________________ करण ३६०-अभिधानराजेन्द्रः - भाग 3 करण शब्दार्थविकलं पूणिकादिकरणपरिणामान्वितत्वान्नापि श्ब्दः करणाभिधानमात्ररूपः इति नामकरण संज्ञाकरणयोर्भेद इति / आह ननु यदि तदर्थविहीनं करणशब्दार्थ रहितं संज्ञाकरणं न भवति ततस्तर्हि किं कस्माद्दव्यकरणमेतत्किमिति द्रव्यविचारे इदं पठ्यते न तु भावकरणमेवेत्यभिप्रायः उच्यते यतस्तेन पेलुकरणादिना संज्ञाकरणेन द्रव्यं पूणिकादिकं क्रियते निर्वय॑ते अतो द्रव्यस्य करणं द्रव्यरिणमिति व्युत्पत्त्यर्थमाश्रित्य द्रव्यकरणमिदमुच्यते। संज्ञाकरणं त्विदं करणरूढितो' भण्यते करणसंज्ञातो लोकेऽस्य रूढत्यादित्यर्थः। अथ नोसंज्ञाकरणमाह। नोसन्नाकरणं पुण, दव्वस्सारूढकरणसन्नं पि। तक्किरिया भावाओ, पओगओ वीससाओ य॥ साइयमणाइयं वा, अजीवदवाण वीससा करणं। धम्माधम्मनयाणं, अणाइसंघायणाकरणं / / नोसंज्ञाकरणं द्रव्यस्य प्रयोगतो विस्रसातश्च भवति कथंभूतमित्याह। आरूढकरणसंज्ञमप्यढा अप्रसिद्धा करणमिति संज्ञा यत्तदरूढकरणसंज्ञमपि अत एव करणसंज्ञायास्तत्राभावान्नो संज्ञाकरणमुच्यते अरूठकरणसंज्ञ करणमिदमित्यर्थः। यदि करणसंज्ञा तत्र नास्ति तर्हि करणमपि कथमुच्यते इत्याह (तक्किरिया भावाओत्ति) सा चासौ करणलक्षणा क्रिया च तत्रिया तस्याः सद्भावादिति / इदमुक्तं भवति / यद्यपि शरीराभेन्द्रधनुरादौ करणसंज्ञा नास्तितथापि प्रयोगविवस्रसाजनितकरण क्रिया विद्यते अतस्तदपेक्ष्यमेतेषां करणत्वं न विरुध्यत इति / तथा जीवद्रव्याणां विस्रसाकरणं साधनादि च भवति तत्र धर्माधर्मास्तिकायनभसां संघातनाकरणं प्रदेशानां परस्परं संत्यवस्थानकरणरूपमनादिरूपं विज्ञेयमिति। अथ पर प्राहनणु करणमणाइयं च, विरुद्धमवि भन्नए न दोसो त्ति। अन्नोन्नसमाहाणं, जमिह करणं तं निव्वत्ती।। ननु कृतिर्निवृत्तिर्वस्तुनः करणमुच्यते तच साद्येव भवति घटकटशकटादिकरणवत् ततश्च करणमनादि चेत्युच्यमानं विरुद्धमेव माता मे वन्ध्येत्यादिवचनवदिति / भण्यते अत्रोत्तरं नायं दोषो यस्माद्धमास्तिकायादेः प्रदेशानामन्योन्यं परस्परं यत्सम्यगाधानं समाधानमनादिकालात्संहत्यावस्थानं धातूनामनेकार्थत्यात्तदेव करणमभिप्रेतं न पुनरपूर्वादिवत्तिः धर्मास्तिकायादिप्रदेशराशेश्व तस्यानादित्यं न किंचिद्विरुध्यते अनादिकालीनत्वादस्येति। अथवा धम्मधिर्मनभसां सादि कमपि करणं भवतीति दर्शयन्नाहअहव परपचयाउ, संजोगादि करणं नभोइणं। साइयमुतयाराउ, पज्जाया देसओ वापिवि।। अथवा उपचारान्नभःप्रभृतीनां करणं सादिकं विज्ञेयं उपचारोऽपि कुत इत्याह। परप्रत्ययाद्धटादिवस्तून्याश्रित्येत्यर्थः / कथंभूतं करणं संयोगादि आदिशब्दद्विभागादिपरिग्रहः / इदमुक्तं भावति / आकाशादीनां घटादियोगादयः सादयः सपर्यवसानाश्च ततो यत्तेषां घटादिभिः सह संयोगादिकरणं तत्सादिकं भवत्येव / अथवा पर्यायरूपतया सर्व वस्तु जेनानां सादिसपर्यवसितमेव भवति अतः पर्याया देशतः पर्येयानाश्रित्य नंभःप्रभृतीनामपि करणं सादिकं बोद्धव्यमिति। तदेव मरूपिणामजीव- द्रव्याणां साद्यनादि च विरसाकरणमुक्तम्। अथ रूप्यजीवद्रव्याण्याश्रित्याहचक्खूसमचक्खूसं, पिय साई य रूविवीससाकरणं / अब्माणप्पभिईणं, बहुहा संघायनेयकायं / / इहाभेन्द्रधनुःपरमाणुप्रभतीनां रूप्यजीवद्रव्याणां विस्रसाकरणं चक्षुभ्यां दृश्यते इति चाक्षुषमभ्रादीनां चक्षुर्गोचरातीतमचाक्षुषं परमाणुकादीनां एतद् द्विविधमपि संघातभेदकृतं बहुधा बहुभेदं सादिकं भवति / अभ्रादीनां तु केचित्पुद्गलाः संहन्यन्ते केचिद्भिद्यन्ते ततस्तेषां नासनारूपा भवन्ति एवं द्यणुकादिस्कन्धेष्वपि वाच्यं परिणामास्तु स्कन्धाद्भेदकृतमेव करणं भेदादणुरिति वचनादिति करणं चेह कृतिः स्वभावत एव निवृतिगर्गृह्यते न पुनः क्रियत इति करणमिति। विशे०। संप्रति चाक्षुषभेदमेव विशेषेण प्रतिपादयति। संघायभेयतदुभय-करणं इंदा उ होइ पञ्चक्खं / ढुअअणुमाईणं पुण, छउमत्थादीण पचक्खं / / संघातः संहननं भेदो विघटनं तच्छब्देन संघातभेदौ परामृश्येते। तच तत् उभयं च तदुभयं संघातभेदतदुभयैः करणं क्रियते इति करणं कर्मसाधनः करणशब्दः संघातभेदतदुभय करणम्। इन्द्रायुधादिस्थूलमनन्तपुद्गलात्मकं प्रत्यक्षं चाक्षुषमित्यर्थः / तथाहि / अभ्रादीनां क्वचित्केचित्पुद्गलाः संहन्यन्ते एव क्वचित्केचित् भिद्यन्त एव वकचित्केचित्संहन्यन्ते भिद्यन्ते केचित्संघातभेदतदुभयकरणम् / द्यणु कादीनामादिशब्दात्तथाविधानन्ताणुकान्तानां पुनः करणमिति वर्तत छमचस्थादीनामादिशब्दः स्वगतानेकभेदप्रतिपादनार्थः / अप्रत्यक्षमचाक्षुषमित्यर्थः / उक्तं विस्नसाकरणम् आ०म०द्वि०) अथ प्रयोगकरणमाहहोइ उ एगो जीव-व्वावारो तेण जं विणिम्माणं / सजीवमजीवं वा, पओगकरणं तयं बहुहा / / सजीवं मूलुत्तर-करणं मूलकरणजमाईयं / पंचण्हं देहाणं, उत्तरमाई तियस्सेव // प्रयोजनं प्रयोगो भवति क इत्याह / जीवव्यापारस्तेन यद्विनिर्माण निर्मापणं तत्प्रयोगकरणं भण्यते तच्च सज्जीवमजीवं च बहुधा भवति। सन् विद्यमाना जीवो यत्र तत्सज्जीवं प्रयोगकरणं पञ्चानामौदारिकादिशरीराणां द्रष्टव्यम् इदं च मूलकरणोत्तरकरणभेदाद् द्विविधम्। अंत एवाह (सजीवं मूलुत्तर करणंति) सञ्जीवं प्रयोगकरणं द्विभेदं तद्यथा मूलकरणमुत्तरकरणं च तत्र (मूलकरणजमाईयं ति) पञ्चानामपि शरीराणां यदाद्यं पुद्गलसंघातकरणं तन्मूलकरणं वेदितव्यम् (उत्तरमाइतियस्सेवत्ति) उत्तरकरणत्वादित्रिकस्यैव आद्यानामेवौदारिकवैक्रियाहारकशरीराणां भवति नतु तैजसकार्मणयोरित्यर्थः / नन्यस्याद्यशरीरत्रयस्य शिरउरःप्रभृतीन्यङ्गानि करचरणकुल्या दीनि चोपाङ्गानि भवन्ति तत्रापि कियदिह मूलकरणं कियचोत्तरकरणमिति विभागेन कथ्यतामित्यत्राह। मूलकरणं शिरोऊरु, पिट्ठीबाहोदरोरुनिम्माणं। उत्तरमवसेसाणं, करण केसाइकम्मं च / / इहौदारिकादिशरीरत्रये यच्छिरउरःपृष्टि वाबाहुद्वयो दरोरुद्वयल