________________ गिहिधम्म 896 - अभिधानराजेन्द्रः - भाग 3 गिहिधम्म मोऽप्ययं द्विधा ।।''तत्र सामान्यातो नाम सर्वविशिष्टजनसाधारणानुष्ठानरूपः, विशेषात् सम्यग्दर्शना णुव्रतादिप्रतिपत्तिरूप: (ध०) तत्राद्यं भेदंदशभिःश्लोकैर्दर्शयतितत्र सामान्यतो गृहि-धर्मो न्यायार्जितं धनम्। वैवाह्यमन्यगोत्रीयः, कुलशीलसमैः समम् // 5 // शिष्टाचारप्रशंसारि-षडर्गत्यजनं तथा। इन्द्रियाणां जय उप-प्लुतस्थानविवर्जितः।।६।। सुप्रतिवेश्मिके स्थाने, नातिप्रकटगुप्तके। अनेकनिर्गमद्रारं, गृहस्य विनिवेशनम्॥७|| पापभीरुकता ख्यात-देशाचारप्रपालनम्। सर्वेष्वनपवादित्वं, नृपादिषु विशेषतः ||8|| आयोचितव्ययो वेषो, विभवाद्यनुसारतः। मातापित्रर्चनं सङ्गः, सदाचारैः कृतज्ञता || अजीर्णेऽभोजनं काले, भुक्तिः साम्यादलौल्यतः। वृत्तस्यज्ञानवृद्धार्हा, गर्हितेष्यप्रवर्तनम्॥१०॥ भर्तव्यभरणं दीर्घ-दृष्टिधर्मश्रुतिदया। अष्टबुद्धिगुणैःोगः, पक्षपातो गुणेषु च / / 11|| सदाऽनभिनिवेशश्च, विशेषज्ञानमन्वहम्। यथार्हमतिथौ साधौ, दीने च प्रतिपन्नता / / 12 / / अन्योन्यानुपघातेन, त्रिवर्गस्याऽपि साधनम्। अदेशाकालाचरणं, बलाऽबलविचारणम्॥१३|| यहलोकयात्र च, परोपकृतिपाटवम्। हीः सौम्यता चेति जिनः, प्रज्ञप्तो हितकारिभिः॥१४॥ दशभिः कुलकम्। तत्र तयो:सामान्यविशेषरूपयोः गृहस्थधर्मयोर्वक्तुमुपक्रान्तयोर्मध्ये सामान्यतो गृहिधर्म इति अमुना प्रकारेण हितकारिभिः परोपकरणशीलैर्जिनरहद्धि प्रज्ञप्तः प्ररूपितः , इत्यनेन संबन्धः / (एषां व्याख्याऽन्यत्र) ध०१ अधि। ननु तथापि धर्मसंग्रहिण्यां निश्चयनयमतेन शैलेशीचरमसमय एवधर्म उक्तः, तत्पूर्वसमयेषु तु तत्साधनस्यैव संभवः-"सो भवक्खयहेऊ, सेलेसीचरमसमयभावी जो / सेसो पुण निच्छयओ, तस्सेव पसाहगी भणिओ ॥१॥"त्ति वचनात् / अत्र तु निश्चयतो धर्मानुष्ठानसंभवश्चाप्रमजसंयतानामेवेति कथं न विरोध इतिचेत् ? न धर्मसंग्रहिण्यां धर्मस्यैवाभिधित्सितत्वेन तत्र धर्मपदव्युत्पत्तिनिमित्तग्राहकैवंभूतरूपनिश्चयनस्य शैलेशीचरमसमय एव प्रवृत्तिसंभवात्, अत्र तु धर्मानुष्ठानपदव्युत्पत्तिनिमित्तग्राहकैवंभतरूपनिश्चयनस्याऽप्रमत्त संयत एव प्रवृत्तिसंभवेन विरोधलेशस्थाप्यनवकाशात् / हन्तैवं निरुपचरितो भावाभ्यासोऽप्रमत्तसंयतस्यैव प्रमत्तसंयतदेश विरताविरतसम्यग्दृशां त्वापेक्षिकत्वेनौपचारिक एव प्राप्त इत्युपुनर्बन्धस्यैवौपचारिक इति कथं युज्यत इति चेत् ? यथा पर्यवनयव्युतक्रान्तार्थग्राही द्रव्योपयोगः परमाणावेवाऽपश्चिम विकल्पनिर्वचनः, तथा निश्चयनयव्युत्क्रात्तार्थग्राही व्यवहारनयोऽप्यपुनर्बन्धक एव तथेत्यभिप्रायादिति गृहाण। अत एवअपुनर्बन्धकस्यार्य, व्यवहारेण तात्विकः / अध्यात्मभावनारूपो, निश्चयेनोत्तरस्य तु॥३६८|| इत्युक्तम योगबिन्दौ / यत्त्वत्रापुनर्बन्धकस्याप्युपलक्षणत्यात्सम्यग्दृष्ट्यादीनामपि वृत्तौ ग्रहणं कृतं तदपेक्षयैवेति तत्त्वम् / तदयं परमार्थः-निश्चयेनानुपचरितं धर्मानुष्ठानमप्रमत्त संयतानामेव, प्रमत्त संयतानादीनामपित्वपेक्षया निश्चयव्यवहाराभ्याम, अपुनर्बन्धकस्यतु व्यवहारेणैव, तैन सातान्यतो गृहिधर्मो व्यवहारेणाऽपुनर्बन्धकापेक्षयैवति स्थितिमिति // 14 // सप्रभेदं सामान्यतो गृहिधर्ममभिधाय सांप्रतंतत्फलं दर्शयन्नाहएतद्युतं सुगार्हस्थ्यं, यः करोति नर: सुधीः / लोकद्रयेऽप्यसौ भूरि-सुखमाप्नोत्यानिन्दितम्॥१५॥ एतेनान्तरोदितेन सामान्यगृहिधर्मेण संयुतं सहितं सुग्गाहरूथ्यं शोभनगृहस्थ्भावं य: कश्चित्पुण्यसंपन्न: सुधी: प्रशस्तबुद्धिर्नर: पुमान् करोति विदधाति, असौ सुगार्हस्थ्यकर्त लोकद्रयेऽपि इहलोकपरलोकरूपे, किं पुनरिहलोक एवेत्यपिशब्दार्थः, अनिन्दितं शुभानुबन्धियतयाऽगर्हणीयं भूरि प्रचुरं सुखं शर्म आप्रेति लभते / इति प्रतिपादितं सामान्यतो गृहिधर्मफलम्। अथ एतद्गुणयुक्तस्य पुसः सदृष्टान्तमुत्तरोत्तरगुणवुद्धियोग्यता दर्शयतितस्मिन् प्राय: प्ररोहन्ति, धर्मबीजानि गहिनि। विधिनोप्तानि बीजानि, विशुद्धाया यथा मुवि।।१६।। प्रायो बाहुल्येन धर्मबीजानि लोकोत्तरधर्मकारणानि / तानि चामूनि 'योगदृष्टिसमुच्चये' प्रतिपादितानि"जिनेषु कुशलं चित्तं, तन्नमस्कार एव च। प्रणामादि च संशुद्धं, योगबीजमनुत्तमम् / / 1 / / उपादेयधियाऽत्यन्तं,संज्ञाविष्कम्भणान्वितम्। फलामिसन्धिरहितं, सशुद्धं ह्येतदीदृशम् / / 2 / / आचार्यादिष्वपि ह्येत-द्विशुद्धं भावयोगिषु। वैयादृत्यं च विधिव-च्छुद्धाशयविशेषतः॥३॥ भवोद्वेगश्च सहजो, द्रव्याभिग्रहपालनम्। तथा सिद्धान्तमाश्रित्य, विधिना लेखनादि च ||4|| लेखनापूजाभ्यां च, श्रवणं वाचनोद्ग्रहः। प्रकाशनाऽथा स्वाध्याय-श्चेतना भावनेति च // 5 // दुःखितेषु दयाऽत्यन्त मद्वेषो गुणवत्सुच। औचित्या सेवचनं चैव,सर्वत्रैवाऽविशेषतः"||६|| इति तस्मिन् पूर्वोक्तगुणभाजने गेहिनि गृहस्थे प्ररोहन्ति प्रकर्षण स्वफलाबन्ध्यकारणत्वेन प्ररोहन्ति धर्मचिन्तादिलक्षणा-डुरादिमन्ति जायन्ते। उक्तञ्च "वपनं धर्मबीजस्य, सत्प्रशंसादितद्गतम्। तचिन्ताधडरादि स्यात्, फलसिद्धिस्तु निर्वृतिः / / 1 / / चिन्तासच्छुध्यनुष्ठान-देवमानुषसंपदः। क्रमेणाङ्करसत्काण्ड-- नालपुष्फसमा मता: "||2|| कीदृशानि सन्ति प्ररोहन्तीत्याह-विधिना देशनाऽहंबालादिपुरुषौचित्यलक्षणेन उप्तानि निक्षिप्तानि, अतिक्षिप्तेषु हितेषु कथामपि धर्मस्यानुदयात् / सत उपदेशपदे-"अकए बीजक्खेवे, जहा सुवासे वि न भवई सस्सीतह घम्मवीजविरहे न सुस्समाए