________________ कामदेव 536 - अभिधानराजेन्द्रः - भाग 3 कामदेव ग्रभूतौ, करावित्यर्थः / तथा (निसालोढो त्ति) शिलापुत्रकः तत्संस्थानसंस्थिता हस्तयोरङ्गुल्यः, स्थूलत्वदीर्घत्वाम् / तथा (सिप्पिपुगं ति) शुक्तिसंपुटस्यैकं दलं, तत्संस्थिताः (तस्स नखत्ति) नखा हस्ताङ्गलिसंबन्धिनः। वाचनान्तरे तु इदमपरमधीयते-(अडयालगसंठिओ उरो तस्स रोमविलो त्ति) अत्र 'अडयाल त्ति' अट्टालकः प्राकारावयवः संभाव्यते, तत्साधर्म्यं चोरसः क्षामत्वदिनेति / तथा (एहावियए पसेवउत्ति) नापिततत्प्रसेवक इव नखशोधकक्षुरादिभाजनमिव उरसि वक्षसि (लंबंति त्ति) प्रलम्बमानौ तिष्ठतः द्वावपि तस्य स्तनको वक्षोजौ, तथा (पोट्ट) जठरम् अयःकोष्ठकवल्लोहकुशूलवत् वृत्तं कर्तुलं, तथा पानं धान्यरससंस्कृतं जलं, येन कुविन्दाश्चीबराणि पाययन्ति, तस्य कलन्दं कुण्डं पानकलन्दं तत्सदृशी गम्भीरतया (से) तस्य नाभिर्जठरस्य मध्यावयवः / वाचनान्तरेऽधीतम्-(भगकडीविगयवं कपिट्टीअ सरिसा दो वितस्स फिसम्गा) तत्र भग्नकटिर्विकृवक्रपुष्णिः फिसको पुतौ। तथासिक्कक दध्यादिभाजनाधारकंदवरकमयमाकाशेऽवलम्बनं लोके प्रसिद्ध, तत्संस्थानसंस्थितं, (से)तस्य नेत्रं मिथिदण्डाकर्षणरज्जुः, तद्रदीर्घतया तन्नेत्रं शेफ उच्यते / तथा (किण्णपुडससंठाणसंठिए त्ति) सुरागोणकरूपतण्डुलकिण्वभृतगोणीपुटद्वयसंस्थानसंस्थिताविति संभाव्यते, द्वावपि तस्य वृषणौ पोत्रको।तथा (जमलकोष्ट्रिय त्ति) समतया व्यवस्थापितकुशूलिकाद्वयसंस्थानसंस्थितौ द्वावपि तस्य ऊरू जर्छ / तथा (अञ्जुणगुच्छ व त्ति) अर्जुनस्तृणविशेषः, तस्य गुच्छ स्तबकस्तद्वत्तस्य जानुनी अनन्तरोक्तोपमानसाध्ययं व्यनक्ति। कुटिले अतिवक्रे विकृतबीभत्सदर्शने तथा,जने जान्वोरधोवर्तिन्यौ (करकडीओ त्ति) कठिने, निर्मासे इत्यर्थः / तथा रोमभिरुपचिते / तथा-अधरी पेषणशिला, तत्संस्थानसंस्थितौ द्वावपि तस्या पादौ।तथा-अधरीलोष्टः शिलापुत्रकथतसंस्थानसंस्थिताः पादयोरमुल्यः, शुक्तिपुट संस्थिताः (से तस्य पादाङ्गुलिनखाः। आकेशाग्रानखाग्रं यावद्वर्णित पिशाचरुपम्। अधुना सामान्येन तद्वर्णनायाह-(लडहमडहजाणुए त्ति) इह प्रस्तावे लडहशब्देन गन्त्र्याः पश्चाद्भागवर्तितदुत्तङ्गरक्षणार्थं यत्काष्ठं तदुच्यते, तच गन्त्र्याः श्लथबन्धनं भवति। एवं च श्लथथ्बन्धनत्वा-ल्लडह इव लडहे मडाहे च स्थूलत्वाल्पदीर्घत्वाभ्यां जानुनी यस्य तत्तथा / विकृते विकारवत्यौ भुने विसंस्थुलतया भुग्ने वक्रे भुवौ यस्य पिशाचरूपस्य तत्तथा / इहान्यदपि विशेषणचतुष्टयं वाचनान्तरे तु अधीयते(मसिमूसगमहिसकालए) मषीमूषिकामहिषव-त्कालकं (भरियमेहयने) जलभृतमेघवर्ण, कालमेवेत्यर्थः (लंबोट्टे निग्गयदंते( प्रतीतं, तत्तथा अवदारितं विवृतीकृतं वदनलक्षणं विवरं येन तत्तथा। तथा निलालिता निष्कासिता अग्रजिह्वा जिह्वाया अग्रभागे येन तत्तथा / ततः कर्मधारयः। तथा शरटैः कृकलासैः कृतमालिसग्मुण्डे वक्षलि वा येन तत्तथा / उन्दुरमालया मूषकस्रजा परिणद्धं परिगतं सुकृतं सुष्टुरचितं चिह्न स्वकीयलाचिछन येन तत्तथा। तथा नकुलाभ्यां बभुभ्यां कृते कर्णपूरे आभरणविशेषा येन तत्तथा। साभ्यां कृतं वैकक्षमुत्तरासङ्गो येन तथा। पाठान्तरे-(मूसगकय भुलए विच्छुयच्छे सप्पकयजुन्नोवइए) तत्र 'भुंभुलए त्ति'शेखरः (विच्छुयत्ति) वृश्चिकाः यज्ञोपवीतं ब्राह्मणकण्ठसूत्रम्। तथा (अभिन्नमुहनयणनखवरवग्यचित्तकित्तिनियंसणे) अभिन्नाः अविशीर्णा / मुखनयननखा यस्यां सा तथा, सा च सैरवव्याघ्रस्य चित्रा कर्बुरा, कृत्तिश्चर्मेति कर्मधारयः। सा निवसनं परिधानं यस्य तत्तथा। (सरसरुहिरमंसावलित्ततगत्ते) सरसाभ्यां रुधिरमांसाभ्यामलिप्तं गात्रं यस्य तत्तथा। आस्फोटयन् करास्फोटं कुर्वन्नभिगर्जन् धनध्वनि मुञ्चन् भीमो मुक्तः कृतोऽदृट्टहासो हासविशेषो येन तत्तथा / नानाविधपचवणे रोमभिरुपचितमेकं महन्नीलोत्पलगवलगुलिकाऽतसीकुसुमप्रकाशमसिं क्षुरधारं गृहीत्वा यत्र पौषधशालायां यत्र कामदेवश्रमणोपासकस्तत्रोपागच्छति स्मेति। इह गवलं महिषश्रृङ्ग, गुलिका नीली, अतसी धान्यविशेषः, असिं खरं , क्षुरस्येव धारा यस्यातिच्छेदकत्वादसौ ..क्षुरधारः। (आसुरुत्ते सट्टे कविए चंडिक्किए मिसिमिसीयमाणे ति) एकार्थाः शब्दाः कोपातिशयप्रदशनार्थाः। हंभो ! कामदेवा समणोवासया अप्पत्थियपत्थिया दुरंतपंतलक्खणा हीणपुण्णचाउद्दसिया ! सिरिहिरिधितिकित्ति 4 जाव पडिवजिया धम्मकामया पुण्णसग्गमोक्खधम्मकं खिया 4 धम्मपिवासिया 4 णो खलु कप्पइ तव देवा० सीलाई वयाई वेरमणाई पचक्खाणाइंपोसहो वासाइं चालंतर वा खोभंतस्स वा खंडित्तए वा भंजित्तए वा उज्झित्तए वा परिचइत्तए वातं जइ णं तुमं अज्ज सीलव्वयाइं० जाव पोसहोववासाई ण छंडसि ण भंजेसि तो अहं अज्ज इमेणं णीलुप्पपलेण० जाव असिणा खंडाखंडं करेमि जहा णं तुमं अदृदुहट्टवसट्टे अकाले चेव जीवयाओ ववरोविइज्जसि। (अप्पत्थियपत्थिया) अप्रार्थितप्रार्थिकः, दुरन्तानि दुष्टपर्यवसानानि, प्रान्तान्यसुन्दाराणि लक्षणाणि यस्य स तथा। हीणपुण्णचाउद्दसि त्ति) हीना असंपूर्णा पुण्या चतुर्दशी तिथिर्जन्मकाले यस्य स हीनपुण्यचतुर्दशीकः तदामन्त्रणम्। श्रीह्रीधृतिकीर्तिवर्जितेति व्यक्तम् / तथा धर्म च श्रुत चारित्रलक्षणं कामयतेऽभिलषति यः स धर्ककामः, तस्यामन्त्रणं हे धर्मकाम!, या एवं सर्वपदानि नवरं पुण्यशुभप्रकृतिरूपं कर्म स्वर्गः, तत्फलं मोक्षो धर्मफलं कासा / अभिलाषातिरेकाः, पिपासा काशातिरेकाः, एवमेतैः पदैरुत्तरोत्तराभिलाषप्रकर्ष एवोक्तः / (णा खलु इत्यादि) न खलु नैव कल्पन्तेशीलादीनि चलयितुमिति, मेयितुं देशतो भक्तुं सर्वतः केवलं यदि त्वंतान्यद्य नचलयसिततोऽहं त्वां खण्डाखण्ड करोमीति वाक्यार्थः / तत्र शीलान्यणुव्रतानि, व्रतानि दिव्रतादीनि विरमणानि, रागादिविरतयः प्रत्याख्यानानि, नमस्कारसहितादीनि पौषधोपवासानाहारादिभेदेन चतुर्विधान् / (चालित्तिए) भङ्गकान्तरकरणतः क्षोभयितुमेतत्पालनविषक्षोभ कर्तु, खण्डयितु देशतो भक्तुं, सर्वत उज्झितुं सर्वस्य देशविरतेस्त्यागतः परित्यक्तुं, सम्यक् तस्यापि त्यागादिति। (अट्टदुहट्टवसट्टे ति) आर्त्तस्य ध्यानवि--शेषस्य यो (दुहट्ट त्ति) दुर्घटो दुस्थगो दूर्निरोधो वशः पारतन्त्र्यं, तेन ऋतः पीडित आर्त्तदुर्घटवशातः / अथवा-आर्तेन दुखार्त आर्तदुःखार्तः, तथा-वशेन च विषयपारतन्त्र्येण ऋतः परिगतो वशातः। कर्मधारय इति। तए णं से कामदेवे समणो वासए तेणं दिवेणं पिसायरू वेणं वुत्ते समाणे अभीए अत्थे अणु विग्गे अणुक्खुभिए अचलिए असंभंते तुसणीए चिट्ठइ, धम्म