________________ गुण 111 - अभिधानराजेन्द्रः - भाग 3 गुण सिद्धान्ते द्रव्यपर्याया-र्थिभेदान्नयद्यम्॥१२॥ यदि गुणस्तृतीयःपदार्थो द्रव्यपर्यायात् भिन्नोऽन्यः पदार्थो भावो भवेत्, तर्हि तृतीयो नयोऽति लभ्यते / सूत्रे तु द्रव्यार्थिकपण्यार्थिक इति नयद्वयमेव कथितम् / नयान्तरं यदि अभविष्यत्तदाग्रक्ष्यत्, अतो / नयद्वयादपरोनय गत्र एव न। उक्तं च संमतौ"दो ऊ णया भगवया, दव्वट्ठियपज्जवविया नियया। जइ पुण गुणो वि हुँतो, गुणट्टयणयो वि जुज्ज़तो॥१०७।। जंच पण भगवया ते-सु तेसु सुत्तेसु गोयमाईणं। पञ्जवसण्णाणिया, वागरिया तेण पजाया " // 108|| रूपादीनां गंणसंज्ञा सूत्रे न भाषिता परंतु "वण्णपजवा गंधपज्जवा" इत्यादिपाठः पर्यायशब्देन पठित:, तथाऽपि गुणो न कथ्यते। अन्यच्च"एगगुणकालए" इत्यादि स्थानेष्वपि गुणशब्दो यश्च दृश्यते सोऽपि गणितशास्त्रसिद्धपर्यायविशे: सेख्यावाचको ज्ञेयः, परं तु गुणाऽस्तिकनयविषयवाचको न। उक्तं च संमतिग्रन्थमध्ये "जं पंति अत्थिसमए, एगगुणो दसगुणो अणंतगुणो। रूवाईपरिणामो, भन्नइ तम्हा गुणविसेसो।।११०।। गुणसद्दमंतरेण वि, तंतुपज्जवविसेससंखाणं। सिज्झइ णवरं संखा, ण सत्थधम्मो ण य गुणो त्ति॥१११|| जह दससु दसगुणम्मि य. एगम्भि दसत्तणं समंचेव। अहियम्मि गुणसद्दे, तहेव एयम्मिदहव्वं''।११२॥ एवं गुण: पर्यायात् परमार्थदृशा भिन्नो नास्ति / तस्माद्र्व्यकमेव शक्तिरूपता कथं स्यादित्यभिप्रायः // 12|| अथ केचन पयार्यस्य दलं गुण इति वदन्तोगुणं शक्तिरूपमेवमन्वानाश्च विवदन्ते, तान्दूषयन्नाहपर्यायस्य दलं यर्हि, गुणो द्रव्येण किं तदा। गुणपर्याय एवेयं, गुणपरिणामकल्पना ||13|| यर्हि गुणः पर्यायस्य दलम् उपादानकारणं भवति, तदा द्रव्येण किमिति किं प्रयोजनं? द्रव्यप्रयोजनं गुणेनैव सिद्धमित्यर्थाद्वण पर्यायामेव पदार्थों उपदिश्यतां तृतीयस्याऽसंभवात् इति नियमः / पुनरत्र कश्चित्कथयिष्यतिद्रव्यपर्यायगुणपर्यायरूपे कार्ये भिन्ने स्तः। ततश्च द्रव्यगुणरूपकारणे अपि भिन्ने स्तः। इति कल्पनया यादी असत्यः / कथम्-कार्ये कारणोपचारात् कार्यमध्ये कारणशब्दप्रवेशो जायते। तथा कारणभेदे कार्यभेद: सिद्ध्यति, अथच कार्यभेदसिद्धौ करणभेदसिद्धिरित्यन्योन्याश्रयनाम दूषणमुत्पद्यते / तस्मात् गुणपर्यायस्तु गुणपरिणामस्यैव पटान्तरभेदकल्पनारूपः; तत एव केवलं संभावना, परंतु परमार्थतो न हि। अथ च द्रव्यादिनामत्रयमपि भेदोपचारेणैव शेयम्॥१३॥ द्रव्या०२ अध्याग (10) आर्हमसंमतगुणा:-- श्रीनाभेयजिनं नत्वा, गुणदेष्टगुरुं तथा। गुणभेदानहं वक्ष्ये, क्रमप्राप्तान् यथामति॥१॥ (श्रीनाभेयजिनमिति) नाभरपत्यं नाभेयः, श्रीयुतो नाभेयः श्रीनाभेय:, स चासौ जिनस्श्च श्रीनाभेयजिन:, तं श्रीनाभेयजिनं श्रीऋषभनाथं, नत्वा नमस्कृत्य, तथा तेनैव प्रकारेण, गुणदेष्टगुरुं गुणा वाणीगुणास्तानादिशतीति गुणदेष्टा, स चासौ गुरुश्च गुणदेष्टगुरुः, तं नत्वा नमस्कृत्येति निर्विघ्रसमाप्तिकामाय मङ्गलमिति / अहं गुणभेदान्क्रमप्राप्तान् द्रव्यव्यावर्णनानन्तरं प्रस्तुतान् यथामिति यथस्यात्तथा पूर्वप्रणेतृणां विस्तारदुर्बोधत्वेन स्वमतिविषयी यथा स्यात्तथा वक्ष्ये कीर्तयिष्यामि इति // 1 // अथात्र गुणभेदान् समानतन्त्रप्रक्रियया प्रतिपादयन्नाहतत्रास्तित्वं परिज्ञेयं, सद्भूतत्वगुणं पुनः। वस्तुत्वं च तथा जाति-व्यक्तिरूपत्वमुच्यते // 2 // (तत्रेति) अस्तित्वंतत्र इदं परिज्ञेयं-सत्तातोयो गुणो भवति, तस्मात्सद्भूतताया व्यावहारोजायते, सचास्तित्वगुणः१, वस्तुत्वं चजातिव्यक्तिरूपत्वम्। जाति:सामान्यम्। यथा घटे घटत्वम् / व्यक्तिर्विशेषः / यथा घट: सौवर्णः, पाटलीपुत्रिका, वासन्तिकः, कम्बुग्रीव इत्यादि। अत एव अवग्रहेण सर्वत्र सामान्यरूपं भसते, अपायेन विशेषरूपस्याऽऽभासो जायते / पूर्णोपयोगेण संपूर्णवस्तुग्रहो जायते। इत्थं वस्तुत्वं द्वितीयो गुणः // 2 // द्रव्यत्वं द्रव्यमावत्वं, पर्यायाधारतोन्नयः। प्रमाणेन परिच्छेद्य, प्रमेयं प्रणिगद्यते // 3 // अगुरुलघुता सूक्ष्मा, वाग्गोचरविवर्जिता। प्रदेशत्वमविभागी, पुदल: स्वाश्रयावधि ||4|| अथ द्रव्यत्वं जातिरूपम् / द्रवति तांस्तान्पर्यायान् गच्छतीति द्रव्यं, तस्य भावस्तत्वम्। द्रव्यभावो हिपर्यायाधारताभिव्यङ्ग्योजातिविशेषः / द्रव्यत्वं जातिरुपत्वात् गुणोन भवति ईक्नैयायिकादिवासनया आशङ्का न कर्तवयाः, यत: सह भाविनो गुणाः, क्रमभुव: पर्यायाः, ईदृश्येव जैनशासने व्यवस्थाऽस्तीति / द्रव्यत्यं चेद्गुण: स्याद्रूपादिवदुत्कर्षापकर्षभागि स्यादिति तु कुचोद्यम्, एकत्वादिसंख्याया: परमतेऽपि व्यभिचारेण तथा व्याप्त्यभावादेव निरसनीयम् ३१प्रमाणेन प्रत्यक्षदिना परिच्छेद्यं यद्रूपं प्रमाणविषत्वं प्रमेयत्वं तदित्युच्यते। तदपि कथञ्चित् अनुगतसर्वसाधारण गुणोऽस्ति, परम्परासंबन्धेन प्रमात्वज्ञानेनापि प्रमेयव्यवहारो जायते। ततः प्रमेयत्वं गुणस्वरूपादनुगतमस्तीति 4 / 3 / अगूरुलधुता अगुरुलधुर्नाम गुणः, सा कीदृशी? सूक्ष्मा, आज्ञाग्राह्यत्वात् / यतः "सूक्ष्म दिनोदितं तत्त्वं, हेतुभि व हन्यते। आज्ञाििद्धंतु तद्ग्राह्य नान्यथावादिनो जिनाः"||१|| पुनः कीदृशी? वाग्गोचरविवर्जिता वचनद्वारा वक्तुमशक्या / यतः 'अगुरुलघुपर्याया: सूक्ष्मा अवाग्गोचरा इति / अगुरुलघुर्नाम्ना पञ्चमो गुणः, अगुरुलधुत्वमिति ध्येयम् / अथ (प्रदेशत्वमविभागी, पुद्गलः स्वाश्रयावधि इति) अविभागी पुद्गल इति यावत् क्षेत्रे तिष्ठतीति तावत् क्षेत्रव्यापिष्णुत्वं प्रदेशत्वगुणः / यस्य विभागो न जायते विभक्तव्यवहारता नस्यात्, पुनर्यावत्क्षेत्रमास्थाय तिष्ठति स्थिती, तावत्क्षेत्रावगाहित्वं प्रदेशत्वम्। पुनः कीदृशम्? स्वाश्रयाबधि स्वशब्देन आत्मा पुद्गलात्मकः, तस्य य आधारः आश्रयः, स एवावधिर्मर्यादा यस्य तत् स्वाश्रयाऽवधि / एतावता तदेवार्थत्वं स्वेन यावत्क्षेत्र स्थितंतावति क्षेत्रे आश्रयावधित्वमप्यस्ति इतिज्ञेयमिति षष्ठो गुणः॥४॥ चेतनत्वनुभूति-रचेतनमजीवता। रूपादियुक्तमूर्तत्व-ममूर्तत्वं विपर्ययात् / / 5 / / सामान्येन समाख्याता, गुण दश समुचिताः। परस्परीहारात, प्रत्येकमष्ट चाट च // 6|| अथ चेतनत्वमात्मनोऽनुभूतिरिति अनुभवरूपगुण: कथ्यते, योऽहं