________________ कम्म 300 - अभिधानराजेन्द्रः - भाग 3 कम्म यता कथमिति चेत् उच्यते उपशमश्रेण्या पञ्चविधं बन्धमारभ्य द्वितीये समये कालं कृत्वा देवलोकं याति देवलोके च गतः सन्नविरतो भवति अविरतत्वे च सप्तदश बन्ध इत्येकसमयता एवं चतुर्विधबन्धादिष्वपि भावनीयम् / तदेवं कृता कालनिरूपणा। संप्रत्येतेषामेव बन्धस्थानानां मध्ये कस्मिन् कियन्ति प्रागुक्तान्युदयस्थानानि भवन्तीत्येतन्निरूप्यतेदस वावीसे नवइग-वीसे सत्ताइ उदयकम्मंसा। छाईनव सत्तरसे, तेरं पंचाइ अढे व // 17 // चत्तारिआइतवबं-धगेसु उक्कोससत्त उदयंसा। पेचविहबंधगे पुण, उदओ दोण्हं मुणेयव्वो॥१८|| द्वाविंशतिबन्धे सप्तादीनि दशपर्यन्तानि चत्वार्युदयस्थानानि भवन्ति तद्यथा सप्त अष्टौ नव दश / तत्र मिथ्यात्वमप्रत्याख्यानावरणसंज्वलन क्रोधादीनामन्यतमे त्रयः क्रोधादिका यतएकस्मिन् क्रोधे वेद्यमाने सर्वेऽपि क्रोधा बध्यन्ते समजातीयत्वात् / एवं मायालोभानामुदयः परस्परं विरोधादित्यन्यसतमे त्रयो गृह्यन्ते। तथा त्रयाणां वेदानामन्यतमो वेद: हास्यरतियुगलारतिशोकगुलयोरन्यतरत् युगलमेतासां सप्तप्रकृतीनां द्वाविंधतिबन्धके मिथ्यादृष्टावुदयो ध्रुवः। अत्र भङ्गाश्चतुर्विंशतिः तद्यथा हास्यरतियुगले अरतिशोकयुगले च प्रत्येकमेकैको भङ्गः प्राप्यते इतिव्र भङ्गौ तौ प्रत्येकं त्रिष्वपि वेदेषु प्राप्येते इति द्वौ त्रिर्गुणितौ जाताः षट् तेच प्रत्येकं त्रिष्वपि क्रोधादिषु चतुर्षु प्राप्यन्ते इति षट् चतुर्भिर्गुणिता जाताश्चतुर्वि शतिः तस्मिन्नेव सप्तके भये वा जुगुप्सायां वा अनन्तानुबन्धिनि वा प्रक्षिप्ते अष्टानाभुदयः। अत्र भयादौ प्रत्येकमेकैका चतुर्विशतिः प्राप्यते इति तिस्रश्चतुर्विंशतयोऽत्र द्रष्टव्याः / ननु मिथ्यादृष्टे रवश्यमनन्तानुबन्धिानामुदयः संभवति तत्कथमिह मिथ्यादृष्टिः सप्तोदये अष्टोदये वा कस्मिंश्चिदनन्तानुबन्ध्युदयरहितः प्रोक्तः / उच्यते इह सम्यग्दृष्टिना सता केनचित् प्रथमतोऽनन्तानुबन्धिनो विसंयोजिताः एतावतैव च सविस्रान्तो न मिथ्यात्वादिक्षयाय उद्युक्तवान् तथाविधसामग्रयभावात् ततः कालान्तरे मिथ्यात्वं गतः सन् मिथ्यात्वप्रत्ययतो भूयोऽप्यनन्तानुबन्धिनो बध्नाति ततो बन्धावलिका यावन्नाद्याप्यतिक्रामति तावत्तेषांमुदयो न भवति बन्धावलिकायां त्वतिक्रान्तायां भवेदिति। ननुकथां बन्धावलिकातिक्रमेऽप्युदयः संभवति यतोऽबाधाकालक्षये सत्युदयः अबाधाकालश्चानन्तानुबन्धिनां जघन्येनान्तर्मुहूर्तमुत्कर्षेण तु चत्वारि वर्षसहस्राणीति नैष दोषः यतो बन्धसमयादारभ्यतेषां तावत्सत्ता भवति सत्तायांचसत्यां बन्धे प्रवर्त्तमाने पतद्ग्रहता पतद्ग्रहतायां च शेषसमानजातीप्रकृतिदलिकं सक्रान्तिः संक्रामद्विदलिकं पतद्ग्रहप्रकतिरूपतया परिणमतो ततः संक्रमाबलिकायामतीतायामुदयस्ततो बन्धावलिकायाम-तीतायामुदयोऽभिधीयमानो न विरुध्यते / तथा तस्मिन्नेव सप्तके भयजुगुप्सयोरथवा भयानन्तानुबन्धिनोः यद्वा जुगुप्सानन्तानुबन्धिना: प्रक्षिप्तयोर्नवानामुदयः अत्रप्येकैकस्मिन् विकल्पे प्रागुक्तक्रमेध भङ्गकानां चतुर्विंशतिः प्राप्यते इति तिस्रश्चतुर्विंशतयो द्रष्टव्याः / तथा तस्मिन्नेव सप्तके भयजुगुप्सानन्तानुबन्धिषु प्रक्षिप्तेषु दशानां च उदयः अत्रैकैव भङ्गकानां चतुर्वि शतिः सर्वसंख्यया द्वाविंशतिबन्धे अष्टौ चतुर्विंशतयः (नवएकवीसत्ति) एकविंशतौ एकविंशतिबन्धसप्तादीनि नव पर्यन्तानि त्रीणि उदयस्थानानि भवन्ति तद्यथा अष्टौ नव तत्र सप्त / अनन्तानुबन्ध्यप्रत्याख्यानावरणसंज्वलनक्रो धदीनामन्यतमकं च चत्वारः क्रोधादिकास्त्रयाणां वेदानामन्यतमो वेद: द्वयोर्युगलयोरन्यरत् युगलमेतासां सप्तप्रकृतीनामुदय एकविंशतिबन्धे ध्रुवः / अत्र प्रागुक्तक्रमेण भङ्गकानां चतुर्विंशतिः। तथा तस्मिन्नेव सप्तके भये वा जुगुप्सायां वा क्षिप्तायामष्टानामुदयः। अत्र द्वे चतुर्विशती भड़कानां भयजुगुप्सायां युगपत् प्रक्षिप्तयोर्नवानामुदयः / अत्र चैका भङ्गानां चतुर्विंशतिः सर्वसंख्यया एकविंशतिबन्धे चतसश्चतुर्विंशतयः अयं च एकविंशतिबन्ध: सासादने प्राप्यते / सासादनश्च द्विधा श्रेणिगतोऽश्रेणिगतश्च / तत्राश्रेणिगतं सासादनमाश्रित्यामूनि सप्तादीनि उदयस्थानान्यवगतन्तव्यानि। यस्तु श्रेणिगतस्तत्रादेश द्वयीं के चिदाहुः / अनन्तानुबन्धिसत्कर्मसहितोऽप्युपशमश्रेणिं प्रतिपद्यते तेषां मतेनानन्तानुबन्धिनामप्युपशमता भवति एतच सूत्रेऽपि संवादि तदुक्तं सूत्रे "अणदंसनपुंसनपुंसत्थी' इत्यादि श्रेणीतश्च प्रतिपतन् कश्चित्सासादनभावं चोपगते यथोक्तानि त्रीण्युदयस्थानानि भवन्ति / अपरे पुनराहुः / अनन्तानुबन्धिनः क्षपयित्वैवोपशमश्रेणिं प्रतिपद्यतेनतत्र कर्मातेषां मतेन श्रेणीतः प्रतिपतन् सासादनोन भवति तस्यानन्तानुबन्ध्युदयासंभवात्। अनन्तानुबन्ध्युदयसहितश्च सासादन इप्यते "अनंतानुबंधुदयरहितस्स, सासणभावो न संभवति" इति वचनात्। अथोच्यते यदा मिथ्यात्वं प्रत्यभिमुखो न चाद्यापि मिथ्यात्वं प्रतिपद्यते तदानीमनन्तानुबन्ध्युदयरहितोऽपि सासादनस्तेषां मते न भविष्यतीति किमत्रायुक्तं तदयुक्तमेवं सति तस्य षडादीनि नवपर्यन्तानि चत्वार्युदयस्थानानि भवेयुः न च भवन्ति सूत्रे प्रतिषेधातः / तैरप्यनभ्युपगमाच्च / तस्मादनन्तानुबन्ध्युदयरहितः सासादनो न भवतीत्यवश्यं प्रत्त्येयम् ।(छाईनवसत्तरसे) सप्तदशके बन्धस्थानेषडादीनि नवपर्वन्तानि चत्वार्युदयस्थानानि भवन्ति तद्यथा षट् सप्त अष्टौ नव सप्तदश बन्धकादिद्वये सम्यग्मिथ्यादृष्टयोऽविरतसम्यग्दृष्टयश्च। तत्र सम्यग्मिथ्यादृष्टीनां त्रीण्युदयस्थानानि तद्यथा सप्त अष्टौ नव / तत्रानन्तानुबन्धिवस्त्रियोऽन्यतमे क्रोधादय: त्रयाणां वेदानामन्यतमो वेद: द्वयोर्युगलयोरन्यतरत् युगलं सम्यग्मिथ्यात्वं चेति सप्तानां प्रकृतीनामुदयः सम्यन्तिथ्यादृष्टिषु ध्रुवः / अत्र प्रागुक्तक्रमेण भङ्गकानां चतुर्विशतिः अस्मिन्नेव सप्तके भये वा जुगुप्सायां वा प्रक्षिप्तायामष्टानामुदयः / अतं च द्वे चतुर्विंशती भङ्गानाम्। भयजुगुप्सयोस्तु युगपत्प्रक्षिप्तयोर्नवानामुदयः अत्र चैका चतुर्विंशतिभङ्ग काना सर्वसंख्यया सम्यग्मिथ्यादृष्टीनां चतस्रश्चतुर्विंशतयः अविरतसम्यग्दृष्टीनां सप्तदश बन्धकानां चत्वार्युदयस्थानानि तद्यथा षट् सप्त अष्टौ नव तत्रोपशकसम्यग्दृष्टीनां क्षायिकसम्यग्दृष्टीनां च अविरतसम्यग्दृष्टीनामनन्तानुबन्धिवस्त्रियोऽन्यतमे क्रोधादिकाः त्रयाणां वेदनामन्यतमो वेद: द्वयोर्युगलयोरन्ययतरत् युगलमिति षण्णामुदयो ध्रुवः अत्र प्रागिव भङ्गाकानामेका चतुर्विंशतिः अस्मिन्नेव षटके भये जुगुप्सायां वा वेदकसम्यक्त्वे वा प्रक्षिप्ते सत्तानामुदयः / अत्र भयादिषु प्रत्येक मेकै का चतुर्विंशतिः प्राप्यते इति तिस्रश्चतुर्विशतयः / भयजुगुप्सावेदकसम्यक्त्वेषु युगपत्प्रतिप्तेषु नवानामुदयः / अत्र चैका भङ्गानां चतुर्विंशतिः अविरतसम्यग्दृष्टीनां सर्वाश्चतुर्विंशतयोऽष्टौ सर्वसंख्यया सप्तदधबन्धे द्वादश चतुर्विशतयः (तेरेपचाइअद्वेवत्ति) त्रयोदशके बन्धस्थाने पञ्चादीन्यपर्यन्तानि चत्वार्युदयस्थानानि भवन्ति तद्यथा पश्च सप्त अष्ठौ / तत्र प्रत्याख्यानावरणसंज्वलनक्रो