिं"||२|| नन्वागमे यतेराहारशुद्धिरेव मुख्यश्चारित्रशुद्धिहेतुरुश्रुष्यते; यदुक्तम्"पिंड असोहयंतो, अचिरित्तीइत्थ संसओ नऽथि। चारित्तम्मि असंते, सव्वा दिक्खा निरत्थीया''॥१॥ तथा"जिणसासणस्स मूल, भिक्खायरिया जिणेहिं पन्नत्ता। इत्थ परितप्पमाण, तंजाणसुमंदसद्धीय" // 2 // पिण्डविशुद्धद्धिश्च बहूनां मध्ये वसतां दुष्करैव प्रतिभासते; इत्येकाकिनाऽपि भूत्वा सैव विधेया, किंज्ञानाइिलाभेनकार्यम्? मूलभूतं चारित्रमेव पालनीयं, मूले सत्येव लाभचिन्ता ज्यायसीति, मैवं वोचः / यतो हन्त ! गुरुपारतन्त्र्यावर्जितत्वात् द्वितीयसाध्वपेक्षाऽभावाल्लोभस्यातिदुर्जयतरत्वात् क्षणे क्षणे परिवर्त्तमानपरिणामे-नैकाकिना पिण्डविशुद्धिरेव न पालयितुं शक्यते / तथा चोक्तम्-'"एगागिगयस्स दोसा, इत्थी साणे तहेव पडिणीए। भिक्खाविसोहिमहव्वय, तम्हा सविइज्जए गमणं"||१|| तथा "पिल्लिज्जेसणमिक्को" इत्यादि। ततस्तद्भावे कथं मूलभूतं चारित्रमेवपालनीयमित्याद्युक्तम्? अथ कश्चिद् गाढदाढ्याशय: शुद्धोज्छादिनाऽपि निर्वाहये दात्मानं सोऽपि "सव्वजिणपडिकुटुं, अणवत्थाथेरकप्पभेओ य / / एगो य सुयाउत्तो, विहणइ तवसंजमं अइरा'||१|| इति वचनात् त्रिभुवनभर्तुराज्ञाविराधकत्वान्न सुन्दरतामास्कन्दति।।१२७।। तथा चाह सूत्रकार:एयस्स परिचाया, सुद्धंछाइ विन सुंदरं भणियं / कम्माइ वि परिसुद्धं,गुरुआणावत्तिणो विति।।१२।। एतस्य गुरुकुलवासस्य, परित्यागात्सर्वतो मोचनेन, शुद्धोञ्छादि शुद्धभैक्षप्रमुखम्, आदिशब्दात् शुद्धोपाश्रयवस्त्रपात्रादिपरिग्रहः। नसुन्दरं शाभनं, भणितं निगदितमागमरित्युपस्कारः। तथाच-जीवाऽनुशासने तदुक्ति:"सुटुंछाइस जत्तो, गुरुकुलचागाइणेह विन्नेओ। सवरस्स सरक्खपिच्छत्थघायपायाछिवणतुल्लो''|१००। ध०र०॥ एवं गुरुबहुमाणो, कयन्नुया सयलगच्छगुणवुड्डी। अणवत्थापरिहारो, हुंति गुणा एवमाईया।।१३३|| एवं मूलगुणसमन्वितं गुरुममुञ्चता, सन्मार्गाद्यमं च कारयता, गुरुबहुमानः कृतो भवति, कृतज्ञता चाराधिता भवति, सकलगच्छगुणवृद्धिः, अनवस्था (मर्यादा) परिहार: कृतो भवति। एवमादयो गुणा भवन्ति। ध०र०॥ अत्रानुशासनम्गच्छं गुरुवयणं चिय, चइउं केई चरंति धम्मत्थी। तं पि न संगयमेयं, जम्हा सुत्ते इमं भणियं |Ell गच्छमाचार्यादिसमुदाय, गुरुवचश्च सूरिभणितं,'चिय' शब्द: समुचयार्थः। त्वक्त्या परिहृत्य, केऽपि केचन, चरन्ति पर्यटन्ति, धर्मार्थिनश्चारित्रप्रयोजनाः, तदपि गच्छत्यागादिकं, न केवलं पूर्वोक्तमित्यपिशब्दार्थान नैव, संगतंयुक्तमेतद्गच्छत्यागादियस्मात्सूत्रे उपदेशपदाख्ये, इदं पुरोवर्ति, भणितं उक्तमिति गाथार्थः।।REM सुद्धं छाइसु जत्तो, गुरुकुलचागाइणेह विन्नेओ। सवरस्स सरक्खपिच्छ त्थ घायपायाछिवणतुल्लो॥१००|| शुद्धोञ्छादिषु यत्न उद्यमः, तत्र शुद्धमाधाकर्माद्यदूषितम्, उञ्छं तु भिक्षाऽऽदि, आदिग्रहणाच्छेषानुष्ठानग्रहः, गुरुकुलत्यागादिना गुरुकुलं गच्छ:, तशिक्षापरिहारेण, इह प्रवचने, विज्ञेयो बोद्धव्यः / किंविशिष्ठ:?शवरनपेण सरजस्कास्तापसविशेषाः, तेषां पिच्छानि मयूराङ्गरुहानि, तदर्थं घातो विनाशः, तत्र पादानां चरणानां छिवणं ति' देशीभाषाया स्पर्शनं, तद्भाव:, तेन तुल्य: सदृश इति गाथार्थः 11100 / भावार्थस्तुकथानकादवसेयः। तचेदमूकिलैकस्य नरपतेरश्वाः प्रदीपनकेमनाक् दग्धाः,क्षतानि च तेषां जातानि, ततो नरपतिना वैद्य: पृष्टः--कथमेते भव्या भविष्यन्ति? तेनोक्तम्-यदि मायूरपिच्छनिम्मापितैलेन म्रक्ष्यन्ते, इत्युक्ते नराधिपेन समादिष्टा-स्तदाननयनार्थ निजपुरुषा:, यावत्ते परिभ्रम्य समगता:, राज्ञ: समीपे कथितं च तैः-- देव ! न कुत्रापि मयूराङ्गरुहानि सन्ति मुक्त्वा युष्कामं गुरून्, ते हि तानि सर्वाङ्गेषुधारयन्ति,नच जीवन्तो मुश्चन्ति इदमेव तेषां व्रतम्। राज्ञोक्तम् यद्येवं ततो घातयित्वा तान् समानयत पिच्छान्, परघ्नाद्विस्तेषां निजचरणा न लगनीयाः, यतोऽस्माकं ते गुरवः / तत्रये जीवितव्यतुल्यान् मूलगुणान् नाशयन्ति, पादास्पर्शन-सदृशोत्तरगुणरक्षार्थे गच्छान्निर्गत्य ते वचर्यटन्ति, तस्मादुत्तरगुण-सङ्गेऽपि शुद्धभक्ताभ्यवहारलक्षणे गच्छ एवाऽऽसितव्यमिति। _____ इदानीं गुरुवचनाद्धकरणे सिद्धान्तगाथामाहछट्ठहमदसमदुवा-लसेहि मासद्धमासखमणाहिं। अकरितो गुरुवयणं, अणंतसंसारिओ भणिओ।।१०१।। उत्तानार्था // 101 / / यदि पुनर्गच्छो गुरुश्च सर्वथा निजगुणविकलो भवति, तत आगमोक्तविधिना त्यजनीयः, परं कालपेक्षया योऽन्यो विशिष्टतरः, तस्योपसंपद्ग्राह्यया, नपुन स्वतन्त्रैः स्थातव्यमिति हृदयम्।यत एवमतो जीवानुशिष्टिमाहहेलाएँ विहाडियदो-सपंजरे गच्छदासगुरुवयणे। जीव ! तुमं थिरचित्तं, करेसु ता सिहरिसिहरं व // 102 / / हेलया लीलया "विहाडियंति''देशीभाषया विनाशितं, दोषा रागादयः, त एव जीवशकुनिनिरोधकत्वात्पञ्जरं, तेन तस्मिन् गच्छवासगुरुवचने उक्तलक्षणे, जीव ! आत्मन् ! त्वं भवान्, स्थिरं निश्चलम्, अनुस्वारोऽत्र प्राकृतत्वात् लुप्त:, चित्तं मानसं, कुरु विधेहि, तस्मात्, किमिव? शिखरिशिखरमिव पर्वतशृङ्ग
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy