________________ करण 361 - अभिधानराजेन्द्रः - भाग 3 करण क्षणानामष्टानामङ्गानां निर्माणं निष्पादनं तन्मूलकरणं अवशेषाणां तु करणचरणानुल्यादीनामुपाङ्गानां यन्निर्माणं तदुत्तरकरणं तथौदारिकवैक्रियशरीरयो : केशनखदशनादि संस्काररूपं यत्केशादिकर्म तदपि तयोरुत्तरकरणमिति। अपरमप्यौदारिकवैक्रियशरीरयोरुत्तरकरणं दर्शयन्नाहसठवणमणेगविहं, दोण्हं पढमस्स भेसएहिं पि। वन्नाईणं करणरं, परिकम्मं तइय नत्थिव्व / / विनष्टकर्णाद्यवयवसंघातादिरूपमौदारिके केशधुपरचनरूपंतुसंस्थापन वैक्रिये इत्येवं द्वयोराद्यशरीरयोः संस्थापनं संस्मरणमनेकविधं भवति। प्रथमस्य पुनरौदारिकशरीरस्यान्योऽपि विशेषः क इत्याह भैषजैरपि लक्षपाकतैलादिभिर्यद्वर्णादीनां विशेषापादनं तत्तस्योत्तरकरण / तृतीये त्वाहारकशरीरे के शनखदन्तादिपरिकर्म नास्त्येव स्वरूपेणैव विशिष्टत्वात्प्रयोजनाभावाचेति / विशे। उत्तआ०म०द्वि० सूत्र। अथवा प्रकारान्तरेणापि त्रिविधं जीवप्रयोगकरणं विज्ञेयं कथमित्याहसंघायणपडिसाडणःमुभयं करणमहव सरीराणं। आदाणं मुयसमयं, तदंतरालं च मालं च कालो सिं !! अथवौदारिकशरीराणां संघातनं परिशाटनं संघातपरिशाटोप्रयलक्षणमुभयं चेत्येवं त्रिविधं करणं विज्ञेययम् / तत्र पूर्वभविकमौदारिकादिशरीरं परित्यज्य अग्रेतनभवे पुनरपि तद्ब्रह्नतो यत्पुद्गलानां संघातनं ग्रहणं स संघातः / यस्तु तदैवौदारिकादिशरीरं परित्यज्यतश्चरसमये सर्वथा तत्पुद्गलानां परित्यागः / सद्ल रुजाविशरणगत्यवसादनेष्विति धातोः पुद्गलानां परिशाटनमवसादनं परिशाटः सङ्घातनपरिशाट समययोश्चापान्तरालसमयेषु सर्वेष्वपिसंघातपरिशाटोभयं द्रष्टव्यं सर्वत्र पूर्वाग्रहीतपुद्गलानां मोचनादन्येषां च ग्रहणादिति। तत्राद्यशरीरत्रयस्य संघात परिशाटोभयलक्षणं त्रिविधमपि करणं भवति। तैजसकार्मणयोस्तुसंघातोन भवत्येव परित्यक्तयोस्तयोः पुनर्ग्रहणादिति / अथ संघातादीनां कालप्रमाणमभिधित्सुराह (सिंति) एतेषां संघातपरिशाट्योभयानां कालोऽभिधीयते कियानित्याह (आदाणंमुयणयमयंति) आदानमौदारिकादिशरीरपुद्गलानां प्रथमंग्रहणं संघात इत्यर्थः / अयमेकमेव समयं भवति ततः परं संघातपरिशाटोभयप्रवृत्तेः मोचनंपुद्गलानां परिशाटनं परिशाटः सोऽप्येकमेव समयं भवति। तदन्तरालं संघातपरिशाटोभयलक्षणमिह गृह्यते तस्य कालो वक्ष्यत इति शेषः। चशब्दात्संघातादीनामन्तराकालश्च वक्ष्यत इति दृश्यामिति। तत्रौदारिकशरीरस्य संघातपरिशाटोभयकालमाहखुड्डागभवग्गहणं, तिसमयहीणं जहन्नमुभयस्स। पल्लतियं सम ऊणं, उक्कासोरालकालो यं / / अत्र संघायतपरिशाटोभयस्य जघन्यकाले प्रतिपाद्य विग्रहेणोत्पादनीये ते एवाह। दी विग्गहम्मि समया, समओ संघायणय ते हूणं / खुड्डागभवग्गहणं, सव्वजहन्नट्ठिई कालो। इह यत्पशाशदधिकावलिकाशतद्वयमाशुषे जघन्यस्थितिरूपं क्षुल्लकभवग्रहणमुच्यते / तथा च वृद्धोक्तम् "दो य सयाछप्पन्ना, आवलियाणं तु खुडभवमाणं / जियरागदोसमोहोहिं, जिणवरेहि विणिदिह / इदं च क्षुल्लुकभवग्रहणं द्वाभ्यां विग्रहसमयाभ्यामेकेन च संघातसमयेन न्यून संघातपरिशाट: लक्षणस्योभयस्यजघन्यस्थितिमानं जधन्यतोऽपि संघातपरिशाटोभयमेतावन्तं कालं भवतीत्यर्थः / अत्राह कश्चिद् ननु “विदिसाउदिसिं पढमे य, वीए पविसेइ लोगमज्झंमि। तइए उप्पिं धावइ,ताडिबहिं जायइचउत्थे" इतिवचनाद्यदा अधस्त्रसनाड्या बहिर्दशायूर्द्धलो के सनाड्या बहिरेव निगोदादिजीवश्चतुर्भिः समयैरुत्पद्यते तदा विग्रहगतावपान्तरालगतौ आद्यास्वयः समयाश्चतुर्थस्तु संघातसमय इत्येवं चतुर्भिरपि समयैन्यूनं क्षुल्लकभयग्रहणं संघातपरिशाटोभयस्य जघन्यकालः प्राप्यते तत्किमितीह त्रिभिरेव समयैन्यूँन क्षुल्लकभवग्रहणं जघन्यतस्तत्काल उक्तः / सत्यं किं त्वस्यं चतुःसमयायो विग्रहगतौ य आद्यः समयः स इह परभवप्रथमसमये न विवक्षितः किं तु पूर्वभवचरमसमय एव पूवचै भवशरीरस्य तत्र मुच्यमानत्वान्मुच्यमानं चामुक्तमिति ब्यवहारनयमताश्रवणादिति / अथवा त्रसजीवसंबन्धिन्येवेहापान्तरालगतिर्विवक्षितास्त्रसजीवाश्चोत्कृष्टतोऽपि तृतीयसमये उत्पत्तिस्थानं प्राप्नुवन्तीत्यदोष इति तावद्वयमवगच्छामः तत्वं तु बहुश्रुता विदन्तीति / इह चैतानि क्षुल्लकभवग्रहणानि एकस्मिन्नुछ्वासनिःश्वाससातिरेकाणि सप्तदश मन्तव्यानिययत उक्तम् “खुड्डागभवग्गहणा सत्तरस हवंति आणुपाणम्मी"त्यादि। अथ पल्लतियमित्याद्युत्कृष्टसंघातपरिशाटोभयकाल भावनामाहउकासो समऊणो, जो सो संघायणासमयहीणो। किह न दुसमयविहीणो, परिसाडसमए वणीयम्मि / / इह यो देवकुर्वादिषूत्पन्न औदारिकशरीरस्य प्रथमसमये संघातं कृत्वा त्रीणि च पल्योपमानि उत्कृष्टमायुः परिपाल्य मियते तस्य संघातसमयन्यूनानि त्रीणि पल्योपमानि उत्कृष्टसंघातपरिशाटो भयकालः प्राप्यते / अत्राह ननु कथमेकेनैव समयेन न्यूनोऽयमभिधीयते यावत यथा शरीरग्रहण प्रथमसमये सर्वस्तथा तन्मोक्षसमये सर्वपरिशाटोऽपि भवति ततस्तस्मिन्नपि परिशाटसमये अपनीते समयद्वयहीन एव प्राप्नोतीति। अथ प्रतिविधित्सुराहभन्नइ भवचरिमम्मि वि, समये संघायसाडणे चेव। परभवपढमे साडण-मउतइणो न कालोत्ति / भण्यते अत्रोत्तरं भवस्य चरमेऽपि समये संघातपरिशाटोभयमेव प्रवर्त्तते यत्तु शरीरपुद्रलानां केवलं परिशाटमेव तत्परभवस्य प्रथमसमये एव मन्तव्यम् (परभवपढमे साडणमिति) निश्चयनयमतावणादतस्तेन परिशटसमये न न्यून संघातपरिशाटोभयकालो न भवतीति। अथव्यवहारनयवादी प्रेरयति। जइ परपढमे सामो, निविग्गहओ य तम्मि संघाओ। तणुसव्वसामसंघाय–णा एसमए विरुद्धाउ। ननु निश्चयनयवादिन् ! यदि परभवप्रथमसमये शाटोऽभ्युपगम्यते निर्विग्रहतश्च ऋजुश्रेण्यौ चोत्पद्यमानस्यतम्मिन्नेव समये संघात इष्यते तदा त्वहो सर्वशाटसंघातौ युगपदेकस्मिन्नेव समये विरुद्धौ तव प्राप्नुतः सर्वशाटस्य पूर्वभवशरीरसंबन्णित्वात्सर्वं संघातस्य भवान्तरगतशरीरविपर्ययत्वाद्भवद्वयशरीरयायुगपत् सत्वस्य दूरविरुद्धत्वादिति /