________________ गुरुकुलवास 938- अभिधानराजेन्द्रः - भाग 3 गुरुकुलवास ऽऽगमवचनप्रस्तावनाऽर्थमाह-तथा चेत्युपप्रदर्शनार्थो, भणितमुक्तामागमे, इदं वक्ष्यमाणगाथासूत्रमिति गार्थः।।१५॥ यदुक्तं तदेवाहणाणस्स होइ भागी, थिरयरओ दंसण चरित्ते य। धन्ना ओवकहाए, गुरुकुलवासं ण मुंचुंति // 16 // ज्ञानस्य श्रुतज्ञानादे:, भवति स्याद् भागी भाजनं, गुरुकुले वसन्निति प्रकृतं, प्रत्यहं वाचनादिभावात्। तथा स्थिरतरकः पूर्वप्रतिपन्नदर्शनोऽपि सन्नतिशयस्थिरो भवति, दर्शने सम्यक्त्वे, अन्वहं स्वसमयपरसमयतत्त्वश्रवणात्। तथा-चरित्रे चरणे स्थिरतरो भवति,अनुवेल वारणादिभावात्,चशब्द: समुच्चये। यत एवं ततोधन्याधर्मधनं लब्धारः, यावत्कथं यावज्जीर्व, गुरुकुलवासं गुरुगृहनिवासनं, न मुञ्चन्ति न त्यजन्तीति गाथाऽर्थः। तदेवं चरणपरिणामे सति गुरुकुलमोचनरूपमसमयजसंन भवतीति स्थापितम्॥१६| अथ गुरुकुले तिष्ठतोयद्भवति तदाहतत्थ पुण संठिताणं, आणाआराहणा ससत्तीए। अविगलमेयं जायति, बज्झभावे वि भावेणं / / 17 / / तत्र गुरुकुले पुन:शब्दो विशेषणार्थः। तद्भावना चैवम्-चरणे सति गुरुकुलत्यागो न भवति, गुरुकुले पुनः संस्थितानां तिष्ठताम्। पाठान्तरेण वसताम्, आज्ञाराधनादाप्तोपदेशपालनात्, स्वश्वत्य निज सामर्थयन, यथाशक्तीत्यर्थः। अविकलं परिपूर्णम्, एतच्चरणं, जायते संपद्यते, प्रागुक्तन्यायेन ज्ञानादिवृद्धिसद्भावात्। ननु गुरुकुले वसतोऽपि कदाचित् तदविकलं न दृश्यत इत्याशङ्कयाहबाह्या-भवेऽपि प्रत्युपेक्षणादिबाह्यसदनुष्ठानाऽसद्भावेऽपि ग्लानाद्यवस्थासु, अपिशब्द: परमर्ताभ्यनुज्ञानार्थः। कथमित्याह-भावेन परिणामेन, सद्गुरूपदेशश्रवणसंजनितसंवेगेनेत्यर्थः। इति गाथार्थः / / 17 / / गुरुकुलवासमेव पुरस्कृर्वन्नाहकुलवहुणायादीया, एत्तो चिय एत्थिदंसिया बहुगा। एत्थेव सेठियाणं खंतादीणं पिसिद्धिति|१८|| कुलवधूज्ञातादय: कुलीनागनोदाहरणप्रभृतयः, शिष्यं प्रत्युपदेशा इति गम्यते / (एतो चिय त्ति) यतो गुरुकुले वसतां निर्वाणनगरमगनयानोपमानमविकलं चरणमुपजायते, इत एस्मादेव कारणात्, अत्र गुरुकुलामोचने विषये, दर्शिता उक्ता आगमे, बहुका बहवः / तत्र कुलवधूज्ञातमेवम्-"ता कुलवधूनाएणं, कजे निब्भत्थिएहिं वि कहि चि // एयस्सपायमूलं, आमरणंतं नमात्तव्वं''||१|| आदिशब्दात्कन्याज्ञातादिग्रहः / तथाहि-"जे माणिया समयं माणयंति, जत्तेण कन्नं व निवेसयंति / / ते माणए माणरिहे तवस्सी, जिइंदिए सव्वरए स पुज्जो'॥५७।। ननु साधुधर्म प्रक्रान्ते क्षमादीनामेवोत्कर्षणं युक्तं, तद्रूपत्वात्तस्य, किं गुरुकुलवासेोत्कर्षणेनाऽऽश्रयमात्रत्वात्तस्येत्याशक्याह-अत्रैव गुरुकुले, नान्यत्र संस्थितानां सम्यग्विनीतततया स्थितानां, सतां यतीनां, ज्ञान्त्यादीनामपि क्षमाप्रभृतीनामपि, साधुधर्मतया सम्मतानां गुणानां, न केवलमैहलौकिकानामर्थानामित्यपिशब्दार्थः। सिद्धिर्निष्पत्तिः, प्रकर्षवृत्तिर्वा भवति, इतिशब्द: प्राग्वदिति गाथार्थः॥१८॥ क्षान्त्यादीनामेवोपदर्शनायाऽऽहखंती य महवज्जव, मुत्ती तव संजमे य वोधय्वे / सचं सोयं आकिं-चणं च बंभं च जतिधम्मो ||19|| क्षान्ति: क्रोधानिग्रहो, यतिधर्मो भवतीतियोगः / चशब्दाउत्तरपदापेक्षया समुच्चयार्थः / माईवं मृदुता, मानवियेक इत्यर्थः। आर्जवमृजुता, मायाविवेक इत्यर्थः। मुक्तिर्लोभविवेकः, तपोऽनशनादिकं, संयमः पुथिव्यादिसंरक्षणलक्षण:, एतानि च मार्दवादिपदानि लुप्तप्रथमैकवचनानि, समाहारद्वन्द्वसमासथन्ति वा द्रष्टव्यानि। बोधव्ये ज्ञेयः। तथासत्यं प्रतीतं, शौचं भावतो निरुपलेपता,अचौर्यमित्यन्ये। आकिञ्चन्यं च कनकादिरहितता, ब्रह्म च ब्रह्मचर्य , चशब्दा: समुच्चयार्थाः / यति धर्मः साधुधर्मो बोद्धव्य इति गाथाऽर्थः।।१६॥ गुरुकुले वसतां क्षान्त्यादिसिद्धिर्भवति, तद्विपर्यये पुनर्यद्भवति तदर्शयन्नाहगुरुकुलवासचाए, णेणाणं हंदि सुपरिसुद्धि त्ति। सम्मं णिरूयिव्वं, एयं सति णिउणबुद्धि |20|| गुरुकुलवासत्यागे गुरुगुह निवासत्यजने सति, न नैव, एतेषां क्षान्त्यादीनां श्रमणधर्मतया मताना, इन्दीत्युपप्रदर्शने, सुपरिशुद्धिः सुठविशुद्धिर्भवति, इति:, प्राग्वत् / सम्यगविपर्यस्ततया बुद्ध्या, न पुनर्गुरुकुले वसतामितरेतरस्नेहरोषविषादादीनां भावादेषणायाश्च प्रायो वाधासंभवादपरिरशुद्धिरेव क्षमादीनामित्वेयं विपर्यस्ततया: विपर्यस्तत्वं चाऽस्या एकाकित्वे बहुतरदोषोक्तः / यदाह-'एगस्स कओ धम्मो' इत्यादि। निरूपयितव्यमालोचनीयम् / एतत् क्षमादीनामपरिशुद्धवं, सकृत्सदा, निपुणबुद्ध्या सूक्ष्मधिया इति गाथा र्थः।।२०।। न केवलं गुरुकुलवासत्यागिनः क्षमादीनामपरिशृद्धिः, तदभावोऽपि स्यादिति दर्शयन्नाहखंतादभाउ च्चिय, णियमेणं तस्स होति चाउत्ति। बंभंण गुत्तिविगमा, सेसाणि वि एव जोइज्जा / / 21 / / क्षान्त्याद्यभावत एव क्षमाप्रभृतिसाधुधर्माविशेषाभावादेव, कषायोदयादेवेति भावः / नियमेन सवथैव, यस्त क्षमादिगणयुक्तस्यापि पुष्टालम्बनेनगुरुकुलत्यागो भवत्यसौ कथश्चिदत्याग एवेत्येतदर्थख्यापनार्थ नियमग्रहणम् / तस्य गुरुकुलस्य, भवति जायते त्यागस्त्यजनं, स्मारणाद्यसहनात्। आह च "जतह सागरम्मि मीणा, संखोभं सागरम्स असहंता। निति तओ सुहकामी, निग्गयमेत्ता विणस्संति॥११॥ एवं गच्छसमुद्दे, सारण्वीईहि, चोइया संता। निति तओ सुहकामी, मीणा व जहा विणस्संति // 2 // " इतिशब्दो वाक्यार्थसमाप्तौ। अनेन च गुरुकुलत्यागात्प्राक्कञ्चित् क्षमादीनामभाव उक्तः। अथान्येषां तदनन्तरं तमाह-ब्रह्म ब्रह्मचर्य न भवति, तत्त्यागे गुप्तिविगमात् ब्रह्मगुप्त्यभावात्, यतिजनसहायता हि ब्रह्मचर्यगुप्तिर्वर्तते। यदाह-"काउमणो वि अकजं, न तरइ काऊण बहु मज्झे / " शेषषु का वार्तेत्याह-शेषाण्यपि ब्रह्मव्यतिरिक्तान्याप, तप:संसमादीनि, एवमनेनैव न्यायेन गुप्तिविगललक्षणेन न संभवन्तीत्वेयम्, योजयेत् सुबन्धयेत् असहायतायाः सामान्येन समस्तव्रतसंभङ्गहेतुत्वादितिगाथार्थः।।२।। गुरुकुले वसतां गुणान्तरोपदर्शनायाऽऽहगुरुवेयावयेणं, सदणुट्ठाणसहकारिभावाओ। विउलं फलमिब्भस्स व, विसोवगेणावि ववहारे // 22 // गुरुवैयावृत्येन आचार्य विषयेण भक्तादिदानग्लानताप्रति च