________________ गुण ६१२-अभिधानराजेन्द्रः - भाग 3 सुखदुःखादि चेतये-अहं सुखी अहं दुःखी, इति चेनाव्यवहारः, ततो जातिवृद्धिभग्नक्षतसंरोहणादिजीवनधर्मा भवन्जीति चैतन्यं सप्तमो गुणः / एतस्माद्विपरीतमचतैन्यम् अजीवमात्रम् अजीवता, जडत्वाचेतनावैकल्यमिति अचेतनत्वं गुणः 8 रूपादियुक् मूर्त्तत्वं मूर्ततः गुण:, रूपादिसन्निवेशाभिव्यङ्ग्यपुद्गलद्रव्यमात्रवृत्तित्वम् / / अमूर्तत्वं गुणो मूर्तत्वाभावसमन्वितत्वमिति 10 इति दशैव / अत्राचेतचेनत्वामूर्त्तत्वयोश्चेतनत्वमुर्तत्वाभावरूपत्वान्न गुणत्वमिति नाशङ्कनीयम्; अचेतना'मूर्तद्रव्यवृत्तिकार्यजनकतावच्छेदकत्वेन व्यवहारविशेषनियामकत्वेन च तयोरपि पृथकगुणत्वात्, नत्र: पर्युदासार्थकत्वात्तत्र गर्भपदवाच्यतायाश्चानुष्णाशीतस्पर्श इत्यादौ व्यभिचारेण परेषामप्यभावत्वानियामकत्याद्भावान्तरम् / अभावो हि कयाचित्तु व्यपेक्षया इति नयाश्रयणेन दोषाभावाचेति / / 5 / / एते दश गुणा: सामान्यगुणा: समुचिताः सर्वेषां द्रव्याणां समुचयेन कथिताः। तत्रमूर्तत्वममूर्तत्वं, चेतनत्यमचेतनत्वं चेति चत्वारो गुणाः परस्परपरिहारेण तिष्ठन्ति। तत एकैकस्मिन् द्रव्ये प्रत्येक प्रत्येकमष्टौ प्राप्यन्ते। तत्कथम्? यत्र चेतनत्वं तत्राचेतनत्वं नास्ति, यत्र च मूर्तत्वं तत्र च अमूर्तत्वं नास्ति, एवं द्वयोरपसरणात् शेषकष्टकमेव तिष्ठति, तेन प्रतिद्रव्यमष्टव गूणा: सामान्याः सन्तीति ध्येयम्॥६॥ (11) अथ विशेषगुणान् व्याख्यासुराहज्ञानं दृष्टिः वीर्य, स्पर्शगन्धौ रसेक्षणे। गतिस्थित्यवगाहत्व-वर्तनाहेतुतापराः / / 7 / / चैतन्यादिचतुर्मिस्तु, युक्ताः षोडशसंख्यया। विशेषेण गुणास्तत्रा-ऽऽप्यात्मनः पुगलस्य षट् / / 8 / / अन्येषां चैव द्रव्याणां, त्रीणि त्रीणि पृथक् पृथक् / स्वजात्या चेतनत्वाधा-श्चत्वारोऽनुगता गुणा: / / 6 / / एत एव विशेषेण, गुणा अपि जिनेश्वौः। परजातेरपेक्षाया, ग्रहणेन परस्परम् // 10 // विशेषेण गुणाः सन्ति, बहुस्वभावकाश्रयाः। अर्थेनत्ते कथं गुण्या:, स्थूलव्यवहृतिस्त्वियम्॥११॥ स्वभावगुणतो भिन्ना, धर्ममात्रविवक्षया। स्वस्वरूपस्य मुख्यत्वं, गुहीत्वा समुदाहृताः // 12 // (ज्ञानमिति) ज्ञानगुण: दृष्टिदर्शनगुण:, सुखमिति सुखगुण:, वीर्यमिति वीर्यगुणणः, एते चत्वार आत्मनो विशेषगुणाः / पुनः स्पर्शगन्धौ स्पर्शगुणः, गन्धगुणः, रसेक्षणे रसगुणः, ईक्षणं वर्णगुणः, एते चत्वारः पुद्गलस्य विशेषगुणा: / शुद्धद्रव्ये अविकृतरूपाएते अविशिष्टास्तिष्ठन्ति, ततः एते गुणा: कथिता:, विकृतस्वरूपास्ते पर्यायेषु मिलन्ति, इत्येवं विशेषोऽत्र विज्ञेयः / तथा पुन: गत्याइयो गुणा हेतुतापरा:, एतावता गतिहेतुता, स्थितिहेतुता, अवगाहहेतुता, वर्तनाहेतुता, एते चत्वारो गुणा: प्रयेकं धर्मास्तिकायाऽधर्मास्ति-कायाऽऽकाशास्तिकायकालद्रव्याणां क्रमेण सन्ति, विशेषगुणाश्चत्वारः।।७।। अथ एतेषां द्वादशगुणानां चैतन्यादिचतुर्भिर्युक्ताश्चेतनत्वाऽचेतनत्वमूर्तत्वामूर्तत्वादिभिश्चतुर्भिः सहिताः सन्तः षोडश गुणा भवन्ति। तेषु गुणेषु पुद्गलद्रव्यस्य वर्ण-गन्ध रस-स्पर्श-मूर्तत्वा-ऽचेतनत्वानि सन्ति, आत्मद्रव्यस्य ज्ञानदर्शनसुखवीर्यामूर्तत्वचेतनत्वानि इति षट् गुणा भवन्ति / अथान्येषां द्रव्याणां समुदायेन त्रय एव गुणा भवन्ति, एकोनजागुणाः, अचेतनत्वम्, अमूर्वमित्यादि विमृश्य धार्यम् // 8 // (अन्येषामिति) अन्येषां द्रव्याणां पृथक् पृथक् त्रयः त्रय: गुणाः। यथा धर्मास्किायस्य गतिहेतुता गुणः, अचेतनत्वं गुणः, अमूर्तत्वं गुणः / एवं त्रयोऽधर्मास्तिकायस्य स्थितिहेतुत्वाऽचेतनत्वाऽमूर्तत्वादय:, आकाशास्तितकायस्य अवगाहहेतुत्वाऽचेतनत्वाऽमूर्तत्वादयः, कालस्य वर्तनाहेतुत्वाऽचेतनत्वाऽमूर्तत्वादयः, इत्यादि ज्ञेयम्। अथ चेतनत्वाद्यश्चत्वार: सामन्यगुणाः, चेतनत्वाचेतनत्वमूर्तत्वाऽमूर्तत्वानि सामान्यगुणेषु अपि सन्ति, विशेषगुणेषुच सन्ति, तत्र किं कारणं चेतनत्वाद्याश्चत्वार: सामान्यगुणाः? स्वजात्यपेक्षया अनुगतव्यवहारकत्तरिः सन्ति, तस्मात्सामान्यगुणा: कथ्यन्ते / / 6 / / परजात्यपेक्षया चेतनत्वादय: अचेतनवादिकेभ्य: स्वाश्रयव्यावृत्तिकरा: सन्ति, ततो विशेषगुणाः परापरसामान्यव सामान्यविशेषगुणत्वमेषामिति भावः / एतएव विशेषणेति स्पष्टम्॥१०॥ (विशेषेणेति) ज्ञानदर्शनसुखवीर्या एते आत्मनो विशेषगुणा :, स्पर्शरसगन्धवर्णाः एते पुगलस्य विशेषगुणा:, इत्येतद्यत् कथितं तदियं स्थूलव्यवहृतिः स्थूलव्यवहारः, यतश्च अष्टौ सिद्धगुणा:, एकत्रिंशत्सिद्धगुणा:, एकगुणा: कालकादयः, पुद्गला अनन्ता इत्यादि विचारणया विशेषगुणानामानन्त्योत्पत्तिः, सा च छद्मस्थज्ञानगोचरा नास्ति / अतोऽर्थेन ते कथं गुण्या:, तस्माद्धर्मास्तिकायादीनां गतिस्थित्यवगाहनावर्त्तनाहेतुत्वोपयोग ग्रहणाख्या: षडेवास्तित्वादयः / सामान्यगुणास्तु विवक्षयाऽपरि-मिता:, इत्येवं न्याय्यम् / षण्णां लक्षणवता लक्षणानि पडेवेति हि को न श्रद्दधाति ?|| "नाणं न दंसणं चेव, चरित्तं च तयो तहा। वीरियं उवओगो यए एवं जीवस्स लक्खणं // 1 // सव्बंधकारउज्जोया, पभाया या तहेव य। वन्नरसगंधफासा, पुग्गलाणां तु लक्खणं''॥२॥ इत्यादि तु स्वभावविभावलक्षण्योरन्योऽन्येनान्तरीयकत्वप्रतिपाद नायेत्यादि पण्डितैर्विचारणीयम् // 11 / / (स्वभावेति) स्वभावगुणतासे निजत्वव्यवहारेण धर्ममात्रविवक्षया अनुवृत्तिव्या-वृत्तिसंबन्धेन च एते भिन्ना: पृथक् पृथक् सन्ति, न कोऽपि कञ्चिद्मिश्री भवति; परंतु स्वस्वरूपस्य निजनिजरूपस्य मुख्यत्वं प्राधान्यं गृहीत्वा अनुवृत्तिसंबन्धमात्रमनुसृत्य समुदाहृता: यत्स्वभावा: सन्ति त एव गुणीकृत्यदर्शिता: / तत इदमत्र दोध्यम्-धमापेक्षया अत्र एते गुणत्मका: पदार्थाः पृथक्स्वभावगुणसतो भिन्ना उक्तास्तत्तु निजकीयनिजकीयरूपमुख्यतां गृहीत्वैव स्वभावगुणीकृत्य उपदिष्टा इत्यर्थः; तस्मादत्र गुणविभागं कथयित्वा अग्रे प्रतिपाद्यमानपद्ये स्वभावविभागयोः कथनमुदाहरिष्यतीति ध्येयम् / / 1 / / अस्तिस्वभाव एषोऽत्र, स्वरूपेणार्थरूपता।। स्वभावपरमावाभ्या-मस्तिनास्तित्वकीर्तनात् / / 13 / / न चेदित्थं तदा शून्यं, सर्वमेव भवेदिदम्। परभावेन सत्त्वे तु सर्वमेकमयं भवेत् ||14||