SearchBrowseAboutContactDonate
Page Preview
Page 775
Loading...
Download File
Download File
Page Text
________________ खुड्डागणियंठ ७५१-अभिधानराजेन्द्रः भाग-३ खुड्डागणियंठ स्वकर्मणा पीड्यमानस्य / एते के माता, पिता, स्नुषा पुत्रवधूः, भ्राता सहोदरः, भार्या पत्नी, पुत्राः पुत्रत्वेन मानिताः, च पुनः औरसाः स्वयमुत्पादिता एते सर्वेऽपि स्वकर्मसमुद्भूतदुःखात् रक्षणाय न समर्था भवन्तीत्यर्थः / / 3 / / एयम४ सपेहाए, पासे समियदंसणे। छिंदे गेहिं सिणेहं च,न कंखे पुथ्वसंथवं // 4|| शमितदर्शनः शमितं ध्वस्तं दर्शनं मिथ्यादर्शनं येन स शमितदर्शनः। अथवा सम्यक् प्रकारेण इतं प्राप्तं दर्शनं सम्यक्त्वं येन स समितदर्शनः एतादृशः संयमी एतदर्थं पूर्वोक्तमर्थम् अशरणादिकम् (सपेहाए) स्वप्रेक्षया स्ववुह्या (पासे इति) पश्येत् हृदि अवधारयेत् च पुनः गेहिं) गृद्धिं रसलाम्पट्यं च पुनः स्नेहं पुत्रकलत्रादिषुरागं छिन्द्यात्। पुनः पूर्वसंस्तवः पूर्वपरिचयः एकत्र ग्रामादिवासस्तंन स्मरेत्।।४।। गवासं मणिकुण्डलं, पसवो दासपोरुसं। सव्वमेयं चइत्ताणं, कामरूवी भविस्ससि // 5 // . पुनरपि पण्डितः आत्मानमिति शिक्षयेत् / अथवा गुरुः शिष्यं प्रत्युपदिशति-हे आत्मन्! अथवा हे शिष्य! एतत्सर्व त्यक्त्वा कामरूपी स्वेच्छाचारी भविष्यसि / एतेषु ममत्वं त्यजसि / तदा इह भवे तु वैक्रियलब्धिः अणिमामहिमागरिमालधिमाप्राप्तिप्राका-म्येशित्ववशित्वादिमान् भविष्यसि / परलोके च निरतीचारसंयमपालनात् देवभवे वैक्रियादिलब्धिमान् त्वं भविष्यसि / तत्किं ? तदाह-- गवाश्वं गावश्च अश्वाश्चगवाश्वं पुनर्मणिकुण्डलं मणयश्चन्द्रकान्ताद्याः कुण्डलग्रहणेन अन्येषामप्यलङ्काराणां ग्रहणं स्यात्, सर्वे मणयः सर्वाण्यलङ्काराणि च इत्यर्थः / पशवः अजैडकपक्ष्मपट्याधुत्पादकरोमधारककुक्कुरादयश्च, दासा गृहदासीभ्यः समुत्पन्नाः, दासाश्च पौरुषाश्च दासपौरुषम् एते | सर्वेऽपि मरणान्न त्रायन्ते इत्यर्थः / तस्मात् पूर्वम् एतत् त्यक्त्वा संयम परिपालयेदित्यर्थः। थावर जंगमं चेव, धणंर धण्णं उवक्खरं। पञ्चमाणस्स कम्मेहि, नालं दुक्खाउ मोअणे // 6 // पुनरेतत्सर्वं वस्तु कर्मभिः पच्यमानस्य जीवस्य दुःखान्मोचने अलं समर्थं न भवति / एतत्किम् ? स्थावरं, गृहादिकं / पुनर्जङ्गमं च पुत्रमित्रभृत्यादि / पुनर्धनं गवादि, धान्यं व्रीह्यादि / पुनरुपस्करं गृहोपकरणम् // 6 // अज्झत्थं सव्वओ सव्वं, दिस्सपाणे पियाऽऽयए। न हणे, पाणिणो पाणे, भयवेराउ उवरए।।७।। साधुः सर्वतः सर्वप्रकारेण सर्वमध्यात्मसुखदुःखादिकं (दिस्स इति)दृष्ट्या सर्वप्रकारेण सर्वं सुखदुःखादिकमात्मनि स्थितं ज्ञात्वा सुखदुःखयोर्वेदकमात्मानं ज्ञात्वा / इष्टसंयोगादिहेतुभ्यः समुप्तन्नं सुखं सर्वस्यात्मनः प्रियं स्यात्। इष्टवियोगादिहेतुभ्यः समुत्पन्नं दुःखं सर्वस्यात्मनः अप्रियं / ज्ञात्वा इत्यर्थः। च पुनः प्राणिनो जीवान् प्रियात्मनो दृष्ट्वा, प्रियः आत्मा येषां ते प्रियात्मानः "सव्वे जीवा वि इच्छंति जीविउंन मरिजिउं" इति दृष्टा हृदि विचार्य प्राणिनो जीवस्य प्राणान् इन्द्रियोच्छ्वासनिःश्वासायुर्बलरूपान् न हन्यात्। भयात् वैरात् च उपरमेत् निवर्तेत। अथ वा कथंभूतः साधुः भयात् वैराच उपरतो निवर्तितः इति साधुविशेषेणं कर्तव्यम् // 7 // आयाणं नरयं दिस्स, नायइज्जतणामवि। दोगुच्छी अप्पणो पाए, दिन्नं भुजिज्ज भोयणं // 8 // साधुस्तृणमपि (नायइल इति) न आददीत अदत्तं नगृहीत। किं कृत्वा आदानं नरकं दृष्ट्वा, आदीयते इत्यादानं धनधान्यादिकपरिग्रहं नरकं नरकहेतुत्वात् नरकं ज्ञात्वा इत्यर्थः पुनः साधुः (पाए दिन्ने) पात्रे दत्तं गृहस्थेन पात्रमध्ये प्रक्षिप्तं भोजनं शुद्धाहारम् (भुंजेज इति) भुञ्जीत / कथम्भूतः सन् (अप्पणो दुगुंछी) आत्मनो जुगुप्सी सन्। आहारसमये आत्मनिन्दकः सन् अहो धिक् मम आत्मानमयं ममात्मा देहो वा आहार विना धर्मकरणे असमर्थः / किं करोमिधर्मनिर्वाहार्थमस्मै भाटकं दीयते इति चिन्तयन् आहारं कुर्यात्। न तु बलवीर्य पुष्ट्याद्यर्थमाहारो विधीयते इति चिन्तयेत् / अत्रादत्तपरिग्रहाश्रवद्वदनिरोधात् अन्येषामप्यश्रवाणां निरोधोऽप्युक्त एव / / इह एगे उ मन्नंति, अपचक्खायपावगं / आयरियं विदित्ताणं,सव्वदुक्खा विमुचई।। इह अस्मिन् संसारे एके केचित् कापिलिकादयो ज्ञानवादिन इति मन्यन्ते। इतीति किं ? पापकं हिंसादिकमप्रत्याख्याय पापमनालोच्याऽपि मनुष्यः आचारिकं स्वकीयमतोद्भवानुष्ठानसमूह विदित्वा ज्ञात्वा सर्वदुःखात् विमुच्यते। एतावता तत्वज्ञानात् मोक्षावाप्तिः इति वदन्ति। जैनानां तु ज्ञानक्रियाभ्यां मोक्षः ज्ञानवादिनां तु ज्ञानमेव मुक्त्यङ्गमिति ||6| भणन्ता अकरेन्ता य, बन्धमोक्खपइमिणो। वायावीरियमेत्तेणं, समासासन्ति अप्पयं / / 10 / / पुनस्ते एव ज्ञानवादिनो बन्धमोक्षप्रतिज्ञिनः वाचावीर्यमात्रेण केवलं वाक्शूरत्वेन आत्मानं समाश्वासयन्ति / बन्धश्च मोक्षश्च बन्धमोक्षौ, तयोः प्रतिज्ञा आद्यं ज्ञानं येषां ते बन्धमोक्षप्रतिज्ञिनः, बन्धमोक्षज्ञा इत्यर्थः / "मन एव मनुष्याणां, कारणं बन्धमोक्षयोः / यत्रैवालिङ्गिता कान्ता, तत्रैवालिङ्गितासुता" इत्यादि प्रतिज्ञा कुर्वाणाः। ते किं कुर्वन्तः आत्मानम् आश्वासयन्ति भणन्तो ज्ञानमभ्यस्यन्तः, च पुनः अकुर्वन्तः क्रियामनाचरन्तः, प्रत्याख्यानतपःपौषधव्रतादिकां क्रियां निन्दन्तः ज्ञानमेव मुक्त्यङ्गतयाऽङ्गीकुर्वन्त इत्यर्थः / / 10 // न चित्तातायए भासा, कुओ विशाणुसासणं। विसन्ना पावकम्मे हिं, वाला पण्डियमाणिणो ||11|| पण्डितमानिनः आत्मानं पण्डितं मन्यन्ते इति पण्डितम्मन्याः ज्ञानाह-- ङ्कारधारिण इति जानन्तीत्यध्याहारः / इतीति किं ? चित्राः प्राकृतसंस्कृताद्याः षट् भाषाः। अथ वा अन्या अपि देशविशेषात् नानारूपा भाषा वा पापेभ्यो दुःखेभ्यो न त्रायन्ते न रक्षन्ति / तर्हि विद्यानां न्यायमीमांसादीनाम् अनुशासनमनुशिक्षणं विद्यानुशासनं कुतःत्रायते?, न त्रायते इत्यर्थः / अथ वा-विद्यानां विचित्रमन्त्रात्मिकानां रोहिणी. प्रज्ञप्तिकागौरीगान्धार्यादिषोडशविद्यादेव्यधिष्ठितानामनुशासनम् अनुशिक्षणम् आराधनं कुतो नरकात्त्रायते ? कीसदृशास्ते ? बाला अतत्वज्ञाः। पुनः कीदृशास्ते? पापकर्मभिर्विषण्णाः, विविधमनेकप्रकार यथा स्यात्तथा सन्नाः, पापपङ्केषु कलिता इत्यर्थः / / 11 / / जे केई सरीरे सत्ता, वन्ने रूवे य सव्वसो। मणसा कायवक्केणं, सय्वे ते दुक्खसम्भवा / / 12 / /
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy