SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ एगावाइ 37- अभिधानराजेन्द्रः - भाग 3 एगावाइ कस्मात्पुनः परिकल्पिता एते न सन्तीत्युच्यते परिकल्पनाया एवाभावादित्याह। परिकल्पनाऽपि चैषा, हन्त विकल्पात्मिका न संभवति। तन्मात्र एव तत्वे, यदि वा भावो न जात्वस्याः / / 10 / / परिकल्पनाऽपि च एषा बाह्यान्तराणामर्थानां हन्त ! विकल्पा-त्मिका वस्तुशून्यनिश्चयात्मिका न संभवति न युज्यते निर्वीजत्वात्। युक्तिमाह तन्मात्र एव पुरुषमात्र एवज्ञानमात्रम्। एवं च तत्वेतदतिरेकेणेतरपदार्थाभावात्। अभ्युपगम्यं परिकल्पना-दूषणान्तरमाह। यदिवा भावोऽसंभवो न नैव जातु कदाचिदप्यस्याः परिकल्पनाया यदि निर्वीजापीयं बाह्यन्तरपदार्थपरिकल्पनेष्यते ततः संसारवन्मुक्ताव पि भवेदियमिति भावस्ततश्च संसारमोक्ष-भेदानुपपत्तिः परिकल्पनावीजसद्भावाभ्युपगमे तु पुरुषबोध-स्वलक्षणत्र्यतिरिक्तवस्त्वन्तरापत्त्या प्रस्तुताद्वैतपक्षद्वयहानिः षो०१६ विव०। (सम्मतावपिशुद्धद्रव्यास्तिकनयमतमधिकृत्य विस्तरेणाद्वैतमतं निरूपितं विस्तरभयान्नास्माभिर्लिख्यते तत्तु तत एवावधार्यम) तत्र नयोपदेशे तथा॥ जातं द्रव्यास्तिकाच्छुद्धा-दर्शनं ब्रह्मवादिनाम्। तत्रके शब्दसन्मात्रं, चित्सन्मानं परे जगुः / / 110 / / शुद्धात् द्रव्यास्तिकात् ब्रह्मवादिनां दर्शनं जातं तदाह "वादीदव्वट्ठियणयपयडीसुद्धासंगहपरूवणाविसओ ति" तत्रैके ब्रह्म-वादिनः शब्दसन्मात्रमिच्छन्ति अन्ये च चित्सन्मात्रम् / तत्राद्यमतावलम्बीशब्दस्वभावं ब्रह्म सर्वेषां शब्दानां सर्वेषां चार्थानां प्रकृतिरित्यभ्युपैति तदाह तदभियुक्तो भर्तृहरिः। "अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् / बिवर्ततेऽर्थभावेन प्रक्रिया जगतो यत" इति / अस्यार्थः आदिरुत्पादो निधं विनाशस्तदभा-वादनादिनिधनं ब्रह्मशब्दतत्त्वं शब्दात्मकं वैखर्यात्मशब्देनै वस!ल्लेखान्मध्यमाख्यशब्दसंमृष्टसविकल्पकज्ञानेनैव सर्वार्थग्रहणात् पश्यन्त्याख्यशुद्धशब्दात्मकज्ञानेनैव चाखण्डै-कस्वरूपनिश्चयात् सर्वत्रानुस्यूतत्वात्। सर्वो पादानत्वाच शब्दतत्त्वमखण्ड ब्रह्मेत्यर्थः / एतदेवाह / "यदक्षरमकारादि' एतेनाभिधानरूपो विवर्तो दर्शितः / तथा यतो जगतः प्रक्रिया प्रतिनियता व्यवस्था भेदानां संकीर्तनमेतदिति। अयंच वर्णक्रम-रूपो वेदस्तदधिगमोपायः प्रतिच्छे दकन्यायेन तस्यावस्थितत्वात् / तच परमब्रह्माभ्युदयनिःश्रेयसफलधर्मानुगृहीतान्तःकरणैरव-गम्यते / अन्यैस्तु प्रयोगादवगम्यते शब्द एव जगतस्तत्त्वं तद्वाधेऽप्यवाध्यमानत्वादहोरात्रवत् ग्रामारामादयः शब्दात्मका-स्तदाकारानुस्यूतत्वात् सुवर्णात्मककुण्डलादित्यादितः शब्द-ब्रह्मसाम्राज्यसिद्धेः / न च प्रमाणाधीना प्रमेयव्यवस्था प्रमाणं च चिदात्मकमेवानुभूयत इति तत्र शब्दरूपत्वासिद्धिनिराकारस्य ज्ञानस्यार्थाग्राहकत्वेन व्यवहारेऽनाश्रयणीयत्वात् साकारस्य च तस्य वागूपतां बिनाऽसंभवात्तदुक्तं "वाग्रूपता चेह्युत्क्रामेदव-बोधस्य शास्वती / स्यादशाश्वतीन प्रकाशेत् सा हि प्रत्यवमर्शि-नीति 1 अत एव शब्दार्थसंबन्धो वैयाकरणैरभेदेनैव प्रतिपादितः / युक्तं चैतत्कथमन्यथाऽदृष्ट दशरथादीनामिदानींतनानां दशरथादिपदाच्छाब्दबोधः शुद्धधशरथत्वादिनोपस्थितेस्तत्रासंभवनीय-त्वात् तथापूर्वकनुभवा भावात्प्रमेयत्वादिना दशरथत्वादि-प्रकारकोपस्थिती च ततः प्रमेयवानित्याकारकबोधस्यैव संभवात्, न च प्रमेय वानित्याकारकसंस्कारात् प्रमेयत्वांशे उद्गोधकरहिता शुद्धदशरथत्वादिप्रकारकस्मरणोपपत्तिः तत्प्रकारकस्मृतौ तत्प्रकारकानुभवत्वेनैव हेतुत्वादिति वाच्यमन्वयव्यतिरेकाभ्यां शुद्धतत्प्रकारकस्मृति प्रति शुद्धतप्रकारकानुभवत्वेनैव हेतुत्व-सिद्धेर्न च प्रमेयाभाववदित्यादिज्ञानात्संसर्गविधया शुद्धदशरथत्वादिस्वरूपप्रतियोगितत्वलक्षणसंबन्धविषयकात् ज्ञानलक्षणप्रत्त्यासत्तेः शुद्धदशरथत्वादिप्रकारको मानसानुभवः सुलभः सर्वाज्ञापत्तिभिया सांसर्गिकज्ञानस्यानुपनायकत्वस्वीकारात् तस्मादत्र दशरथपदवाच्यत्वं भवति दशरथपदवृत्तिप्रकारकज्ञानात्। यथा दशरथपदवाच्यत्वेन वाच्यत्वा-संबन्धेन दशरथपदत्वेन वा शाब्दबोधः स्वीकर्तव्यस्तथा तुल्यन्यायात्सर्वत्रापीति शब्दानुभवोऽप्यर्थस्य शब्दात्मक एव साक्षीति / न चानवगतचित्तोऽपि रूपं चक्षुषा वीक्षमाणोऽभिलापासंसृष्टमेव विषयीकरोतीति नीलादेरशब्दात्मकत्व-सिद्धिः शब्दासंसृष्टार्थानुभवस्य ज्ञानवादिना ज्ञानाभावकाल इव शब्दवादिना शब्दाभावकाले बाह्यार्थस्येवानभ्युपगमेन शब्दातिरिक्तग्राह्यासिद्धेबर्बाह्यत्वनियतदेशवृत्तित्वादिव घटादावविद्यावशादेव भासत इति न तत्तदाकारैः शब्दब्रह्यभेदसिद्धिस्तदुक्तम् / "यथा विशुद्धमाकाशं, तिमिरोपप्लुतो जनः / संकीर्णमिव मात्राभिश्चित्राभिरभिमन्यते / तथेदममलं ब्रह्म, निर्विकल्पमविद्यया / कलुषत्वमिवापन्नं भेदरूपं विवर्त्तत" इति यदि वा ग्रामारामादिप्रपञ्चो व्यवहारः सत्यः स्वीक्रियते स्वार्थिकवैलक्षण्यानुभवात्तदाऽविद्या सहितं शब्दब्रह्मैव तदुपादानं वाच्यम् / अद्वैतशास्त्रेणाविद्यानिवृत्तौ च तन्मूलप्रपञ्चविगमे शुद्ध शब्द ब्रह्मेवावशिष्यते स एव मोक्ष इति निरवधं केवलं तस्य शब्दा-त्मकत्वे शुद्धशब्दत्वादिधर्मवत्वं निर्द्धर्मकत्वेऽप्यसदा दिव्यावृत्तिवदशब्दादिव्यावृत्तौ चोपपत्तिरिति संक्षेपः 11 / द्वितीयमतावलम्बिनो वेदान्तिनस्तन्मते अखण्डमद्वितीयमानन्द-ऐकरूपं स्वप्रकाशं चैतन्यमेव जगतः स्वरूपमनिर्वचनीयस्यैव सर्पस्य रज्जुः / कथं तर्हि जीवेश्वरविभाग इति चेदज्ञानरूपादुपाधेः यथा टेकस्यैव मुखस्य दर्पणोपाधिसंबन्धादिम्बप्रतिबिम्बभावः एवं चिन्मात्रस्योक्तोपाधिसंबन्धाजीवेश्वरभावो न तत्वान्तरमस्ति अज्ञानं त्वनाद्यनिर्वचनीयमायाविद्यादिशब्दाभिधेयं तचकेनैवोपपत्तावनेककल्पनानवकाशादेकमेवेत्येके बद्धमुक्तव्यवस्थानिरूपणाय-मानमित्यन्ते तदवस्थाऽतिमूलाज्ञानानि व्यवहारसौकर्याय निरूपयन्ति / तत्रैव मायाविद्याशब्दद्वयनिमित्तं शक्तिद्वयं विक्षेपशक्तिरावरणशक्तिश्च / कार्यजननशक्तिर्विक्षेपशक्तिस्तिरोधानशक्तिरावरणशक्तिर्यथाऽवस्थारूपस्य रज्जुज्ञानस्य सर्पजननशक्ती रज्जुतिरोधानशक्तिश्च / एवं मूलाज्ञानस्वाद्वितीयपूर्णानन्दैकरसचिदावरणशक्तिराकाशादिप्रपञ्चजनन-शक्तिश्चेति / निवृत्तेचाज्ञाने तन्निमित्ते च जीवेश्वरादिप्रपञ्चे चिन्मात्रमेव शिष्यते। जीवस्त्वज्ञानप्रति बिम्बितं चैतन्यमिति विचारणाचार्याः / रूपं रूपं प्रतिरूपो बभूवेति'' श्रुतेः। "एकधा बहुधाचैव दृश्यतेजलचन्द्रवदिति" स्मृतेश्च। नचामूर्तस्य प्रतिबिम्बाभावः शक्योवतुममूर्तानामपि रूपपरिमाणादीनां गुणानामादर्शमूर्त्तद्रव्य-स्यापि प्रभूतक्षेत्राकाशस्य जानुमात्रे जले विशालरूपेण प्रतिबिम्ब-दर्शनात् प्रतिबिम्बस्यापिच चिद्रूपत्वं प्रत्यक्षशास्त्राभ्यां सिद्धम् / न च घटादिविच्छिन्नाकाशवदविद्यावच्छिन्नं चैतन्यमेव जीवोऽस्तु किं प्रतिबिम्बत्वेनेति वाच्यं तथा सति जीवभावेनावच्छिन्नस्य पुण्यावच्छेदान्तरायोगाद्घटाकाशादौ तथा दर्शनाद्ब्रह्मणः सर्व
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy