SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ खओवसमिय ६९०-अभिधानराजेन्द्रः भाग-३ खओवसमिय 7 उ०। कर्मे 0 / उदीर्णस्यांशस्य क्षयोऽउदीर्णस्यांशस्य विपाकमाधिकृत्योपशमः क्षयोशमः / प्रव० 221 द्वार। स एव क्षायोशमिकः। क्रियामात्रे भावभेदे, क्षयोपशमेन वा निर्वृतः क्षायोपशमिकः / भ०७ श०१४ उ०। क्षयोपशमसंपाद्ये मतिज्ञानादिलब्धिरूपे आत्मनः परिणामविशिषे मिथ्यात्वमोहनीयादिकर्मविगमविशेषविहितात्मपरिणामे, पञ्चा० 3 विव०। भावभेदे, प्रव० 87 द्वार। सूत्र० / अनु०।। "ओहीखओवसमिए, भावे भणिओ भवो तहोदइए। तो किह भवपच्चइओ, वोत्तुं जुत्तोऽवही दोण्हं" ||1|| इति / यतः"उदयक्खओवसमओ, व समाजं च कम्मुणो भणिया। दव्वं खेत्तं कालं, भवं च भावं च संपप्प" ||1|| तथा तदावरणस्य क्षयोपशमे भवं क्षायोपशमिकमिति। स्था०। "दोण्हं खओवसमिए पण्णत्ते / तं जहा-मणुस्साणं चेव, पंचिंदियातिरिक्खजोणियाणं चेव।" स्था०२ ठा०१ उ० / कर्म०। पं० सं०। आ० म० / "खओवसमितो णाम तस्स कम्मस्स सव्वघातिड्डगाणं' उदयक्षयात् तेषामेव सदुपशमात् देशघातिफडुगाणं उदयात् खतोवसमितिभावो भवति औपशमिकादस्य भेदः / आ० चू० 1 अ०। "से केणडेणं भंते ! एवं वुच्चइ संठाणतुल्लए? संठणतुल्लए गोयमा ! परिमंडलसंठाणे' भ०७ श० 14 उ०। क्षायोपशमिकभेदानाह - से किं तं खओवसमिए ? खओवसमिए दुविहे पण्णत्ते / तं जहा-खओवसमिए खओवसमनिप्पण्णे य / से किं तं खओवसमे? खओवसमे चउण्हं घाइकम्माणं खओवसमेणं तं जहा–णाणावरणिज्जस्स दंसणावरणिज्जस्स मोहणिज्जस्स अंतरायस्स, सेत्तं खओवसमे। असावपि द्विरूपः क्षयोपशमस्तन्निष्पन्नश्च / तत्र विवक्षितज्ञानादिगुणविधातकस्य कर्मण उदयप्राप्तस्य क्षयः सर्वथाऽपगमः, अनुदीर्णस्य तु | तस्यैवोपशमो विपाकत उदयाभाव इत्यर्थः। ततश्च क्षयोपलक्षित उपशमः क्षयोपशमः / ननु चोपशमिकेऽपि यदुदयप्राप्तं तत्सर्वथा क्षीणं शेषं तु न क्षीणं नाप्युदयप्राप्तमतस्तस्योपशम उच्यते इत्यनयोः कः प्रतिविशेषः ? उच्यते-क्षयोपशमावस्थे कर्मणि विपाकत एवोदयो नास्ति प्रदेशतोऽस्त्येव, उपशान्तावस्थायां तु प्रदेशतोऽपि नास्त्युदय इत्येतावाता विशेषः / तत्र चतुर्णा घातिकर्मणां केवलज्ञानप्रतिबन्धकानां ज्ञानावरणदर्शनावरणमोहनीयान्तरायाणां यः क्षयोपशमः स क्षयोपशमरूपः क्षायोपशमिको भावः / णामिति पूर्ववत् 'तद्यथेत्यादिना'" स्वत एवं घातिकर्माणि विवृणोति, शेषकर्मणां तु क्षायोपशमो नास्त्येव, निषिद्धत्यात्। "सेत्तमित्यादि" निगमनम् / तेन च क्षायोपशमेनोक्तस्वरूपेण निष्पन्नः क्षयोपशामिको भावोऽनेकधा भवति / तमाह(खाओवसमिया आभिनिवोहयनाणलद्धीत्यादि) आभिनिवोधिकज्ञानं मतिज्ञानं तस्य लब्धिर्योग्यता स्वस्वावरणकर्मक्षयोपशम - साध्य गत् क्षयोपशामिकी, एवं वक्तव्यं यावन्मनः पर्यायज्ञान-लब्धिः। केवलज्ञानलब्धिस्तु स्वस्वावरकर्मणः क्षय एवोत्पद्यत इति नेहोक्ता।। कुत्सितं ज्ञानमज्ञानं, मतिरेव अज्ञानं मत्यज्ञानम् / कुत्सितत्वं चेह मिथ्यादर्शनोदयदूषितश्वाद् दृष्टव्यम्। दृष्टा च कुत्सार्थे नञो वृत्तिर्यथाकुत्सितं शीलमशीलमिति / मत्यज्ञानस्य लब्धिर्योग्यता, साऽपि स्वावरणक्षयोपशमेनैव निष्पद्यते। एवं श्रुताज्ञामलब्धिरपि वाच्या। भङ्गः प्रकारो, भेद इत्यर्थः / स चेह प्रकमादवधिरेव गृह्यते विरूपः कुत्सितो भङ्गो विभङ्गः, स एवार्थे परिज्ञानात्मकत्वात् ज्ञानं विभङ्गज्ञानं, मिथ्यादृष्टिदेवादेरवाधिर्वि भङ्गज्ञानमुच्यते इत्यर्थः / इह च विशब्देनैव कुत्सितार्थप्रतीतेन नो निर्देशः तस्य लब्धिर्योग्यता, साऽपि स्वावरणक्षयोपशमेनैव पादुरस्ति, एवं मिथ्यात्वादिकर्मणः क्षयोपशमसाध्या शेषा अपि सम्यग्दर्शनादिलब्धयो यथासम्भव भावनीयाः, नवरं बाला अविरताः पण्डिताः साधवः, बालपण्डितास्तु देशविरताः, तेषां यथा स्ववीर्यलब्धिर्वीर्यान्तरायकर्मक्षयोपशमाद्भावनीया, इन्द्रियाणि चेह लब्ध्युपयोगरूपाणि भावेन्द्रियाणि गृह्यन्ते, तेषां चलब्धिर्योग्यता मतिश्रुतज्ञानचक्षुरचक्षुर्दर्शनावरणक्षयोपशमत्वात् क्षायोपशमिकीति भावनीयम्। आचारधरत्वादिपर्यायाणां च श्रुतज्ञानप्रभवत्वात्तस्य च तदावरणकर्मक्षयोपशमसाध्यात्वादाचारधरादिशब्दा इह पठ्यन्ते इति प्रतिपत्तव्यम्। 'श्वेतमित्यादि' निगमनद्वयम् / से किं तं खओवसमनिप्पण्णे ? खओवसमनिप्पण्णे अणेगविहे पण्णत्ते / तं जहा-खओवसमिआ आभिणदोहिअणाणलद्धी, जाव खओवसमिआ मणपज्जवणाणलद्धी, खओवसमिआ मतिअण्णाणलद्धी, खओवसमिआ सुअअण्णाणलद्धी, खओवसमिआ विभंगणाणलद्धी, खओवसमिआ चक्खुदंसणलद्धी, अचक्खुदंसणलद्धी, ओहिदसणलद्धी, एवं सम्मदंसणलद्धी, मिच्छादसणलद्धी, सम्ममिच्छादसणलद्धी, खओवसमिआ सामाइअचरित्तलद्धी, एवं छेदोवठ्ठावणलद्धी, परिहारविसुद्धिअलद्धी, सुहमसंपरायचरित्तलद्धी, एवं चरित्ताचरित्तलद्धी,खओवसमिआ दाणलद्धी, एवं लाभभोगउवभोगलद्धी, खओवसमिआ वीरिअलद्धी, एवं पंडिअवीरिअलद्धी, बलवीरिअलद्धी, वालपंडिअवीरिअलद्धी, खओवसमिआ सोइंदिअलद्धी० जाव खओवसमिआ फासिंदि अलद्धी, खओवसमिआ आयारंगधरे, एवं सूअगडांगधरे ठाणंगधरे समवयांगधरे चेव, विवाहपणत्ती नायाधम्मकहा उवासगदसा अंतगडदसा अणुत्तरोववाइअदसा पण्हवागरणधरे विवागसुअधरे खओवसमिए दिट्ठवायधरेखओवसमिए० णवपुव्वीखओवसमिएक जाव चउद्दस पुव्वी खओवसमिए गणी वायए खओवसमिए, सेत्तं खओवसमनिप्पन्ने, सेत्तं खओवसमिए। अनु०। अधुना क्षायोपशमिकभावभेदानष्टादशसंख्यानाह - चउणाणमणाणातिगं, दसणतिग पंचदानलद्धीओ। सम्मत्तं चारित्तं,च संजमासंजमो तइए।।३।। चत्वारि ज्ञानानि मतिश्रुतावधिम नः पर्यायरूपाणि, अज्ञानत्रिक मतिश्रुताज्ञानविभङ्गरूप, दर्शनत्रिकं चक्षुरचक्षुरवधिदर्शन - स्वभावं, पञ्चेतिसंख्या दानेनोपलक्षिता लब्धयो दानलब्धयो
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy