SearchBrowseAboutContactDonate
Page Preview
Page 925
Loading...
Download File
Download File
Page Text
________________ गीतिया 101 - अभिधानराजेन्द्रः - भाग 3 गीय गीतिका स्त्री०(गीतिका) पूर्वार्द्धसदृशापरार्द्धलक्षणायामायाम्, जं०२ वक्ष०ा "ताहे इमो गीतियां पगिया सुद्ध गाइयां सुद्ध वाइयं''। आव०४ अा औ०कलाभेदे, ज्ञा०१ श्रु०१ अ०। गीय न०(गीत) गै भावे क्तः / गाने, जं०२ वक्ष०ा प्रश्न० जी०। उत्त०। ज्ञा०। कर्मणि क्तः / ध्रुवकादिछन्दोनिबद्धे, बृ०१ उ०) नाट्यवर्जिते, औ०। तातच्छलिते, जीत०। गेये, प्रश्न०५ सम्ब०द्वार / गीतं पदस्वरतालावधानात्मकं गान्धर्वमिति भरतादिशास्त्रवचनात्।जातं०। त्रिविधं गीतम्-तथा गीतकला, सा च निबन्धानमार्गश्छलिकमार्गभिन्नमार्गभेदात् त्रिधा / तत्र "सप्त स्वरास्त्रयो ग्रामा:, मूर्च्छना एकविंशतिः। तानाएकोनपञ्चाशत्, समाप्त स्वरमण्डलम्"||१|| इयञ्च विशाखिलशास्त्रादवसेयेति। स०७२ सम०) स्वरप्रपूरणानन्तरम्सत्तस्सरा क ओवा, हवंतिगीयस्स का हवइ जोणी। कउ समया ओसासा, कउ वागीयस्स आगारा? ||16|| सत्त सरा नाभीओ, हवेति गीयं च रुइयाजोणि उ। पायसभा ऊसासा, तिण्णि य गीतस्स आगारा।।२०।। आईमउयारभंती, समुव्वहंता य मज्झयारम्मि। अवसाणे उजुत्ता, तिनि विगीयस्साआगारा।।२१।। इदानीं तु तद्विनिर्गतभ्यो भरतविशाखिलादिशास्त्रेभ्यो विज्ञेया इति "सत्त स्सरा कओ गाहा'' इह चत्पवार: प्रश्नसूत्राः। कुतः इति कस्मात् स्थानात् सप्त स्वरा उत्पद्यन्ते, का योनिरिति का जातिः, तथा कति समया येषु ते कतिसमया उच्छासाः किंपरिमाणकाला इत्यर्थः। तथा आकारा: आकृतयः, स्वरूपाणीत्यर्थः। उत्तरमाह-"सत्त सरा नाभीओ" इत्यादि गाथा स्पष्टा, नवरं रुदितं योनिः समानरूपतया जातितर्यस्य तदा रुदितयोनिकम.(पायसमा उच्छासा) यावद्भिः समयैर्वृत्तस्य पाद: समाप्यते तावत्समया उच्छ्वासा गीतेर्भवन्तीत्यर्थः। आकारानाह-(आईगाहा) त्रयो गीतस्याकारा: स्वरूपविशेषलक्षणा भवन्ति इति पर्यन्ते संबन्धः / किं कुर्वाणा इति ?आह(आरभं त्ति) आरम्भमाणाः गीतमिति गम्यते, कथंभूतमित्यादि (आइमउत्ति) आदी प्रथमतो मृदु कीमलम् आदिमृदु, तथा समुद्वहन्तश्च कुर्वन्तश्च महता, गीतध्वनेरिति गम्यते। मध्याकारे मध्यभागे तथा अवसाने च क्षपयन्तो गीतध्वनि मन्द्रीकुर्वन्ते इत्यर्थः। आदौ मृदु मध्ये तारं पर्यन्ते मन्दं गीतं कर्तव्यम्, अत एते मृदुतादयस्त्रयो गीतस्याकारा भवन्तीति तात्पर्यम्। किन्तु छद्दोसे अवगुणे, तिण्णि अवित्ताइ दोइ भणिईओ। जो नाही सो गाइहि, सुसिक्खिओ रंगमज्झम्मि॥२२॥ मीअं दुअमुप्पिथं, उत्तालं च कमसो मुणेअव्वं / कागस्सरमणुणासं, छद्दोसा होंति गेअस्स // 23 // षड् दोषा वर्जनीया:, तानाह-भीतमुत्त्रस्तमानसं यद् गीयते इत्यको दोषः 1 द्रुतं त्वरितम् 2 'उप्पित्थं श्वासयुक्तं, त्वरितं च। पावन्तरेण "रहस्स ति' ह्रस्वस्वरं, लघुशब्दमित्यर्थः। उत्तालमुत्प्राबल्यार्थ अतितालवस्थानतालं चेत्यर्थः। ताललघु कंसिकादिशब्दविशेष: 4 काकस्वरमश्लक्ष्णश्राव्यस्वरम् 5, अनुनासं नासाकृतस्वरम् 6, एतेषड़ दोषा गीतस्य भवन्ति। अष्टौ गुणानाहपुण्णं रत्तं च अलं-किअंच वत्त च तहेवमविघुटं। महुरं समं सुललिअं अट्ठ गुणा हॉति गेअस्स॥२४॥ उरकंठसिरविसुद्धं, च गीयते मउअरिभिअपदवद्धं / समतालपचुखेवं, सत्तस्सस्सीमरंगेअं॥२५|| अक्खरसमं पदसम, तालसमलयसमगहसमं वावि। नीससि ओससिअसमं, संचारसमं सरासत्त||२६|| स्वरकलाभिः सर्वाभिरपि युक्तं कुर्वतः पूर्णम् 1, गेयरागेण रक्तस्य भावितस्य रक्तम् 2, अन्यान्यस्फुटशुभस्वरविशेषाणां करणादलङ्कृतम् 3, अक्षरस्वरस्फुटकरणाद्यक्तम् 4, विक्रोशनमिव यद्विस्वरं न भवति तदविघुष्टम् 5, मधुमत्तकोकिलारूतरुवन् मधुरस्वरम् 6, तालवंशस्वरादिसमत्वगतं समम्७, स्वरघोलनाप्रकारेण शुद्धातिशयेन ललतीय यत् सुकुमालं तत् सुललितम् 8 एते अष्टौ गुणा गीतस्य भवन्ति, एतद्विरहितं तु विमम्बनमात्रमेव तदिति / किञ्चोपलक्षणत्वादन्येऽपि गीतगुणा भवन्ति, तानाह-चकारो गेयगुणान्तरसमुच्चयार्थः / उर:कण्ठशिरोविशुद्धं च / अयमर्थः-यारसि स्वरो विशालस्तर्युरोविशुद्धं,कण्ठे यदि स्वरो वर्तितोऽतिस्फुटश्च तदा कण्ठविशुद्धम, शिरसि प्राप्तोयदि नाऽनुनासिकस्तः शिरो विशुद्धम् / अथ वा उर:कण्ठशिरस्सु श्लेष्मणाऽव्याकुलेषु विशुद्धेषु प्रशस्तेषु यन्नीयते तदुरःकण्ठशिरोविशुद्धं, गीयते, गेयमिति सबध्यते। किंविशिष्टमित्याह-मृदुकं मृदुनाऽनिष्ठुरेण स्वरेण यदीयते तन्तृदुकं, यत्राक्षरेषु घोलनया संचरन् स्वरो भवतीति घोलनावहुलं रिभितं, गेयपदैर्वद्धं विशिष्टविरचनया रचितं पदं च द्वन्द्वः ततश्च पदत्रयस्य कर्मधारयः ।(समतालपञ्चुखेवं ति) तालशब्देन हस्ततालसमुत्थः, उपचाराच्छब्दो विवक्षितः, मुरजकांसिकादिगीतोपकाराऽऽतोद्यानां ध्वनि: प्रत्युत्क्षेपः, नर्तकीपदप्रक्षेपलक्षणो वा प्रत्युत्क्षेपः, समौ गीतस्वरेण तालप्रत्युत्क्षेपौ यत्र तत्समतालप्रत्युत्क्षेपम् / (सत्तसरसीभरं ति) अक्षरादिभिः समं यत्रतत्सप्तस्वरसीभरंगीतमिति। ते चामि सप्त स्वराः-(अक्खरसमं गाहा) यत्र दीर्घऽक्षरे दीर्घो गीतस्वर: क्रियते, ह्रस्वे ह्रस्वः, प्लुते प्लुतः, सानुनासिके तु सानुनासिक: तदक्षरसमं, यद्रीतपदं यत्र स्वरे अनुपाति भवति तत्रैव गीते गीयते तत्पदसमं, यत्परस्पराभिहतहस्ततालस्वरानुसारेण गीयते तत्तालसम, श्रृङ्गदाद्यिन्यतरवस्तुमेयनाङ्गुलीकोशकेन समाहततन्त्रीस्वरप्रकारो लयः, तमनुसरता स्वरेण यद्गीयते तल्लयसम, प्रथमतो वंशतन्त्र्यादिभिर्यः स्वरो गृहीतस्तत्समानस्वरेणगीयमानं ग्रहसमं, निःश्वसितोच्छासितमानमनतिक्रमती यद्नेयं तन्नि:श्वसितोच्छ्रसितसम, वंशतन्त्र्यादिध्वेवाङ्गुलिसंचारसमं यद्गीयते तत्संचारसमम्। एवमेते स्वरा: सप्त भवन्ति / इदमुक्तं भवति–एकोऽपि गीतस्वरोऽक्षरपदादिभिः सप्तभिः स्थानैः सहसामस्त्यं प्रतिपद्यमानः सप्तधात्वमनुभवतीत्येते सप्त स्वरा अक्षरादिभिः समा दर्शिता भवन्तीति गीतचय: सूत्रबन्धः / सोऽष्टगुण एव कर्तव्य इत्याहनिघोसंसारमंतंच, हेऊजुत्तमलंकियं /
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy