________________ कायकिलेस 446 - अभिधानराजेन्द्रः - भाग 3 कायजोग ताणा एगूणपण्णसा, समत्तं सरमंडलं॥१४॥ सत्तविहे कायकिले से पण्णत्ते / तं जहा-ठाणाइए उकुडुआसणिए पडिमट्ठाई वीरासणिए णेसज्जिए दंडायइए लगंडसाई॥२॥ स्थानायतिकः स्थानातिगः स्थानातिदो वा कायोत्सर्गकारी। इह च धर्मधर्मिणोर भेदादेवमुपन्यासः, अन्था कायक्लेशस्य प्रक्रान्तत्वात्स एव वाच्यः स्याद्, न तद्वान, इह तु तद्वानिर्दिष्ट इति / एवं सर्वत्रउत्कुटुकासनिकः प्रतीतः, तथा प्रतिमास्थायीति भिक्षुप्रतिमाकारी, वीरासनिको यः सिंहासने निविष्ट इवास्ते, नैषधिकः समपदयुतादिनिषद्योपवेशी, दण्डायतिकः प्रसारितदेहः, लगण्डसायी भूम्यलप्रपृष्ठः / स्था०७ ठा० भ०ा ग० आयावयंति गिम्हेसु, हेमंतेसु अवाउडा। वासासु पडिसंलीणा, संजया सप्तमाहिया।।१२।। आतापयन्ति ऊर्द्धस्थानादिना आतापनं। कृर्वन्ति ग्रीष्मेषूष्णकालेषु, तथा हेमन्तेषु, तथा शीतकालेष्वप्रावृता इति प्रावरणरहिता-स्तिष्ठन्ति / तथा वर्षासु वर्षकालेषु संलीना इत्येकाश्रयस्थ भवन्ति संयताः साधवः, सुसमाहिताः ज्ञानादिषु यत्नपराः। ग्रीष्मादिषु बहुवचनं प्रतिवर्षकरणज्ञापनारर्थमिति सूत्रार्थः। दश०३ अ० कायगुत्त त्रि०(कायगुप्त) कायगुप्त्या गुप्तः कायगुप्तः / उत्त०१२ अ०॥ असत्कायक्रियाविकले जितेन्द्रिये, "कायगुत्तो जिइंदिओ।" उत्त०१२ अ० कायगुत्तया स्त्री०(कायगुप्तया) कायस्याऽशुभष्यापाराद् गोपने, उत्त३६ अ01 अथ कायगुप्तेः फलं प्रश्नपूर्वकमाहकायगुत्ताएणं भंते ! जीवे किं जयणइ? कायगुत्तयाएणं सम्वरं जणयइ, संवरेणं कायगुत्ते पुणो पावासनवनिरोहं करेइ॥५५।। हे भदन्त ! कायगुप्ततया जीवः किं जनयति ? गुरुराह-हे शिष्य ! कायगुप्ततया जीवः सम्बरं जनयति, सम्बरेण गुप्तकायः पुनः पापाश्रवनिरोधं करोति। दश०२६ अ० कायगुत्ति स्त्री(कायगुप्ति) गमनागमनप्रचलनादानस्यन्दनादि-क्रियाणां गोपेन गुप्ति भेदे, उत्ता इदानीं कायगुप्तिमभिधातुमाहठाणे निसीयणे वा वि, तीव य तुयट्टणे। उल्लंघण पल्लंघण, इंदियाणं च जुंजणे / / संरंभसमारंभे, आरंभे य तहेव य। कायं पवत्तमाणं तु, नियंटेज जई जयं / / स्थाने ऊर्द्धस्थाने (निसीयणे त्ति) निषीदने उपवेशने / चः तयोरेव विचित्रभेदसमुच्चयार्थः / एवेति पूरणे। तथैव चत्वग्वर्तने शयने, उल्लङ्घने तथाविधनिमित्तत ऊर्द्धभूमिकाथुत्रमेण, गर्ताद्यतिक्रमेण च; प्रलङ्घने सामान्येन गभने। उभयत्र सूत्रत्वात् सुपोलुक्। इन्द्रियाणां च स्पर्शनादीनां (झुंजण त्ति) योजनं शब्दादिविषये व्यापारणं, तस्मिन् / सर्वत्र च वर्तमान इति शेषः / ततः स्थानादिषु वर्तमानः / संरम्भोऽभिघातो दृष्टिमुष्ट्यादिसंस्थानमेव संकल्पसूचकमुपचारात्संकल्पवाच्यं, तत्समारम्भः परितापकरो मुष्टयद्यभिघात्, ततः संरम्भश्च समारम्भश्च संरम्भसमारम्भं, तस्मिन्। आरम्भे प्राणिवधात्मनि कायं प्रवर्त्तमानं निवर्तयेत्। शेष प्रावदिति सूत्रार्थः / उत्त०२४ अ०॥ अथ कायगुप्तिरपि द्विधाचेष्टानिवृत्तिलक्षणा, यथागमं चेष्टानियमलक्षणा च / तत्र परीषमाहोपसर्गदिसंभवेऽपि यत्कायोत्सर्गकरणादिना कास्य निश्चलताकरण, सर्वयोगनिरोधावस्थायां वा सर्वथा यत्कायचेष्टानिरोधनं सा प्रथमा / गुरुमापृच्छ्य शरीरसंस्तारकभूम्यादिप्रतिलेखनाप्रमार्जनादिसमयोक्तक्रियालाप पुरस्सरं शयनासनादि साधुना विधेयं, ततः शयनासननिक्षेपादानादिषु स्वच्छन्दचेष्टापरिहारेण नियता या कायचेष्टा सा द्वितीयेति। उक्तं च “उपसर्गप्रसंगेऽपि, कायोत्सर्गजुषो मुनेः! स्थिरीभावः शरीरस्य, कायगुप्तिर्निगद्यते॥१॥ शयनासननिक्षेपा-दानसंक्रमणेषु च। स्थानेषु चेष्टानियमः, कायगुप्तिस्तु साऽपरा''|साध०३ अधिo दृष्टान्तः"प्रावृत्तः साधुरध्वानं, सार्थे वा वासिते कृचित्। पदमात्रं कथमपि शुद्ध स्थण्डिलमासदत्।।१।। स्थितस्तत्रैकपादेन, सर्वमपि विभावरीम्"आ०कol कायछक न०(कायषट्क) कायानां पृथिव्यादीनां षट्कं कायषट्कम्। षट् सु कायेषं सम्यगनुपालनविषयतयाऽनगारगुण भेदे, आव०४ अ०(तत्र यतना प्रथमभागे 246 पृष्ठे 'अट्ठारसट्ठाण' शब्दे क्ता) कायजोग पुं०(काययोग) औदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतितविशेषे, दर्श०। नं०। स्था०। प्रज्ञा०ा औ०। विशे० "नित्यालीनप्रलीनाङ्गः, कूर्मवद् मुनिपुङ्गवः / तिष्ठेत् प्रयोजनाभावे, काययोगोऽयमीरितः" ||1|| जीतका भेदाःकाययोगः सप्तधावैक्रियकाययोगः, आहारककाययोगः, औदारिककाययोगः, मिश्रशब्दस्यपूर्वदर्शितशरीरत्रिकेण सह संबन्धात् वैक्रियमिश्रकाययोगः, आहरकमिश्रकाययोगः, औदारिकमिश्रकाययोगः, कार्मणकाययोगः / अये भावः-विविधा विशिष्टा वा क्रिया विक्रिया, तस्यां भवं वैक्रियम् / तथाहि-तदेक भूत्वाऽनेकं भवमि, अनेकं भूत्वा एकम् / अणु भूत्वा महद्भवति,महद् भूत्वा अणु / तथा खचरं भूत्वा भूमिचरं भवति, भूचरं भूत्वा खचरम् / अदृश्यं भूत्वा दृश्यं भवति, दृश्यं भूत्वा अदृश्यमित्यादि। यदा-विशिष्ट कुर्वन्ति तदिह वैकुर्विकम् पृषोदरादित्वाद भीष्ट रूपसिद्धिः / तच्च द्विधाऔपपातिकं, लब्धिप्रत्ययं च / तत्रापपातिकम्-उपपातजन्मनिमित्तं, तच देवनारकाणाम् / लब्धिप्रत्ययं तिर्यङ्गनुष्याणाम् / उक्तं च श्रीमदनुयोगद्वारलघुवृत्तौ-"विविहा विसिट्ठगा वा, किरिया तीए जं भवं तमिह / नियमा विउव्वियं पुण, नारगदेवाण पयईए"||१|| तदेव काययोगः, तन्मयो वायोगो वैक्रिययोगो, वैर्विककाययोगा वा, वैक्रियं मिश्रं यत्र कार्मणेनौदारिकेण वा स्र वैक्रियमिश्रः / तत्र कार्मणेन मिश्रं देवनारकाणामपर्याप्तावस्थायां प्रथमसमयादनन्तरं बादरपर्याप्तकाये पञ्चेन्द्रियतिर्यङ्गनुष्याणां च वैक्रियलब्धिमतां वैक्रियारम्भकाले वैक्रियपरित्याग काले वा औदारिकेण मिश्र ततो वैक्रियमिश्रश्चासौ कायश्च वैक्रि यमिश्रकायः, तेन योगे वैक्रियमिश्रकाययोगः / चतुर्दशपूर्वविदा तथाविधकायोत्पत्तौ विशिष्टलब्धिवशादाहियते निर्वत्यत इत्याहारकम् / अथवा-आह्रियन्ते गृह्यन्ते तीर्थकरादिसमीपे सूक्ष्मा जीवादयः पदार्था अनेननेत्याहारकम्, "कृद्धहुलम्" |5||1 / 2 / / इति कर्मणि, करणे या णकः / यदऽवादि