SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ कसाय 397- अमिधानराजेन्द्रः - भाग 3 कसाय नमुञ्चतितस्याभिधीयते लोभः कृमिरागरक्तवस्त्रसमानो-ऽनन्तानुबन्धी चेति एवं सर्वत्र भावना कार्येति। फलसूत्रं स्पष्टम् स्था० ठा०२ उ०। (इह कषायप्ररूपणागाथाः अनुपदमेवोक्ताः। चतुःप्रतिष्ठिताः क्रोधादयःकति पतिट्ठिए णं भंते ! कोहे पन्नत्ते ? गोयमा ! चउपइट्ठिए कोहे पण्णत्ते तंजहा आयपपतिहिए परपइट्ठिए तदुभयपइट्ठिए अप्पइहिए। एवं नेरअयाणंजीव वेमाणियाणं दंडओ, एवं माणेणं दंडओ, मायाए दंडओ लोभेणं दंडओ। कतिषु कियत्प्रकारेषु स्थानेषु प्रतिष्ठितो भदन्त ! क्रोधः भगवानाह। चतुःप्रतिष्ठितस्ततद्यथा आत्मप्रतिष्ठित इत्यादि। आत्मन्येव प्रतिष्ठितः आत्मप्रतिष्ठितः। किमुक्तं भवति स्वयमाचरितस्य ऐहिकं प्रत्यपायमवबुध्य यदा किश्चिदात्मन एवोपरिक्रुध्यतितदा आत्मप्रतिष्ठितः क्रोधः प्रतिष्ठितः इति / यदा पर उदीरयति आक्रोशादीनां कोपं तदा किल तद्विषयः क्रोधः उपजायते इति स परप्रतिष्ठित इति। नैगमनयदर्शनमेतत् / नैगमनयो हि तद्विषयमात्रेणापि तत्प्रतिष्ठितं मन्यते यथा जीवः सम्यग्दर्शनम-जीवसम्यग्दर्शनमित्यादयोऽष्टौ भङ्गाः सम्यग्दर्शनस्याधि-- करणचिन्तायामावश्यके तदुभयप्रतिष्ठित आत्मपररूपोभय प्रतिष्ठितः यदा कश्चित्तथाविधापराधवशादात्मपरविषयक्रोधमाधत्ते इति / अप्रतिष्ठितो नाम यदेषः स्वयं दुश्चरणमाक्रोशादिकं च कारणं विना निरालम्बन एव केवल क्रोधवेदनीयादुपजायते स हि नात्मप्रतिष्ठितःस्वयं दुश्चरणाभावतश्चात्मविषयत्वाभावात् / नापि परप्रतिष्ठितः परस्यापि निरपराधतया अपराधसम्भावनाया अभावतः क्रोधालम्बनत्वायोगात् / दृश्यते च कस्यापिकदाचिदेवमेव केवलं क्रोधवेदनीयोदयादुपजायमानः क्रोधस्तथा चसपश्चात् ब्रूते अहो मे निष्कारणकोपो नैषधिकरूपं भाषते न च किञ्चिद्विनाशयतीति / अत एवोक्तं पूर्वमहर्षिभिः सापेक्षाणि निरपेक्षाणि च कर्माणि फलविपाके षु सोपक्रमं निरुपक्रमं च दृष्ट यथायुष्कमिति / एवं मानमायालोभा अपि आत्मपरोभयप्रतिष्ठिताश्च भावनीयाः। तदेवमधिकरणभेदेन भेद उक्त। संप्रति कारणभेदतो भेदमाहकहिणं भंते ! ठाणेहिं कोहुप्पत्ती भवति ? गोयमा ! चउहिं ठाणेहिं कोहुप्पत्ती हवइ / तंजहा खित्तं पडुच्च वत्थु पमुच सरीरं पमुब,उवहिं पडुन / एवं नेरइयाणं जाव वेमाणियाणं एवं माणेण विमायाए विलोभेण वि। एवं एते वि चत्तारि दंभगा। कतिविहेणं भंते / कोहे पण्णत्ते ? गोयमा? चउविहे कोहे पण्णत्ते, तंजहा अणंताणुबंधी कोहे अप्पचक्खणावरणे कोहे पचक्खाणावरणे कोहे संजलणे कोहे एवं नेरइयाणं जाव वेमणियाणं एवं माणेणं मायाउं लोभेण एए वि चत्तारि दंडया। तिष्ठत्येभिरिति स्थानानि करणानि कतिभिः कियत्संख्याकैः स्थानैः / कारणैः क्रोधोत्पत्तिर्भवति? भगवानाह चतुर्भिः स्थानः तान्येव स्थानान्याह। (खेत्तं पडुच इत्यादि) तत्र नैरयिकाणां नैरयिकक्षेत्रं प्रतीत्य तिरश्चां तिर्यक्षेत्रं मनुष्याणां मनुष्यक्षेत्रं देवानां देवक्षेत्रं (वत्थुपमुचेत्ति) वस्तुं सचेतनमचेतनं वा शरीरं प्रतीत्य दुःसंस्थितं विरूपं वा उपधि | प्रतात्यति यद्यस्योपकरणं तस्य तचौरादिना अपहियमाणमन्यथा वा प्रतीत्य एवं नैरयिकादिदण्डमसूत्रमपि, प्रज्ञा०१४ पद / अनन्त भवमनुबध्नाति अविच्छिन्नं करोतीत्येवं शीलोऽनन्तानुबन्धी अनन्तो वाऽनुबन्धो यस्येत्यनन्तानुबन्धी सम्यग्दर्शनसहभाविक्षमादिस्वरूपोपश-मादिचरणलवबिबन्धी चारित्रमोहनीयत्वात्तस्य न चोपशमादिभिरेव चारित्री अल्पत्वात् यथा अमनस्को न संज्ञी किंतु महता मूलगुणादिरूपेण चारित्रेण चारित्री मनः संज्ञया संज्ञिवदत एव त्रिविध दर्शनमोहनीयं पञ्चविंशतिविधं चारित्रमोहनीयमिति। ननु “पढमिल्लयाण उदये नियमे" इत्यादि विरुध्यते चारित्रावारकस्य सम्यक त्यावारकत्यानुपपत्तेरतएव सप्तविधं दर्शनमोहनीयमेकविंशतिविधं चारित्रमोहनीयमिति मतं संगतमाभातीत्यत्रोच्यते। पढमिल्लयाणेत्यादि यदुक्तं तदनन्तानुबन्धिनां न सम्यक्त्वावारकतया किंतु सम्यक्त्वसहभाव्युपशमाद्यावारकनया अन्यथाऽनन्तानुबन्धिभिरेव सम्यक्त्वस्यावृतत्वात् किमपरेण मिथ्यात्वेन प्रयोजनमावृतस्याप्यावरणेऽनवस्थाप्रसङ्गात्तस्माद्यथा "केवलियणाणलंभो, जन्नत्थखए कसायाणं ति" इह कषायाणां केवलज्ञानस्यानावारकत्वेऽपि कषायक्षयः केवलज्ञानकारणतयोक्तस्तस्मिन्नेवतस्य भावादेवमनन्यतानुबन्धिक्षयोपशम एव सम्यक्त्वलाभ उच्यते तस्मिन् सति तस्य भावाद्यतोऽनन्तानुबन्धिषूदितेषु मिथ्यात्वक्षयोपशममुपयाति तदभावाच न सम्यक्त्वमिति। यच्च सप्तविध सम्यग्दर्शनमोहनीय मिति मतान्तर तत्सम्यक्त्यसहचरितत्वेनोपशमादिगुणानां सम्यक्त्वोपचारादिति मन्यमहे इत्यादि / न विद्यते प्रत्याख्यानमणुव्रतादिरूपं यस्मिन् सोऽप्रत्याख्यानो देशविरत्यावारकः / प्रत्याख्यानमामर्वादया सर्वविरतिरूपमेवेत्यर्थः / वृणोतीति प्रत्याख्यानावरणः। संज्वलयति दीपयति सर्वसावद्यविरतिमपीन्द्रियार्थसम्पाते वा संज्वलति दीप्यत इति संज्वलनः / यथा ख्यातचारित्रावारकः एवं मानमायालोभेष्वप्यनन्तानुबन्ध्यादिभेदचतुष्टयमध्येतव्यमिति / एषां निरुक्तिः पूज्यैरियमुक्का “अनन्तान्यनुबध्नन्ति, यतो जन्मनि भूतये। अतोऽनन्तानुबन्धाख्या, क्रोधायेषु प्रदर्शिता॥१॥नाल्पमप्युत्सहहे येषां प्रत्याख्यानमिहोदयात् / अप्रत्याख्यानसंज्ञातो, द्वितीयेषु निवोशिता // 2 // सर्वसावधविरतिः, प्रत्याख्यानमुदाहृतम्। तदावरणसंज्ञातस्तृतीयेषु विवेशिता॥३॥ शद्वादीन् विषयान्ः प्रप्यं, संज्वलन्ति यतो मुह।। अतः संज्वलनाहानं चतुर्थानामिहोच्यते" // 4 // स्था०४ ठा०१ उ०। संप्रत्येषामेव विशेषतः किंचित्स्वरूपं प्रतिपिपादयिषुराहजा जीव वरिसचउमास, पक्खगानरयतिरियनरअमरा। सम्माणुसव्वविरई,अहखायचरित्तघायकारा॥१८|| "यावत्तावञ्जीवितावर्त्तमानावट प्रावारक दे वकु लै वमे वेवः" 18 / 2 / 271 / इति प्राकृतसूत्रेण वकारलोपे च जावञ्जीव च वर्ष चचतुर्मासं च पक्षश्च यावजीववर्षचतुर्मासपक्षास्तान् गच्छन्ती ति यावजीववर्षचतुर्मासपक्षगाः “नाम्नो गमेः खमौ विहायसस्तु विह" इति ड प्रत्ययः। इदमुक्तं भवति। यावज्जीवानुगानन्तानुबन्धिनः वर्षगा अप्रत्याख्यानावरणचतुर्मासगाः प्रत्याख्या नावरणपक्षगाः संज्वलनः / इदं च "परुसवयणेण दिणतव अहिक्खिवंतो य हणइ
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy