________________ काल 451 - अभिधानराजेन्द्रः - भाग 3 काल चन्द्र इव विमलं प्रतिपूर्ण सौम्यं वदनं यस्याः सा तथा / "कुंमलुल्लिडियगंडलेहा'' कुण्डलाभ्यामुल्लिखिता घृष्टा गण्डलेखा कपोलविरचितमृगमदादिरेखा यस्थाः सा तथा। "सिंगारागारचारुवेसा' शृङ्गारस्य रसविशेषस्यागारमि-वागारम्, तथा चारुवेषो नेपथ्यं यस्याः सा तथा / ततः कर्मधारायः / काली नाम देवी श्रेणिकस्य भार्या, सा कूणिकस्य राज्ञछुल्लजननी लघुमाताऽभवत् / सा च काली देवी "सेणियस्स रन्नो इट्ठा वल्लभा" कान्ता काम्यत्वात्, प्रिया सदाप्रेमविषत्वात् / 'मणुन्ना' सुन्दरत्वात्, नामधेया, प्रशस्तनामधेयवतीत्यर्थः / नाम चाधार्यवह हृदि धरणीयं यस्याः सा तथा / "वेयासिया'' विश्वसनीयत्वात् / "सम्मया' तत्कृतकार्यस्य संमतत्वात्। बहुतो बहुशो बहुभ्यो वाऽन्येभ्यः सकाशात् बहुमानपात्रंच 'अणुमया' विप्रियकरणस्यापि यश्चात्मना अनुमता "भंडकरंडकसमाणा' आभरणकरण्डकसमाना उपादेयत्वात् सुसंरक्षितत्वाच "तेलकेल इव सुसंगोविया'' तिलकेलः सौराष्ट्रप्रसिद्धो मृन्मयस्तैलस्य भाजनविशेषः / स च भङ्ग भयाल्लेखनभयाच सुष्ठ सगोप्यते, एवं सापि तथोपच्यते।''वेलापेडाइसुसंपग्गहिया'' वस्त्रमञ्जूषेवेत्यर्थः / "सा काली देवी सेणिएणं सद्धिं विउलाई भोगभोगाई भुंजमाणी विहरइ"। कालानामा च तत्पुत्रः। "सुखमालपाणिपाए" इत्यादि प्रागुक्तवर्णकोपेतो वाच्यः, यावत् "पासाइए दरिसणिज्जे अभिरूवे पडिरूवे" इति पर्यन्तः / सेणियस्स रन्नो दुवे रयणा अट्ठारसं च कोहा सेयणगहत्थीए, तत्थ किरि सेणियस्स रन्नो जावइयं रजस्स मुल्लं, तावइयं देवविन्नहारस्स सेयणगस्य य गंधहत्थिस्स, तत्थ हारस्सय उप्पत्तीपत्थावे कहिजिस्सइ, कूणियस्स य एत्थो व उप्पत्तीवित्थरेण भणिस्सइ' तत्कार्येण कालादीनां मरणसंभवादारभ्य संग्रामतो नरकयोग्यकर्मोपचयविधानात्, नवरं कूणिकस्तदा कालादिदशकुमारान्वितश्चम्पायां राज्यं चकार / सर्वेऽपि च ते दोगुंदुकदेव इव कामभोगपरायणास्त्रयस्त्रिंशाख्या देवाः "फुट्टमाणेहि मुईगमत्थएहिं वरतरुणिसस्थिणिहिएहिं वत्तीसवर्द्धानबद्धेहिं नाडएहिं उवगिज्जमाणा भेगाभोगाई भुंजमाणा विहरति, हल्लवेहल्लनामाणो कूणियस्स चिल्लणादेवीअंगजया दो भायरा अत्थि। अहुणा हारस्स उपपत्ती भन्नइइत्थ सक्कोसेणिपस्स भगवंतं पइ निचजभत्तिस्स य पसंसं करेइ। तओ से दूयस्स जाव देवो तभत्तिरंजिओ सेणियस्स तुट्ठो संतो अट्ठारसर्वकं हार देइ। दोन्नि य वट्टगोलगे देइ। सेणिए णं सो हारो चेल्लणाए दिण्णो पिओ ति काउं, वट्टदुगुनंदाए अभयसंतिजणणीए ताए रुवाए किं अह चेडरूवं किं ति काउं अत्थोडियभग्गा, तत्थ एगम्मि कुंडलं एगम्मि वत्थजुयलं उठाए गहियाणि। अन्नया अभयो सामीपुच्छए को अपच्छिमो रायसिरि ति? सामी उद्दायिणो वागरिओ। अओ परंवद्धमउडानपव्वयंति। ताहे अभएणं रजं दिजमाणं न इच्छियंति। पच्छा सेणिओ चिंतेइ-कोणियस्स दिजिहि त्ति / हल्लस्स हत्थी दिन्नो सेयणगो, वेहलस्स देवदिन्नो हारो, अभएणं विपव्वयंतेन सुनंदाए छोमजुयलं कुंडलजुयलं च हल्लवेहल्लाणं दिन्नाणि, महया विहवेण उभयो नियजणणीसमेओ पव्यइओ सेणियस्स चेल्लणा देवी अंगसमुभूया तिन्नि पुत्ता-कूणिओ हल्लवेहल्ला य / कुणियस्स उत्पत्ती इत्थेव भणिस्सइ / काली महाकालीपमुहदेवीणं अन्नेसिं तणया सेणियस्स बहवे पुत्ता कालप्पमुहा संति / अभयम्मि गहियव्वए अन्नया कोणिओ कालाईहिं दसाहिं कुमारोहिं समं मंतेइसेणियसत्थं विग्घकारयं बंधित्ता एक्कारस भाए रजं करेमो ति / तेहि पडिसुयं / सेणिओ वदो। पुव्वन्हे अवरन्हे यकससयं दवावेइ। सेणियस्स कुणिओ पुष्वभववेरियत्तणेण चेल्लणाए कयाई भोयणं न देइ, भत्तं वारिय, पाणियं न देइ / ताहे चेल्लणा कहं वि कुम्मासे वालेहिं बंधित्ति सयारं च सुरपवेसेइ, सा किर धोव्वए सयवारे सुरा वाणियं सव्व होइ। तीए पहावेण से वेयणं न वेएइ / अन्नया तस्स पउमावईदेवीए पुत्तो एवं पिओ अत्थि। माया एसो भणिओ-दुरात्मन् ! तव अंगुली किमि एवं संतापियमुहे काऊण अच्छियाउ इयरहातो मरोवंतो चेव चिढेसु ताहे वित्तमणागु व संजायते, तुमए पिया एव वसणपाविओ तस्स आधई जाया। भुंजंतओ चेव उद्याय परसुहत्थो गओ। अन्ने भणंति-लोहडंड गहाय नियलाणि भंजामि त्ति पहाविओ रक्खवालगो तहण भणइ, एस पासो ण वा लोहदंडं परसुवा गहाय एय त्ति / सेणियेण चिंतियं न-नजइ केण कुमारेण मारेइ, तओ तालपुडगं वि संखइयं जाव एह ताव मओ, सुट्टयरं अधिई जाया। ताहे मयकिचं काऊण घरमागओ रजधुरामझतत्तीओतं चेव चिंततो अत्थई। एवं कालेणं वि सोगाचाओ पुणरवि सयणआसणाईए पेईसंतिए दवण अधिई होइ / तओ रायगिहाओ निग्गंतुं चंपं रायहाणिं करेई एवं चंपाए कूणिओ राया रज्जं करेइ, नियगभाए मुहसयणसंयोगओ" / इह निरयावलीयसुयक्खंधे कुणिकवक्तव्यता आदावुत्क्षिप्ता, तत्साहाय्यकरणप्रवृत्तानां कालादीनां कुमाराणां दशानामपि संग्रामे रथामुशलाख्ये प्रभूतजनक्षयकरणेन नरकयोग्यं कार्मेपार्जितम् / तत्संपादनान्नरकगमितया "निरियाउ त्ति' 'प्रथमाध्ययनस्य कालादीनां कुमारवक्तव्यता प्रतिबद्धस्य पत्तं नाम / अथ रथमुशलाख्यं सग्रामस्योप्तत्तौ किं निबन्धनम् ? अत्रोच्यते-एवं किलायं संग्रामः संजातः। चम्पायां कूणिको राजा राज्यं चकार, तस्य वा अनुजौ हल्लवेहिल्लाभिधानौ भ्रातरौ पितृदत्ततसेचनाभिधाने गन्धहस्तिनि समारूढौ दिव्यकुण्डलदिव्यहारविभूषितौ विलसन्तौ दृष्ट्वा पद्मावत्यभिधाना कूणिकराजस्य भार्या कदाचिद्दन्तिनोपहाराय तं कुणिकराज प्रति उक्तवती कर्णे विषोपमम्अयमेव कुमारो राजा तत्तो, न त्वं, यस्येदृशा विलासाः / प्रज्ञाप्यमानाऽपि सा न कथचिदस्यार्थस्योपरमिति। ततः प्रेरितकूणिकराजेनतौ याचितौ, तौ च तद्भयाद्वैशाल्यां नेया स्वकीयमातामहस्य चेटकाभिधानस्य राज्ञोऽन्तिक सहस्तिको सान्तःपुरपरिवारिता गतवन्तौ / कूणिकेन च दूतप्रेषणेन याचितौ, नच तेन प्रेषितौ, कुणिकस्य तयोश्च तुल्यमातृकत्वात्। ततः कूणिकेन भणितम्यदिनप्रेषयसि तदा युद्धसजो भव / तेनापि भणितम्-एष सजोऽस्मि ततः कूणिकेन सह कालादयो दश भिन्नमातृकाभ्रातरो राजानश्चेटकेन सह संग्रामान्यायाताः। तत्रैकै स्य त्रीणि त्रीणि हस्तिनां सहस्राणि / एवं रथानामश्वानां च मनुष्याणां च प्रत्येकं तिस्त्रस्तिस्रः कोटयः, कूणिकस्याप्येवमेव / तत्र एकादशभागीकृतराजस्य कू णिकस्य कालादिभिः सह निजेन एकादशांशेन संग्रामे काल उपगतः। एतमर्थं वक्तु माह-'तए णं से काले" इत्यादिना / एवं च व्यतिकरं ज्ञात्वा चेटके नाप्यष्टादश गणराजानो मीलिताः, तेषां चेटक स्य च प्रत्ये क मे वमेव हस्त्यदिबलपरिमाणम् / ततो युद्धं संप्रलनं चेटकस्य, राज्ञस्तु प्रतिपन्नतत्वेन दिनमध्ये एकमेव शरं मुशाति, अमोधवाणश्च सः। तत्र च कूणिक सैन्ये गरुडव्यूहः, चेटकसैन्ये सागरव्याहो विरचि