SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ कम्मवाइ 342- अभिधानराजेन्द्रः - भाग 3 कम्मविवारा प्रच्युतेरनेकस्वभावत्वे च कर्मणो नाममात्रनिबन्धनैव विप्रतिपत्तिः / पुरुषकालस्वभावादेरपिजगद्वैचित्र्यकारणत्वेनार्थतोऽभ्युपगमात्नच तेन चेतनवताऽनधिष्ठितमचेतनत्वाद्वास्यादिवत् वर्तते अथ तदधिष्ठायकः पुरुषो ऽभ्युपगम्यते न तर्हि कर्मकान्तवादः पुरुषस्य तदधिष्ठायकत्वेन जगद्वैचित्र्यकारणत्वोपपत्तेः नच केवलं किंचिद्वस्तु नित्यानित्यं चाकार्यकृत् संभवीत्यसकृत्प्रतिपादितं तन्न कमकान्तवादोऽपि युक्तिसंगतःसम्म० भवी०१८४ पत्र०। सूत्र०। कम्मवावार पुं० (कर्मव्यापार) अज्ञानादिजनकज्ञानावरणादिलक्षण सामर्थ्य, पञ्चा०३ विव०। कम्मवाहिकिरिया स्त्री० (कर्मव्याधिक्रिया) कर्मरोगाचिकित्सायाम् "इय कम्मवाहिकिरियं वजं भावओ पवण्णस्स" पंचा०१६ विव०) कम्मविउस्सग्ग पुं० (कर्मव्युत्सर्ग) ज्ञानावरणादिकर्मबन्धहेतूनां ज्ञानप्रत्यनीकत्वादीनां त्यागे, भ०२५ श०७ उ०। तद्नेदा यथा से किं तं कम्मविउस्सग्गे ? कम्मविउस्सग्गे अट्ठविहे पण्णत्ते तंजहा णाणावरणिज्जकम्मविउस्सग्गे दरिसणावरणिज्जकम्मविउस्सग्गे वेअणीअकम्मविउस्सग्गे माकहणीयकम्मविउस्स्गे आउअकम्मविउग्गे नामकम्मविउस्सग्गे गोअकम्मविउस्सग्गे अंतरायकम्मविउस्ससग्गे सेत्तं कम्मविउस्सगे। कम्मवियइ स्त्री(कर्मविगति)अशुभानां कर्मणां स्थितिमाश्रित्य विगमे, भ० 6 श०३२ उ०। कम्मविवाग पुं०(कर्मविपाक) त० पुण्यपापात्मकस्य कर्मणः फले स०। स्था० / 'सव्यो पुव्वकयाणं, कम्माणं पावए फलविवागं / अवराहेसु गुणेसुय, णिमित्तमित्तं परो होइ" सूत्र०१श्रु०१२ अ० (किरियावाइशब्दे व्याख्यास्यामि) पुनरपि तद्गरीयस्त्वख्यापनाय प्राणिनां संसार निर्वेदवैराग्योत्पत्त्यर्थमभिधित्सुकाम आह तं सुणेह जहा तहा संति पाणा अंधा तमसि वियाहिया तामेव सयं असयं अतिउव्व उच्चावए फासे पडिसंवेदें ति बुद्धेहिं एअं पवेदितं / संति पाणा वासगा रसगा उदए उदयचरा आगासगामिणो पाणापाणे किले संति पासलोए महब्भयं बहुदुक्खा हु जंतवो सत्ताकामेहिं माणवा अवलेणवहं गच्छंति सरीरेणं मंगुरेणं अट्टे से बहुदुक्खे इति वाले पकुव्वंति एते रोगे बहु णचा अउरा परितावरणालं पास अलं तवे तेहिं एवं पासमुणी महन्मयं णातिवातेज कंचण आयाणभो सुण्णूसमो। (तमित्यादि) तं कर्मविपाकं यथावस्थितं तथैवमावेदयतः शृण्णुत यूथं तद्यथा नारकतिर्यग्नरामरलक्षणाश्चतस्रो गतयस्तत्र नरकगतौ चत्वारो योनिलक्षाः पञ्चविंशतिकुलकोटिलक्षास्त्रयस्त्रिंशत्सागरोपमाण्युत्कृष्टा स्थितिर्वेदनाश्च परमाधार्मिकपरस्परोदीरितस्वाभाविकदुःखानां नारकाणां या भवन्ति ता वाचामगोचराः। यद्यपिलेशतश्चिकथयिषोरभिधेयविषयं न वागवतरति तथापि कर्मविपाकावेदनेन प्राणिनां वैराग्यं यथा स्यादित्येवतर्थः श्लोकैरेव किंचिदभिधीयते। "श्रवणलवनं नेत्रोद्धार: करक्रमपाटनम्। हृदयदहनं नासाच्छेदप्रतिक्षणदारुणम्।। कटिविंदहनं तीक्ष्णपातत्रिशूलविभेदनम्। दहनवदनैः कट्टै_रैः समन्तविभक्षणम्।। तीक्ष्णैरसिभिर्दीप्तैः, कुन्तैर्विषमैः परस्वधैश्चक्रैः। परशुत्रिशुलमुद्र तोमरवासीभुशुण्डीभिः।। संभित्ततालुशिरसौच्छिन्नभुजाच्छिन्नकर्णनायौष्ठाः / भिन्नहृदयोदरान्त्रा, भिन्नाक्षिपुटाः सुदुःखार्ताः / / निपतन्त उत्पतन्तो, विचेष्टमाना महीतले दीनाः / नेक्षन्ते त्रातारं, नैरयिकाः कर्मपटलान्धाः॥ छिद्यन्ते कृपणाः कृतान्तपरशोस्तीक्ष्णेन धारासिना, क्रन्दन्तो विषचक्रिभिः परिवृताः संभक्षणव्यावृतिः। पाट्यन्ते क्रकचेन दारुवदसिप्रच्छित्तवाहुद्वयाः, कुम्भीषुत्रपुपानदग्धतनवो मूषास्तुबान्तर्गताः। भृज्यन्ते ज्वलदम्बरीषु हुततभुग्ज्वालाभिराराविणो, दीप्ताङ्गारनिभेषु वज्रभवनेष्वङ्गारकेषूस्थिताः। दह्यन्ते विकृतोड़बाहुवदनाः क्रन्दन्त आर्तस्वनाः, पश्यन्तः कृपणा दिशो विशरणास्त्राणाय का नो भवदिति" तथा तिर्यग्गतौ पृथिवीकायजन्तुनां सप्त योनिलक्षा द्वादश कुलकोटीलक्षाः स्वकायपरकायशस्त्राणि शीतोष्णादिका वेदनाः / तथाऽप्कायस्यापि सप्त योनिलक्षाः सप्त च कुलकोटिलक्षा वेदना अपि नानारूपा एव। तथा तेजस्कायस्य सप्त योनिलक्षास्त्रयः कुलकोटिलक्षाः पूर्ववद्वेदनादिकम् / वायोरपि सप्त योनिलक्षाः सप्त च कुलकोटिलक्षा वेदना अपि शीतोष्णादिजनिता नानारुपा एव प्रत्येकवनस्पतेर्दश योनिलक्षाः साधारणवनस्पतेश्चतुर्दश उभयरूपस्याप्यष्टा-विशतिः कुलकोटीलक्षास्तत्र च गतोऽसुमाननन्तमपि काले देनभेदनमोटनादिजनिता नानारूपा वेदना अनुभवन्नास्ते। विकलेन्द्रियाणामपि द्वौ द्वौ योनिलक्षौ कुलकोटयस्तु द्वीन्द्रियाणां सप्त, त्रीन्द्रियाणामष्टी, चतुरिन्द्रयाणां नव दुःखं तु क्षुत्पिपासाशीतोष्णादिजनितमनेकधाऽध्यक्षमेव / तेषामिति पञ्चेन्द्रियतिरश्चामपि चत्वारो योनिलक्षाः कुलकोटिलक्षास्तु जलचराणामर्द्धत्रयोदश, पक्षिणांद्वादश, चतुष्पदानां दश, उर:परिसाणां दश, भुजपरिसाणां नव, वेदनाश्च नानारूपायास्तिरश्चां संभवन्ति ताः प्रत्यक्षा एवेति / उक्तं च "क्षुस्टिहीमान्युष्णभयार्दिताना, पराभियोगव्यसनातुराणाम्। अहो तिरश्चामतिदुःखितानां, सुखानुषङ्गं किल वार्तमेत'' दित्यादि मनुष्यगतावपि चतुर्दश यो निलक्षा द्वादश कुलकोटीलश वेदनास्त्वेवंभूता इति। दुःखं स्त्रीकुक्षिमध्ये प्रथममिह भवे गर्भवासे नराणां, वालत्वे चापि दुःखं मललुलिततनुस्त्रीपयः पानमिश्रम्। तारुण्ये चापि दुःखं भवति विरहजं वृद्धभावोऽप्यसारः, संसारे रे मनुष्या! वदत यदि सुखं स्वल्पमप्यस्ति किंचित्।१। बाल्यात्प्रभृति च रोगैर्दृष्टोऽभिभवश्च यावदिह मृत्युः। शोकवियोगायोगैर्दुर्गतदोषैस्त्वनेकविधैः॥ क्षुत्तमहिमोष्णानिलशीतदाहा प्रियादियोगैः प्रियविप्रयोगैः। दौर्भाग्यसौख्यानभिजात्यदासस्यवैरुप्यरोगादिभिरस्पतन्त्रः।२। इत्यादि देवगतावपि चत्वारो योनिलक्षः षडचिं शतिः
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy