________________ गणथेर 815 - अभिधानराजेन्द्रः - भाग 3 गणधर गणथेरपुं०(गणस्थविर) लौकिकस्य लोकोत्तरिकस्यच व्यवस्थाकारिणि, तद् तुश्च निग्राहके स्थविरभेदे, स्था०१० ठा०ा "सो होति गणथेरो गणथेरगुणेहिं उववेतो" पं०भा०। 'गणथेरेण कयं गणो न वोक्कामई" पं०चून गणधमम्म पुं०(गणधर्म)मल्लादिणव्यवस्थायाम् यथा समपादपातेन विषमग्रह इत्यादि / दश०१ अ०। जैनानां वा कुलसमुदायो गणः कोटिकादिस्तद्धर्मः, तत्सामाचारी। गणसामाचार्याम्, स्था०१० ठाण गणः समुदायो, निजज्ञातिरिति यावत् / तस्य धर्मः / स्वस्वप्रवर्तिते विवाहादिके व्यवहारे, जं०२ वक्षा गणधर पुं०(गणधर) अनुत्तरज्ञानदर्शनादिधर्मगणं धरतीति गणधरः। अनुत्तरज्ञानदर्शनादिधर्मगणधरे, "सेज्जभवं गणहरं, जिणपडिमादसणेण पडिबद्धं ।"आ०म०प्र०। पं०८०। सूत्रकर्तरि, आ०म०प्र०। तीर्थकृच्छिष्ये, कल्प०६ क्षण | गणनायके, कल्प०७ क्षण / गौतमस्वाम्यादौ, विशेष स्थान वन्दनमुखेन गणधरस्वरूपम्एक्कारस वि गणहरे, पवायए पवयणस्स वंदामि। सव्वं गणहरवंसं, वायगवंसं पवयणं च // 1062 / / अनुत्तरज्ञानदर्शनादिगुणानां गणं धारयन्तीति गणधरास्तानेकादशाऽपि गौतमादीन्वन्दे। कथंभूतान्? इत्याह-प्रकर्षण प्रधाना आदौ वा वाचकाः प्रवाचकाः प्रवचनस्यागमस्य। एवं तावदमलगणधरवन्दनं कृतम्।तथा सर्व निरवशेषम, गणधराजम्बूप्रभवशय्यम्भवादयः शेषा आचार्याः, तेषां परम्परया प्रवाहो वंशस्तम्। तथा वाचका उपाध्यायास्तेषां वंशस्तम्। तथा प्रवचनं चागमं वन्दे, इति नियुत्किगाथार्थः।।१०६५।। अथ भाष्यम्पुजा जहत्थ्वत्ता, सुयवत्तारो तहा गणहरा वि। पुजा पवायगा पव-यणस्य ते वारसंगस्स // 1063 / / जह वा रायाणत्तं, रायनिउत्तपणओ सुहं लहइ। तह जिणावरिंदविहियं, गणहरपणओ सुहं लहइ।१०६४।। जह मूलसुयप्पभवा, पुजा जिणगणहरा तहा जेहिं। तदुभयमाणीयमिदं, तेसिं वंसो किह न पुज्जो?॥१०६५।। जिणगणहरुग्गयस्स वि, सुयस्स को गहणधरणदाणाई। कुणमाणो जइ गणहर-वायगवंसो न होजाहि ?||1062|| सीसहिया वत्तारो, गणहिवागणहरा तयत्थस्स। सुत्तस्सोवज्झाया, वंसो तेसिं परंपरओ॥१०६७।। पगयं पहाणवयणं, पवयणं वारसंगमिह तस्स। जइ वत्तारो पुजा, तं पि विसेसेण तो पुजं // 1068|| षडपि सुगमार्थाः, नवरं यथार्थस्य वक्ता तीर्थकरः पूज्य:, तथा गणधरा अपि गौतमादयः पूज्या:, यतस्तेऽपि प्रवचनस्य द्वादशाङ्गस्य सूत्रतः प्रवाचका एव इति तेषामपि नमस्कारः कृतः / अथवा यथा राज्ञा पृथ्वीपतिना आज्ञातं तदाज्ञापितमर्थादिकं राजनियुक्तानाममात्यादीनां प्रणतः सुखेनैव लभते, तथा प्रणतिप्रसन्नैर्जिनवरेन्नद्रैर्विहितं विस्तीर्ण मङ्गलादिकं गणधरप्रणत सुखेनैव लभत इतितेपामपिनमस्कारः / अथ सामान्येन शेषाचार्योपाध्यायनमस्कृतौ हेतुमाह-(जहेत्यादि) यथा मूलश्रुतस्य द्वादशाङ्गीसम्बन्धिनोऽयस्य सूत्रस्य च प्रश्नवा हेतवा यथासंख्यं जिना गणधराश्च पूज्याः, तथा यैरिदं तयोर्द्वादशाङ्गीसंबन्धिसूत्रार्थयोरुभयमियती कालकलां यावदानीतं, तेषां शेषाचार्यरूप गणधरोपाध्यायानां वंशः कथं न पूज्य:?अपितु पूज्य एवेति / किञ्च "जिणेत्यादि" अथ विशेषतोगणधराणाम, उपाध्यायानां च नमस्कृती हेतुमाह (सीसेत्यादि) यथा गणाधिपा गौतमादयः, गणधरास्तु जम्बूस्वाम्यादयः शेषाचार्याः, तदर्थस्य द्वादशाङ्गार्थ स्य वक्तारो व्याख्यातारः सन्तः शिष्यवर्गस्य हिता:, तद्धितत्वाचनमस्क्रियन्ते; तथा तत्सूत्रस्य वक्तारः पाठयितारः सन्त उपाध्याया अपि शिष्यहिता एव। बंशश्च तेषामेवोपाध्यायानां परम्परकः पारम्पर्यव्यवस्थितः समूहः, अतः शिष्यहितत्वात्सोऽपि नमस्क्रियते शेष सुबोधमिति / विशेला अ०म०। आ०चू। अथ कस्य तीर्थकृतः कियन्तो गणधरा इति दर्श्यते"एवं नवसु वि-खेत्ते-सुपुरिमपच्छिममज्झिमजिणाणं च। वोच्छं गणहरसंखं, जिणाण नामंच पढमस्स॥४७।। उसभजिणे चुलसीति, गणहर उसभसेण आदीय। अजियजिणिंदे नउमित्तु सीहसेणो भवे आदी॥४८॥ चारुय संभवजिणे, पंचाणउती य गणहरा तस्स। पढमो य वजनाभो, अभिनंदण तियधिकसयं तु॥४६।। सोलसयं सूमइसओ-यमराविय पढमगणहरो तस्स। सुजो सुप्पभजिणो, सयमेकोऽरगणहराणं / / 5 / / होइ सुपासवियज्झो, पंचाणउतीय गणहरा भवे तस्स। नंदो य सीयलजिणे, एकासीत्रिं मुणेयव्वा ! // 51 // सिजंसे छसत्तरी, पढमो सिस्सो य गोच्छुभो होइ। छावट्ठीय सुभूमो, बोधव्वा वासपुजस्स // 52 // विमलजिणे छप्पन्ना, गणहरपढमो य मंदरो होइ। पण्णासाऽणंतजिणे, पढमो सिस्सो जसो नाम॥५३॥ धम्मस्स हाइऽरिट्ठो, तेयालीसं च गणहरा तस्स। चक्की उच्छेय पढमो, छत्तालीसा य संतिजिणे // 54 // कुंथुस्स भवे संघो, सत्तत्तीसं च गणहरा तस्स। कुंभो य अरजिणिंदे, तेत्तीसं च गणहरा तस्स // 55 / / भिसंसिगो मल्लिजिणे, अट्ठावीसं च गणहरा होति। मुणिसुव्वयस्स मल्ला, अट्ठारस गणहरा तस्स / / 56 / / सुंभो नमिजिणवसभे, एक्कारस गणहरा चरिमदेहा। नेमिस्स वि अट्ठारस, गणहर पढमो वेरदत्तो॥५७|| पारास्स अजदिण्णो, पढमो अट्ठव गणहरा भणिया। जिणवीरे एक्कारस, पढमो से इंदभूई उ॥५८|| गणहरसंखा भणिया, जं नामो पढमगणहरो तस्स"| तिला भगवत आदितीर्थकरस्य चतुरशीतिर्गणधराः, अजितस्वामिन पञ्चनवतिः, संभवनाथस्य व्युत्तरं शतम्, अभिनन्दनस्य षोडशोत्तरं शतं, सुमतिनाथस्य परिपूर्ण शतं, पद्मप्रभस्य सप्ताधिकं शतं. सुपार्श्वस्य पञ्चनवतिः, चन्द्रप्रभस्य त्रिनयतिः, सुविधिस्वामिनोष्टाशीतिः, शीतलस्य एकाशीतिः, श्रेयांसस्य षट्सप्ततिः, वासुपूज्यस्य षट्पटि:, विमलस्य सप्तपशाशत्, अनन्तजिनस्य पश्चाशत्. धर्मस्य त्रिचत्वारिंशत्, शान्तिनाथस्य षट्त्रिंशत्, कुन्थुनाथस्य पञ्चत्रिंशत्, अरजिनस्य त्रयस्त्रिंशत. मल्लिस्वामिनो अष्टाविंशतिः, मुनिसुव्रतस्य -अष्टादश, नमिनाथस्य सप्तदश, अरिष्टनेमेरेकादश, पार्श्वनाथस्य दश, वर्द्धमानस्वामिश्च एकादशैवेति। एतद् ऋषभादीनां चतुर्विंश