SearchBrowseAboutContactDonate
Page Preview
Page 873
Loading...
Download File
Download File
Page Text
________________ 846 - अभिधानराजेन्द्रः - भाग 3 गरहणया कुद्रव्यसंयोगजो विषविशेषः, तस्य च कालान्तरे विषतधिकार: प्रादुर्भवतीति उभयापेक्षाजनितमतिरिच्यते नोभयापेक्षायामप्यधिकस्य बलवत्त्वादिति संभावयामः / द्वा०१३ द्वा०। यो० वि०। बवादिकरणानामन्यतमे, जं०७ वक्ष०ा उत्त०। विशे०। आ० म०। आ०चू०। सूत्र रोगे, दूष्ये, निगरणे च। वाचला गरलिगावद्ध त्रि०(गरलिकाबद्ध)निक्षिप्ते, नि०चू०१ उ०। गरहंत त्रि०(गर्हमाण) निन्दति, सूत्र०१ श्रु०१ अ०२ उ०) गरहणया स्त्री०(गर्हणा) परसमक्षमात्मदोषोद्भावने, भ०१७ श०३ उ०। अपरलोकानां पुरतः स्वदोषप्रकाशने, उत्ता गरहणयाए णं भंते ! जीवे किं जणयइ? गरहणयाए अपुरेकारं जणयइ, अपुरेकारगए णं जीवे अप्पसत्थेहिंतो जोगेहिंतो नियत्तेइ, पसत्थे य पडिवइज्जइ, पसत्थजोगपडिवन्ने य णं अणगारे अणंतघाइपञ्जदे खवेइ ||7|| सामायिएणं भंते ! जीवे किं जणयह? सामायिएणं सावज्जजोगविरई जणयइ // 8|| चउव्वीसत्थएणं भंते ! जीवे किं जणयइ ?चउवीसत्थएणं दंसणविसोहिं जणयइ || वंदएणं भंते ! जीवे किं जणयह? वंदणएणं नीयगोयं कम्म खवेह, उच्चागोयं कम्मं निबंधइ, सोहग्गं च णं अपमिहयं आणाफलं निव्वत्तेइ, दाहिणभावं च णं जणयइ // 10 // पडिकमणेणं भंते ! जीवे किं जणयइ? पडिकमणेणं चयच्छिवाणि पिहेइ, पिहियच्छिद्दे पुण जीवे निरुद्धासवे असवलचरिते अट्ठसुपवयणमायासु उवउत्ते अपुहत्ते सुप्पणिहिए विहरइ / / 11 / / काउस्सग्गेणं भंते ! जीवे किं जणयह? काउस्सग्गेणं तीयपडुप्पण्णपायच्छित्तं विसोहेह, विसुद्धपायच्छितेय जीवे निवुयहियए ओहरियभरो व्वभारवहे पसत्थज्झाणोवगए सुहं सुहेणं विहरइ॥१२॥ पचक्खाणेणं भंते! जीवे किं जणयइ ? पञ्चक्खाणेणं आसवदाराई निरंभइ, पचक्खाणेणं इच्छानिरोहंजणयइ, इच्छानिरोह गएयणं जीवे सव्वदव्वेसु विणीयतण्हे सीयलभूए विहरइ॥१३॥ कश्चिदात्मनोऽत्यन्तदुष्टतां परिभावयन्न निन्दामात्रेण तिष्ठेत् किन्तु गर्हामपि कुर्यादिति तामाह-(गरिहणयाए त्ति) गर्हणेन परसमक्षमात्मनो दोषोद्भावनेन (अपुरेक्कारं ति) पुरस्करणं पुरस्कारः, गुणवानयमिति गौरवाध्यारोपः, न तथाऽपुरस्कारोऽवज्ञाऽऽस्पत्वं, तंजनयति, आत्मन इति गम्यते। तथा चापुरस्कारं गतः प्रप्तोऽपुरस्कारगतः सर्वत्रावज्ञाऽऽस्पदीभूतो जीवः कदाचित् कदध्यवसायोत्पत्तावपि तद्भतित एवाप्रशस्तेभ्यः कर्मबन्धहेतुभ्यो योगेभ्यो निवर्त्तते, न तान् प्रतिपद्यते, प्रशस्तयोगांस्तु प्रतिपद्यते इति गम्यते। (पसत्थजोगे पडिवन्ने यत्ति) प्रतिपन्नप्रशस्तयोगोऽनगारोऽनन्तविषयतयाऽनन्ते ज्ञानदर्शने हेतुं शीलं येषां तेऽनन्तघातिनस्तान् पर्यवान् प्रस्तावाद् ज्ञानावरणादिकर्मणः, तद्धतित्वलक्षणान् परिणतिविशेषान् क्षपयति क्षयं नयति, पर्यवाभिधानं च तद्रूपतयै वद्रव्यस्य विनाश इति ख्यापनार्थम् / उपलक्षणं चैतत् मुक्ति प्राप्तेः, तदर्थत्वात् सर्वप्रयासस्य, एवमनुक्ताऽपि सर्वत्र मुक्तिप्राप्तिरेव फलत्वेन द्रष्टव्या |7|| आलोचनादीनि सामयिकवत एव तत्त्वतो भवन्तीति भवन्ति उच्यतेसामायिकेनोक्तरूपेण सहावद्येन वर्तते इति सावद्याः कर्मबन्धहेतवो योगा व्यापारा:, तेभ्यो विरतिरुपरमः सावद्ययोगविरतिः, ता जनयति, तद्विरत्या सहितस्यैव सामायिकसंभवात् / न चैवं तुल्यकालत्वेनापनयोः कार्यकारणभावासंभव इति वाच्यम्, केषुचित् तुल्यकालेष्वपि वृक्षच्छायाऽऽदिवत् कार्यकारणभावदर्शनात्, एवं सर्वत्र भावनीयम् / / 8|| सामायिकं च प्रतिपत्तुकामेन तत्प्रणेतारः स्तोतव्याः / ते च तत्त्वस्तीर्थकृत एवेति तत्स्तवमाहचतुर्विशतिस्तवेनैतदवसर्पिणी प्रभवतीर्थकृदुत्कीर्तनात्मकेन दर्शनं सम्यक्त्वं, तस्य विशुद्धिस्तदुपघातिकपिगमतो निर्मलीभवनं दर्शनविशुद्धस्तां जनयति / / 6 / / स्तुत्वाऽपि तीर्थकरान् गुरुवन्दनक पूर्विकैव तत्प्रतिपत्तिरिति तदाहवन्दकेनाचार्याधुचितप्रतिपत्ति रूपेण नीचैर्गोत्रमधमकुलोत्पत्तिनिइन्धनं कर्म क्षपयति। उच्चैर्गोत्र तद्विपरीतरूपं निबध्नाति। सौभाग्यं च सर्वजनस्पृहणीयतारूपमप्रतिहतं सर्वत्राऽप्रतिस्खलिमत एवाज्ञा यथोदितवचन प्रतिरूपा फलं प्रयोजनमस्येत्याज्ञाफलं निवर्तयति / तद्वतो हि प्राय आदेयकर्मणोऽप्युदयसंभवादादेयवाक्यताऽपि संभवति / दक्षिणभावं चानुकूलभावं च जनयति, लोकस्येति गम्यते / तन्माहात्म्यतोऽपि सर्व: सर्वावस्थास्वनुकूल एव भवति॥१०॥एतद्गुणस्थितेनापि मध्यमतीर्थकृतां तीर्थेऽस्खलितसंभवे पूर्वपश्चिमयोस्तु तदभावेऽपि प्रतिक्रमितव्यमिति / प्रतिक्रमणमाह-- प्रतिक्रमणेनाऽपराधभ्यः प्रतीपनिवर्तनात्मकेन व्रतानां प्राणातिपात. निवृत्त्यादीनां छिद्राण्यतीचाररूपाणि विवराणि व्रतच्छिद्राणि पिदधाति स्थगयति, अपनयतीतियावत्। तथाविधश्च कंगुणभवाप्रोतीति? आहपिहितछिद्रः पुनर्जीवो निरुद्धाश्रवः, सर्वथा हिंसाद्याश्रवाणां निरुद्धत्वात् / अत एवासवलं सवलस्थानैरकर्बुरीकृतं चरित्रं यस्य स तथाऽष्टसुप्रवचनमातृषूक्तरुपासु उपयुक्तोऽवधानवान्, तत एवाविद्यमानं पृथक्त्वं प्रस्तावात् संयमयोगेभ्यो वियुक्तत्वस्वरूपं यस्यासावपृथक्त्वः, सदा संयमयोगवान् अप्रमत्तो वा, पाठान्तरात्तथा सुप्रणिहितः सुष्टु संयमे प्रणिधानवान्, पाठान्तरतोवा सुष्टुप्रणिहितान्यसन्मार्गात्प्रच्याव्यसन्मार्गे व्यवस्थापितानीन्द्रियाण्यनेनेति सुप्रणिहितेन्द्रियो विहरति संयमाध्वनि याति॥११||अत्रचातीचारशुद्धिनिमित्तं कायोत्सर्गः कर्तव्य इति।तमाहकाय: शरीरं,तस्योत्सर्गआगमोक्तनीत्या परित्यागः कायोत्सर्गः, तेनातीतं चेह चिरकालभावित्वेन प्रत्युत्पन्नमिव प्रत्युत्पन्नं चासन्नकालभावितयाऽतीतप्रत्युत्पन्न प्रायश्चित्तमुपचारात् प्रायश्चित्ता-हमतीचारं विशोधयति। तदुपार्जितपापाऽपनयतोपनयति, विशुद्धप्राय-श्चित्तश्च जीवो निर्वृतं स्वस्थीकृतं हृदयमन्तःकरणमस्येति निर्वृतहृदयः; क इव (ओहरिय त्ति) अपहृत्योपसारितो भर इति भारो यस्मात्स तथा इवेति भिन्नक्रमः। ततो भारं वहतीति मूलविभुजादेराकृतिगणत्वात्कप्रत्यये भरवहो वाहीकादिः, स इव। भारप्राया हि अतीचाराः, ततः तदपनयने अपहृतभरभारवह इव निवृतहृदयो भवतीति भावार्थः। स च ध्यानं धर्माधुपगतः प्राप्तो
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy