SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ कला 377 - अमिधानराजेन्द्रः - भाग 3 कला दन्तलोहताम्ररजतादयोऽ क्षराणामाधारास्तथा लेखनोत्किरणस्यूतव्यूतच्छिन्नभिन्नदग्धसंक्रान्तितोऽक्षराणि भवन्तीति। विषयापेक्षया ऽप्यनेकधास्वातिभृत्यपितृपुत्रगुरुशिष्यभार्यापतिशत्रूमित्रादीनां लेखाविषयाणामप्यनेकत्वात्तथाविधप्रयोजनभेदाच अक्षरदोषाच्च / अतिकाय॑मतिस्थौल्य, वैषम्यं पक्तिवक्रता। अतुल्यानां च सादृश्यमविभागः पदेषु च" इति 1 तथा गणितं संख्यानं संकलिताद्यनेकभेदम्पाटीप्रसिद्धम् 2 रूपं लेप्यशिलासुवर्णमणि वस्त्रचित्रादिषु रूपनिर्माणम् 3 नाट्यं साभिनयनिरभिनयभेदभिन्नं ताण्डवम् 4 गीतं गन्धर्वकलागानविज्ञानमित्यर्थः 5 वादितं वाद्यंततविततादिभेदभिन्नम् 6 स्वरगतं गीतमूलभूतानां षड्जऋषभादिस्वराणां ज्ञानम् 7 पुष्करगतं पुष्कर मृदङ्गमुरजादिभेदभिन्नं तद्विषयकं विज्ञानम् वाद्यान्तर्गतत्वेऽप्यस्य यत् पृथाकथनं तत्परमसंगीताङ्गत्वख्यापनार्थम् 8 समतालं गीतादिमानकालस्तालः स समोऽन्यूनाधिक मात्रिकत्वेन यस्माद् ज्ञायते तत्समतालविज्ञानम् “क्वचित्तालमानमिति" पाठः 6 द्यूतं सामान्यतः प्रतीतम् 10 जनवादं द्यूतविशेषम् 11 पाशकं प्रतीतम् 12 अष्टापदं सारिफलकद्यूतं तद्विषयककला 13 पुरःकाव्यमिति पुरतः पुरतः काव्यं शीघकवित्वमित्यर्थः 14 (दगमट्टिआमित्ति) दकसंयुक्तमृतिका विवेकद्रव्यप्रयोगपूर्विका तद्विवेचनकलाऽप्युप-चाराद्दकमृत्तिका ताम् 15 अन्नविधिं सूपकारकलाम् १६पानविधिं दकमृत्तिकाकलया प्रसादितस्य सहजनिर्मलस्य तत्संस्कारकरणम्, अथवा जलपानविधिं जलपानविषये गुणदोषविज्ञानमित्यर्थः यथा “अमृतं भोजनस्यार्द्ध , भोजनान्ते जलं विणम्" इत्यादि 17 वस्त्रविधिं वस्त्रस्य परिधानीयादिरूपस्य नवकोणदैविकादिभागयथास्थाननिवेशादिविज्ञानं वा अनादिवस्तु अनन्तविज्ञानान्तर्गतमिति नेहगृह्यते 18 विलेपनविधिं यक्षकर्दमादिपरिज्ञानम् 16 शयनविधि शयनं शय्या पल्यङ्कादिस्तद्विधिः स चैवं "कर्माडलं यवाष्टकमुदरासक्तं तुषैः परित्यक्तम् / अङ्गुलशतं नृपाणां, महती शय्या जपाय कृता ||1|| नवतिः सैव षमूना, द्वादशहीना त्रिषट्कहीना च / नृपपुत्रमन्त्रिबलपतिपुरोधसां स्युर्यथासंख्यम् // 2 // अर्धमतोऽष्टांशोनं, विष्कम्भो विश्वकर्मणा प्रोक्तः / आयामत्र्यंशसमः, पादोच्छ्रायः सकुक्षिशिराः" 3 इत्यादिकं विज्ञानम्। अथवा शयनं स्वप्नः तद्विषयको विधिस्तं यथा पूर्वस्या शिरः कुर्यादित्यादिकं विधिम्, 20 आर्या सप्तचतुष्कलगणादिव्यवस्थानिबद्धा मात्राछन्दोरूपाम् 21 प्रहेलिकां गूडाशयपद्यम् 22 मागधिका रसविशेषम् / तल्लक्षणं चेदम् 'दिसाधसुदुन्निटगणा, समेसु पोटो तओदुसु विजत्था लहु उंकगणोलहु उंकगणा तंमुणह मागहिति२३ गाथा संस्कृतेतरभाषानिबद्धामायमेव 25 गीतिकांपूर्वार्द्धसदृशाऽपरार्द्धलक्षणामार्यामेव 25 श्लोकमनुष्टविशेष 26 हिरण्ययुक्तिं हिरण्यस्य रूप्यस्य युक्तिं यथोचितस्थाने योजनम् 27 एवं सुवर्णयुक्तिम् 28 चूर्णयुक्ति कोष्टादिसुरभिद्रव्येषु चूर्णीकृतेषु तत्तदुचितद्रव्यमेलनम् 26 आभरणविधि व्यक्तम् 30 तरुणीपरिकर्म युवतीनामनङ्ग शतक्रियां वर्णादिवृद्धिरूपाम् 31 स्त्रीपुंसलक्षणे सामुद्रिकप्रसिद्ध 3233 हयलक्षणं दीर्घग्रीवाक्षिकूट इत्यादिकमश्वलक्षणविज्ञानम् ३४गजलक्षणं "पञ्चोन्नतिः सप्त मृगस्य दैयमष्टव हस्ताः परिणाहमानम्। एकद्विवृद्धावथ मन्द्रभद्रौ,संकीर्णनागो नियतप्रमाणः 1 इत्यादि ज्ञानम् 35 / (गोणलक्क्षणंति) गोजात्तीयलक्षणं “सास्नाविकलातिरक्षा मूषिकनयनाश्च न शुभदा गावः" इत्यादिकम् 36 कुर्कुटलक्षणं "कुर्कुटस्त्वृजुतनूरुहाङ्गुलिस्ताम्रवक्त्रनखचूलिकःसितः" इत्यादिकम् 37 छत्रलक्षणं यथा चक्रिणां छत्ररत्नस्य 38 दण्डलक्षणम् “यथाऽऽतपत्राङ्कुशवेत्रचापवितानकुन्तध्वजचारामराणाम् / व्यापात 1 तन्त्री 2 मधु 3 कृष्ण 4 वर्णक्रमोत्रमेणैव हिताय दण्डः ।।१।।मन्त्रि 1 भू२ धन 3 कुल 4 क्षयावहा, रोग 5 मृत्यु 6 जननाश्च पर्वभिः / द्व्यादिभिर्द्धिकबिवर्द्धितैः क्रमाद, द्वादशान्तविरतैः समैः फलम् // 2 // यात्राप्रसिद्ध 1 द्विषतां विनाशो, 2 लाभः 3 प्रभूतो वसुधागमश्च // 3 // वृद्धिः पशूना 5 मभिवाञ्छितार्थ 6 स्यादिष्वयुग्मेषु तदीश्वराणाम्" 4 इत्यादि 36 असिलक्षणम् “अङ्गुलशतार्द्धमुत्तम, ऊनःस्यात्पञ्चविंशतिः खङ्गः / अङ्गुलमानाज्ज्ञेयो, व्रणोऽशुभो विषमपर्वस्थः" 1 अत्र व्याख्या अङ्गुलशतार्द्धमुत्तमः खङ्गः पञ्चविंशत्यङ्गुलमानतनितः / अनयोः प्रमाणयोर्मध्यस्थितः प्रथमतृतीयपञ्चमसप्तमादिष्वड्लेषु स्थितः स अशुभः अर्थादव सप्ताङ्गलेषु द्वितीयचतुर्थषष्ठाष्टमादिषु यः स्थितः सशुभः मिश्रेषु समाविषमाङ्गुलेषु मध्यम इत्यादि 40 मणिलक्षणं रत्नपरीक्षा गन्थोक्तकाकपदमक्षिकापदकेशरादित्यशर्करतास्वस्ववर्णाचितफल दायित्वादिमणिगुणदोषविज्ञानम् 41 काकणी चक्रिणो रत्नविशेषस्तस्य लक्षणं विषहरणमानोन्मानादियोगप्रवर्तकत्वादि 42 वास्तुनो गृहभूमोर्विद्या वास्तुशास्त्रप्रसिद्ध गुणदोषविज्ञानम् 43 स्कन्धावारस्य मानम् / “एकेभैकरथास्त्र्यश्वाः, पत्तिः पञ्चपदादिका / सेना सेनामुखं गुल्मो, वाहिनी पृतना चमू: 1 अनीकिनी च पत्तेः स्यादिभाधैस्विगुणैः क्रमात्। दशाकिन्योऽक्षौहिणीत्यादि" ४४नगरमानं द्वादशयोजनायामनव योजनव्यासादिपरिज्ञानम् / उपलक्षणाच कलशादिनिरीक्षणपूर्वकसूत्रन्यासयथास्थानवर्णादिव्यवस्थापरिज्ञानम् 45 चारोज्योतिश्चारस्तद्विज्ञानम् 46 प्रतिचारः प्रतिकूलवरो ग्रहाणां वक्रगमनादिस्तत्परिज्ञानम् / अथवा प्रतिचरणं प्रतिचारो रोगिणः प्रतीकारकरणं तज्ज्ञानम् 47 व्यूहं युयुत्सूनां सैन्यरचनां यथा चक्रव्यूहे चक्राकृ तो तुम्बारकपरिध्यादिषु राजन्यस्थापनेति 48 प्रतिव्यूह तत्प्रतिद्वन्द्विना तद्भङ्गोपायप्रवृत्तानां व्यूहम् 46 सामान्यतयो व्यूहान्तर्गतत्वेऽपि प्रधानान्त्रीनिह व्यूहविशेषानाह चक्रव्यूह चक्रामृतिसैन्यरचनामित्यर्थः 50 गरुडव्यूह गरुडाकृतिसैन्यरचनामित्यर्थः 51 एवं शकटव्यूहम् 52 युद्धं कुर्कुटानामिव मुण्डामुण्डि शङ्गिणामिव शृङ्गाङ्गियुयुत्सयाऽनयोर्वल्गनम् 53 नियुद्धं मल्लयुद्धं 54 युद्धातियुद्ध खङ्गादिप्रक्षेपपूर्वकं महायुद्धं यत्र यं प्रतिद्वन्द्रिहतानां पुरुषाणां पातः स्यात् 55 दृष्टियुद्धं योधप्रतियोधयोश्चक्षुषोर्निर्निमेषावस्थानम् 56 मुष्टियुद्धं योधयोः परस्परं मुष्ट्या हननम् / 57 बाहु युद्धं योधप्रतियोधयोरन्योऽन्यं सारिबाहोरिव विभन्त्सया वल्गनम् 58 लतायुद्धं यथा लता वृक्षमारोहन्तीआमूलमाशिरस्तम्बवेष्टिः तथा यत्र योधः प्रतियोधशरीरं गादनिपीड्य भूमौ पातयति तल्लतायुद्धम् 56 (ईसत्थंति) प्राकृतशैल्या इषुशास्त्र नागबाणादिदिव्यास्त्रादिसूचक शास्वम् 60 (छरुप्पवायंति) त्सरुः खङ्ग मुष्टिस्तदवयवयोगात् त्सरुशब्देनात्र खङ्ग उच्यते अवयवे समुदायोपचारस्तस्य प्रवादो यत्र शास्त्रे तत् त्सरूप्रवादं खङ्गशिक्षाशास्त्रमित्यर्थः / प्रश्नव्याकरणे
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy