________________ करण 364 - अभिधानराजेन्द्रः - भाग 3 करण तुसंघाटपरिशाटौ तत्संबन्धितः उभयस्य चान्तरेस एवोक्तः संघातसमयो भवतीति / ननु यधेयं तर्हि "चिर विउध्वियसमयस्से" त्यत्र चिरग्रहणमपार्थकमिह हि मनुष्यादिषु यश्चिरं स्तोकं वा कालं वैक्रियसंघातपरिशाटौ कृत्वा अविग्रहेण दिवि समुत्पद्यते तेनैव प्रयोजनं किं चिरशब्दविशेषणेन सत्यम् / किं तु प्रथमसमयेऽपि मरण निषेधार्थमित्थमुक्तम् यदि या अनन्तरं वैक्रियसंघातनन्तरं भावतया सप्रयोजनत्वाद् द्वितीयादिसमयेष्वाकस्मिकसमाप्तवैक्रि यस्यापि मरणमुक्तम् अत्र त्वसमाप्तवैक्रियस्यापि मरणोपदर्शनेन किंचित्प्रयोजनमिति ख्यापनार्थ चिरग्रहणेन परिपूर्णान्तर्मुहूर्तिकमनुष्यादिवक्रि यस्थितिकालानुज्ञामपि कृतवानाचार्य इत्यदोषः (साडस्संतमुहत्तं ति) एकदा वैक्रियसर्वशाटं कृत्वा पुनरपि तत्सर्वशाट कुर्वतोऽन्त मुहूर्त जघन्यमन्तरं भवती / कथमति चेदुच्यते कश्चिदौदारिकशरीरी वैक्रियलब्धिमान क्वचित्प्रयोजनवैक्रियं शरीर कृत्वा सर्वपर्यन्ते तस्य सर्वपरिशाटं विधाय पुनरौदारिकशरीरमाश्रयति तत्र चान्तर्मुहूर्त स्थित्वा पुनरप्युत्पन्नप्रयोजने वैक्रियं करोत्यन्तर्मुहूर्त च तत्र स्थित्वा पुनरप्यौदारिकमागच्छद्वैक्रियस्य सर्वशाटं करोत्येवं च सति वैक्रियशरीरगतमन्तर्मुहूर्तद्वयं भवति / अनेन चान्तर्मुहूर्त द्वयानापि वृहत्तरमेकयेवान्तर्मुहूर्त विवक्षितमतो युज्यते जघन्यं वैक्रियशाटान्तरमन्तर्मुहूर्त्तमिति तदेवं वैक्रियसंघाते भयपरिशाटान्तरं जघन्योत्तरकालः उक्तः अथ त्रयाणामप्ये-तेषामुत्कृष्टमन्तरकालमाह। "तिण्हवित्यादि" इह यदा कश्चिजीवो वैक्रियशरीरस्य संघातादित्रयं कृत्वा वनस्पतित्पद्यते तत्र चानन्तकालमतिबाह्य तत उघ्तः उद्धृत्तः पुनरपि क्वचिद्वैक्रियशरीरमासाद्य तत्संघातादित्रयं करोति तदा तत्संबन्धेन संघातपरिशाटोभयत्वलक्षणस्य त्रयस्यापि स एवानन्तोत्सपिण्यव सर्पिणीरूपो वनस्पतिकालो अन्तरे भवतीति। अथाहारकशरीरसंघातपरिशाटतदुभयानां कालोऽन्तरं च वक्तव्यं तत्राह। आहारोभयकालो, दुविहो अंतरत्तियं जहन्नं ति। अंतमुहुत्तमुक्को-समद्ध परियट्टमूणं च // आहारशरीरसंघातः परिशाटश्च प्रत्येक सामायिको भवति स च सुगमत्वाद्राथायां न लिखितः स्वयमेव तु द्रष्टव्य इति / संघातपरिशाटो भयकालस्तु द्विविधः उत्कृष्टतोजघन्यतश्च / संघातपरिशाटोभयानां यदन्तरत्रिक मन्तरकालत्रयं जघन्य तदेतत्सर्वमन्तर्मुहूर्त्तकालमानमवगन्तव्यं केवलं तदेवान्र्मुहूर्त लघु वृहच तारतम्येनावसेयमिति / आहारकशरीरं ह्यन्तर्मुहूर्तकालस्थितिमेव भवत्यतस्तत्संबन्धिनः संघातपरिशाटेभयस्य जघन्यत उत्कृष्टश्चान्तर्मुहूर्त्तकालभावित्वाच सिद्धमेवेति एकदा कृतं चाहारकशरीरं प्रयोजनसिद्धौ परित्यज्य चतुर्दशपूर्वधरो जघन्यतोऽन्तर्मुहूर्तात्पुनरप्युत्पन्न प्रयोजनस्तत्करोत्यतस्तगतसंघातपरिशाटोभयानां भवति जघन्यमन्तर्मुहूर्त्तमिति। उत्कृष्टं त्वन्तरं त्रयाणामपि संघातपरिशाटभयानां किंचिन्न्यूनार्द्ध पुद्गलपरावर्तरूपं भवति / इदं च यचतुर्दशपूर्वधर आहारकशरीरं कृत्वाप्रमादारप्रत्तिपत्तौ वनस्पत्यादिषु यथोक्तकालं स्थित्वा पुनरपि चतुर्दशपूर्वधरत्वमवाप्याहारेशरीरं करोति तस्य द्रष्टव्यमिति। अथ तैजसकार्मणविषयं संधातादिविचारं चिकीर्षुराहतेयाकम्माणं पुण, संताणाणाइओ न संघाओ। मव्याण होज सामो, सेलेसी चरिमसयमि।। उभयं अणाइनिहणं, संतं भव्वाण होज केसिंचि। अंतरमणाइ भावा, अचंतविओगओ णेसिं॥ तेजसकार्मणयोः पुनः संघातस्तावन्न भवत्येव तयोरनादिकालात्संतानेन प्रवृत्तत्वासंघातस्य तु गृह्यमाणशरीरप्रथमसमयविषयत्वादिति प्रागप्युक्तं सर्वपरिशाटोऽपि तैजसकार्मणयोरभव्यानां न भवत्येव तस्य त्यज्यमानशरीरविषयत्वात्तेषां च तस्या गासंभवद्गव्यानां तु केषांचिच्छैलेशीचरमसमये भवेच्छाटः सच सामयिको द्रष्टव्यः उभयंत संघाटपरिलक्षणम् आदिश्च निधनं चादिनिधने न विद्येते आदिनिधने यस्य तदनादि निधनमेवाभव्यानां भवति तात्यागाभावाद्भव्यानां तु केषांचित्सिद्धिगमनसमये सान्तमुभयं भवेतदानीं सर्वथा तत्त्यागादन्तरं तु (सिंति) एतयोर्न भवत्येव अभव्यानामनादिनिधनत्यात्तयोः भव्याना तु अनिधनत्येऽप्यत्यन्तवियोगेन त्यागात्पुनस्तद्ग्रहणाभावात्त्यैतस्य पुनर्ग्रहणाचान्तरकालसंभवादिति / संघातपरिशाटवक्तव्यता समाप्ता तदेवमुक्तं सजीवप्रयोगकरणम्। अथाजीवप्रयोगकरणमभिधित्सुराह -- अजीवाणं करणं, नेयं पडसंखसगमथूणाणं / संघायणपरिसाडण, उभयं तदनोभयं चेव / / अजीवानां करणंज्ञेयं किंतदित्याह। संघातनंतन्तूना पटेपरिशाटनामेव केवलं श्लक्ष्णीकरणं शङ्गस्य उभय संघातपरिशाटलक्षणंतत्क्षणकीलिकादियोगाश्छकटस्य (नो भयंति) संघातपरिशाटोभयनिषेधः / स्थूणायाः केवलोड़करणादि भावेन तदभावदिति / एवमन्यदपि यजीव प्रयोगादजीवानां क्रियते तत्सर्वमजीवकरणमिति दर्शयन्नाह / जं जं निजीवाणं, कीरइ जीवप्पओग ओतं तं। वन्नाइ रूवकम्माइ, वा वि तदजीवकरणं ति / / एवं यद्यदजीवानां वस्त्रकाष्ठपाषाणदीनां जीवप्रयागाजीव व्यापारण कुसुम्भमञ्जिष्ठादिभिर्वण्णदि क्रियते पुत्तलिकादिकं रूपकादि वा विधीयते तत्सर्वमजीवकरणमिति / तदेवमुक्तंद्रव्यकरणम् / विशे० उत्त०। सूत्र। अथ क्षेत्रकरणमभिधित्सुराहइह दवं चेव निवा-समेतपजायभावओ खेत्तं / भन्नइ नभेन तस्स, पकरणं निवत्तिओ भिहियं / / होज्जा व पजायाउ, य जाओ जेण दव्वओ णन्नो। उवयारमेत्तओ वा, जह लोए सालिकरणाई।। खेत्ते व जत्थ करणं, तिखित्तकरणं तहं जहासिद्धं / खेत्तं पुन्नमिणं पुन्न–करणसंबंधमेत्तेणं / / इह द्रव्यमेव सन्नभः क्षेत्रं भण्यते कुत इत्याह / "निवासेत्यादि" मात्रशब्दस्य व्यवहितः प्रयोगा निवासपर्यायभावमात्रत इत्यर्थः / इदमुक्तं भवति। क्षि निवासगत्योः इति क्षियन्ति निवसन्ति जीवा अजीवाश्चत्रेत्यौणादिके तत्रत्ययये क्षेत्रमित्यस्मादन्वर्था द्रव्यमपि नभः क्षेत्रमुच्यते तस्य च नमोनिवृत्तितो निष्पादकेन करणं नाभिहितमकृत्रिमत्वादस्येति। यदि तस्य करणं नास्ति तर्हि करणभेदेषु पाठः किमर्थमित्याशङ्कयाह / (होज वेत्यादि) भवेद्वा क्षेत्रस्याऽपि करणं (पञ्जायाउत्ति) पटपटादिसंयोगवियोगादिपर्यायानाभित्येत्यर्थ: / पर्यायाहि