________________ खित्तचित्त ७४५-अभिधानराजेन्द्रः भाग-३ खित्तचित्त रायत्ततया यतो द्वे अपितुल्ये ततो न किञ्चिद्वैषम्यम्।पर आह-नत्वया / अत्र को पचयचिन्तायां किश्चिदपि मनागपि विशेषितं येन | जीवपरिगृहीतत्वेऽप्येकत्र कर्मोपचयो भवत्येकत्र नेति / प्रतिपाद्यमाह- | आचार्यो भणति ब्रूते श्रृणु भण्यमानविशेषम्। तमेवाहनणु सो चेव विसेसो,जं एगमचेयणं सचित्तेयं / जह चेयणे विसेसो, तह भणमु इमं निसामेह। ननु स एव च यन्त्रनर्तकी स्वाभाविकनर्तकदृष्टान्ततस्ततो विशेष एवं शरीरं जीवपरिगृहीतमपि परायत्ततया चेष्टमानमचेतनमेकं स्वायत्ततया | प्रवृत्तेः सचित्तं सचेतनमिति / पर आह-यथैष चेतने विशेषो निस्सन्दिग्धप्रतिपत्तिविषयो भवति। तथा भणतः प्रतिपादयतः। आचार्य आह-तत इदं वक्ष्यमाणं निशमय आकर्णय। तदेवाहजो पल्लितो परेणं, हेऊ वसहस्स होइ कायाणं / तत्थ न दोसं इच्छसि, लोगेण समं तहा तं च / / यः परेण प्रेरितः स च कायादीनां पृथिव्यादीनां व्यसनस्य सट्टनपरितापनादिरूपस्य हेतुः कारणं भवति / तत्र तस्मिन् परेण प्रेरिततया कायव्यसनहेतो त्वं दोषमिच्छसि। अनात्मवंशतया प्रवृत्तेः। कथं पुनर्दोषं नेच्छसि ? इत्यत आह-लोकेन समं लोके तथादर्शन मित्यर्थः / तथाहि-लोको यो यत्राऽनात्मवशतया प्रवर्तते तं तत्र निर्दोषमभिमन्यते / ततो लोके तथादर्शनतस्तमपि कायव्यसनहेतुं निर्दोषमभिमन्यताम् / यथा च तं निर्दोषमिच्छसि / तथा तमपि च क्षिप्तचित्तं निर्दोषं पश्य तस्यापि परायत्ततया तथारूपासु चेष्टासु प्रवृत्तेः। एतदेव सविशेषं भावयतिपासंतो वि य काए, अपञ्चलो अप्पगं वि धारेउं / जह पेल्लितो अदोसो, एमेवमिमं पिपासामो॥ यथा परेण प्रेरितः आत्मानं विधारयितुं संस्थापयितुमप्रत्यलोऽसमर्थः सन्पश्यन्नपि कायान् पृथिवीकायिकादीन् विराधयन्। अन्निकापुत्राचार्य इव, अदोषो निर्दोषः / एवमेव अनेनैव प्रकारेण परायत्ततया प्रवृत्तिलक्षणेन इममपि क्षिप्तचित्तमदोषं पश्यामः / इह पूर्व प्रगुणीभूतस्य प्रायश्चित्तदानविषये त्रय आदेशा गुरुकादय उक्तास्ततस्तानेव गुरुकादीन् प्ररूपयतिगुरुगो गुरुगतरागो, अहागुरूगो य होइ ववहारो। लहुओ लहुयतरागो, अहालहूगो य होइ ववहारो॥ लहुसो लहुसतरागो, अहालहूसो य होइ ववहारो। एएसिंपच्छित्तं, दुच्छामि अहाणुपुथ्वीए।। व्यवहारास्विविधः। तद्यथा-गुरुकः,गुरुतरकः, यथागुरुकचा लघुकः, लघुतरकः, यथालघुकश्च / लघुस्वः, लघुस्वतरकः, यथालघुस्वश्च। एतेषां व्यवहाराणां यथानुपूर्व्या यथोक्तपरिपाट्या प्रायश्चित्तं वक्ष्यामि। किमुक्तं भवति? एतेषु व्यवहारेषु समुपस्थितेषु यथापरिपाट्या प्रायश्चित्तपरिमाणभिधास्ये। गुरुकादिव्यवहारप्रायश्चित्तमाह गुरुगो य होइमासो, गुरुगतरागो य होइ चउमासो। अहगुरुगो छम्मासो, गुरुगपक्खम्मि पडिवत्ती॥ गुरुको नाम व्यवहारो मासः मासपरिणामः, गुरुके व्यवहारे समापतिते एकः मासः प्रायश्चित्तं दातव्यमिति भावः / एवं गुरुतरको भवेति चतुर्मासपरिमाणः / यथागुरुकः षण्मासः, षण्मासपरिमाणः / एषा गुरुकपो, गुरुके व्यवहारे त्रिविधेऽपि यथाक्रमं प्रायश्चित्तप्रतिपत्तिः। अथ लघुकादिव्यवहारप्रायश्चित्तमाहतीसा य पण्णवीसा य, वीसा पण्णरसे वय। दस पंचय दिवसाई,लहुसगपक्खम्मि पडिवत्ती।। लघुको व्यवहारः त्रिंशदिवसपरिमाणः / एवं लघुतरकः पञ्चविंशतिदिनमानः / यथालघुको विंशतिदिनमानः / एषा लघुकव्यवहारे त्रिविधे यथाक्रमं प्रतिपत्तिः / लघुस्वकः पञ्चदशदिवसप्रायचित्तपरिमाणः / एवं लघुस्वतरकः दशदिवसमानः / यथालधुस्वकः पञ्चदिवसप्रायश्चित्तपरिमाणः एषा लघुस्वकव्यवहारपक्षे प्रायश्चित्तप्रतिपत्तिः। अथ कं व्यवहार केन तपसा परिपूरयति? इति प्रतिपादनार्थमाहगुरुगं चअहमं खलु, गुरुगतराग व होइ दसमं तु। अहगुरुगदुवालसम, गुरुगगपक्खम्मि पडिवत्ती।। गुरुकं व्यवहारं मासपरिमाणम्, अष्टमं कुर्वन् पूरयति गुरुकं व्यवहार मासपरिमाणमष्टमेन वहति / यथा-गुरुतरकं चतुर्मासप्रमाणं व्यवहार दशमं कुर्वन् पूरयति दशमेनवहतीत्यर्थः / यथागुरुकं कुर्वन्द्वादशे(शमे) नेत्यर्थः / एषा गुरुकपक्षे गुरुकव्यवहारपूरणविषये प्रतिपत्तिः। छटुंच चउत्थं वा, आयंविलएगठाणपुरिमध्द। . निव्वायं दायव्वं, अहलहुस्सम्मि सुद्धो वा / / लघुकं व्यवहारं त्रिंशद्विनपरिमाणं षष्ठं कुर्वन् पूरयति / लघुतरकं पञ्चविंशतिदिवसपरिमाणव्यवहारं चतुर्थं कुर्वन् / यथालघुकव्यवहार विंशतिदिनमानम् आचाम्लं कुर्वन् / एषा लघुकत्रिविधव्यवहारपूरणे तपःप्रतिपत्तिः / तथा-लघुस्वकं व्यवहारं पञ्चदशदिवसपरिमाणम्, एकस्थानकं कुर्वन् पूरयति। लघुस्वकतरकव्यवहारं दशदिवसपरिमाण पूर्वार्द्धक कुर्वन् / यथालघुस्वकव्यवहारं पञ्चदिनपरिमाणं निर्विकृतिक कुर्वन्पूरयति / तत एतेषु गुरुकादिषु व्यवहारेषु अनेनैव क्रमेण तपो दातव्यम् / यदि वा लघुस्वके व्यवहारे प्रस्थापयितव्ये सप्रतिपन्नव्यवहारतपःप्रायश्चित्तम् एवमेवालोचनाप्रदानमात्रतः शुद्धः क्रियते / व्य० 2 उ०। सूत्रम्-खित्तचित्तं निग्गंथिं निग्गंथे गिण्हमाणे वा अवलंवमाणे वा नाइक्कमइ। अस्य सूत्रस्य संबन्धमाहउदुज्झंती व भया, संफासा रागतो व खिप्पेजा।। संबंधविहिण्णा ते, वदंति संबंधमेयं तु। पानीयेनापोह माना षा भयात् क्षिप्येत क्षिप्तचित्ता भवेदित्यर्थः / यद्वा संस्पर्शतो यो राग उत्पद्यते तस्माद्वा / तत्र साधौ अन्यत्र गते सति क्षिप्तचित्ता भवेत् / अथ क्षिप्तचित्ततासूत्रमारभ्यते एवं संबन्धार्थ विधिज्ञाः सूरयोऽत्र सूत्रे एन संबन्ध वदन्ति