________________ कम्म २९८-अभिधानराजेन्द्रः - भाग 3 कम्म मत्परस्परविरुद्धत्वेन युगपद् द्वित्रायुषां बन्धाभावात् उदयस्थानमप्येकं तदपि चतुर्णामन्यतमत् युगपद् द्वित्रायुषामुदयाभावात् द्वे सत्तास्थाने तद्यथा द्वे एकं च तत्रैकं चतुर्णामन्यतमत् यावदन्यतरभवायुर्न बध्यते परभवायुषि च बद्धे यावदन्यत्र परभवेनोत्पद्यते तावद् द्वे सती। संप्रति संवेध उच्यते तत्रायुषस्तिस्रोऽवस्थास्तद्यथा परभवायुर्बन्धकालात् पूर्वावस्था परभवायुर्बन्धकालावस्था परभवायुर्वन्धोत्तरकालावस्था च / तत्र नैरयिकस्य परभवायुर्बन्धकालात् पूर्वनरकायुष उदयो नरकायुषः सत्ता एष विकल्प आद्येषु चतुर्पु गुणस्थानकेषु शेषगुणस्थानकस्य नरकेष्वसंभवात् परभवायुर्वन्धकाले तिर्यगायुषो बन्धोनारकायुष उदयो नारकतिर्यगायुषी सती एष विकल्पो मिथ्या दृष्टेः सासादनस्य या द्वयोरेवाद्ययोर्गुणस्थानकयोस्तिर्यगायुषो बन्धसंभवात् / अथवा मनुष्यायुषो बन्धो नारकायुष उदयो नारकमनुष्यायुषी सती एष विकल्पो मिथ्यादृष्टः सासादनस्याविरतसम्यग्दृष्टेर्वा बन्धोत्तरकालं नारकायुष उदयो नारकतिर्यगायुषी सती एष विकल्प आद्येषु चतुर्ध्वपि गुणस्थानकेषु तिर्यगायुबन्धानन्तरं कस्यापि सम्यक्त्वे सम्यग्मिथ्यात्वे वा गमनसंभवात् / अथवा नारकायुष उदयो मनुष्यनारकायुषी सती इह नारका देवायु रकायुश्च भवप्रत्ययादेव नबध्नन्तितत्रोत्पत्त्यभावात्। यदुक्तम् "देवा नारका वा देयेसु नारकेसु वि न उविवजितित्ति'' ततो नारकाणां परभवायुबन्धकाले बन्धोत्तरकाले देवायुरिकायुभ्यां विकल्पाभावात् सर्वसंख्ययया परश्चैव विकल्पा भवन्ति एव देवानामपि पञ्चविकल्पा भावनीया नवरं नरकायुः स्थाने देवायुरिति वक्तव्यं तद्यथा देवायुष उदयः देवायुषः सत्ता इत्यादि। तथा तिर्यगायुष उदयस्तिर्यगायुषः सत्ता एष विकल्प आद्येषु पञ्चसु गुणस्थानकेषु शेषगुणस्थानकस्य तिर्यश्वसंभवात्। एष विकल्पः परभवायुर्बन्धकालात् पूर्व बन्धकाले तु नारकायुषां बन्धस्तिर्यगायुष उदयः नारकतिर्यगायुषी सती एष विकल्पो मिथ्यादृष्टेरन्यत्र नारकायुषो बन्धाभावात् / बथवा तिर्यगायुषो बन्धस्तिर्यगायुषी उदय: तिर्यगायुषी सती एष विकल्पो मिथ्यादृष्टः सासादनस्य वा नान्यस्य सम्यग्दृष्टर्देशविरतस्य तिरश्चोऽविरतस्य च देवायुष यव बन्णसंभवात्। अथवा देवायुषो बन्धस्तिर्यगायुष उदयः देवतिर्यगायुषी सता एष विकल्पो मिथ्यादृष्टे: सासादनस्याविरतसम्यादृष्टर्देशविरतस्य वा न सम्यगमिथ्यादृष्टे: तस्यायुर्बन्धासंभवात् एते चत्वारो विकल्पा: परभवायुर्बन्धकाले। बन्धे तुव्यवच्छिन्ने तिर्यगायुष उदयोनारकतिर्यगायुषी सती एष विकल्पा आद्येषु पञ्चसु गुणस्थानेषु नरकायुर्बन्धानन्तरं सम्यक्त्वादावपि गमनसंभवात् अथवा तिर्यगायुष उदयो तिर्यकतिर्यगायुषी सती अथवा तिर्यगायुष उदयो देवतिर्यगायुषी सती एतेऽपि त्रयो विकल्पा आयेषु पञ्चसु गुणस्थानकेषु सर्वसंख्यया तिरश्चां नव विकल्पा: चतसृष्वपि गतिषु तिरश्चामुत्पादसंभवात् तथा मनष्यायुष उदयो मनुष्यायुषः सत्ता एष विकल्पोऽयोगिके वलिनं यावत् / तथा नारकायुषो बन्धो मनुष्यायुष उदयः नारकमनुष्यायुषी सती एष विकल्पो मिथ्यादृष्टः सासादनस्य वा। मनुष्यायुषो बन्धोमनुष्यायुष उदयो मनुष्यमनुप्यायुषी सती एष विकल्पो मिथ्यादृष्टः सासादनस्य वा / मनुष्यायुषो बन्धो मनुष्यायुषो उदयो मनुष्यमनुष्यायुषी सती एष विकल्पो सम्यग्दृष्ट: सासादनस्य वा देवायुषो बन्धो मनुष्यायुष उदयो देवमनुष्यायुषी सती एष विकल्पो प्रमत्तगुणस्थानकं उदयो देवमनुष्यायुषी सती एष विकल्पो प्रमत्तगुण स्थानकं यावत् एते चत्वारो विकल्पा: परभवायुर्बन्धकाले बन्धेतु व्यवच्छिन्ने मनुष्यायुष उदयो नरक मनुष्यायुषी सती एष विकल्पोऽप्रमत्तगुणस्थानकं यावत् मनुष्यायुष उदयो मनुष्यमनुष्यायुषी सती एष विकल्प: प्राग्वत् मनुष्यायुष उदयो देवमनुष्यायुषी सती एष विकल्प उपशान्तमोहगुणस्थानकं यावत् देवायुषि बद्धेऽप्युपशमश्रेण्यारोहसंभवात् सर्वसंख्यया मनुष्याणां नव भङ्गाः तदेवमायुषि सर्वसंख्यया अष्टाविंशतिभङ्गाः। तथा गोत्रे सामान्येनैकं बन्धस्थानं तद्यथा उचैर्गोत्रं नीचैर्गोत्रं वा परस्परविरुद्धत्वेन युगपद्न्धाभावात् उदयस्थानमप्येकं तदपि द्वयोरन्यतरत् परस्परविरुद्धत्वेन युगपद् द्वयोरुदयाभावात् द्वे सत्तास्थाने तद्यथा द्वे एकं च / तत्र उच्चैर्गोत्रनीचैर्गोत्रे समुदिते द्वे तेजस्कायिकावस्थायसमुच्चैर्गोत्रे उद्वलिते एकम् / अथवा नीचैर्गोत्रे अयोगिकेवलिद्विचरमसमये क्षीणे एकम् सम्प्रति संवेध उच्यते नीचेर्गोत्रस्य बन्धः नीचैर्गोत्रस्योदय: नीचैर्गोत्रस्य सत् विकल्पस्तेजस्कायिकवायुकायिके षु लभ्यते तद्भवादुवृत्तेषु वा शेषजीवेष्वेकद्वित्रियचतुस्तिर्यक्पञ्चेन्द्रियेषु कियत्कालं नीच्चैर्गोत्रस्य बन्धः नीचैर्गोत्रस्योदयः उच्चनीचैर्गोत्रस्य बन्ध: उच्चैर्गोत्रस्योदय: उच्चनीचैर्गोत्रे सती एतौ च द्वी विकल्पो मिथ्यादृष्टिषु सासादनेषु वा न सम्यग्मिथ्यादृष्ट्यादिषु तेषां नीचैर्गोत्रबन्धाभावात्। तथा उच्चैर्गोत्रस्य बन्धो नीचैोत्रे सती उष विकल्पो मिथ्यादृष्टिगुणस्थानकादारभ्य देशविरतिगुणस्थानकं यावत् प्राप्यते न परतः परतो नीचैत्रस्यो दयाभावात् तथा उच्चर्गोत्रस्य बन्ध उच्चैर्गोत्रस्योदय: उच्चनीचैर्गोत्रे एष विकल्पो मिथ्यादृष्टरारभ्यसूक्ष्मसंपरायगुणस्थानकं यावत् न परतः परतो बन्धाभावात् बन्धाभावे उच्चैर्गोत्रस्योदय: उच्चनीचैर्गोत्रसती एष विकल्प उपशान्तमोहगुणस्थानकादारभ्योगिकेवलिद्विचरमसमयं चावदवसेय: / उच्चैर्गोत्रस्योदय: उच्चैोत्रं सत् विकल्पोऽयोगिके वलिचरमसमये तदेवमेते गोत्रस्य सर्वसंख्यया सप्त भङ्गा: (परंमोहं वोच्छ) अतः परं मोहं वक्ष्ये मोहनायस्य बन्धादिस्थानानि वक्ष्ये इत्यर्थः "गोअम्मि सत्तभंगा, अट्ठयभंगा हवंति वेअणिए। पण नव नव पण भंगा, आउचउक्के विकमसो उ॥१॥" इयं गाथा मूलपुस्तकेषूपलभ्यमानापि टीकापुस्तके नास्तीति नास्मीभिः स्थूलाक्षरैः प्रकाशिता, नापि व्याख्याता। तत्र प्रथमं बन्धस्थानप्ररूप-- णार्थमाह / / वावीस एकवीसा, सत्तरसा तेरसेव नव पंच। चउतिगद्गं च एकं , बंधट्ठाणाणि मोहस्स // 12 // मोहस्य दश बन्धस्थानानि तद्यथा द्वाविंशतिः एकविंशतिःसप्तदश त्रयोदश नव पंच चतस्र: तिस्रः द्वे एकाच तत्र सम्यग्मिथ्या त्वे बन्धे न भवतो नच त्रयाणां वेदानां युगगपद्वन्धः किंत्वेककालभेवकस्यैव हास्यरतियुगलारतिशोकयुगले अपि न युगपद्वन्धमायात: किंत्वेकमेव यूगलं ततो मोहनीयस्योत्कर्षतः प्रभूतप्रकृतिबन्धो द्वाविंशतिः सा च मिथ्यादृष्टिगुणस्थानके प्राप्यते ततः सासादनसम्यग्दृष्टिगुणस्थानके मिथ्यात्वस्य बन्धाभावात्। एकविंशति: यद्यप्यत्र नपुंसकवेदस्यापि बन्धो न भवति तथापि तत्स्थाने स्त्रीवेद: पुरुषवेदो वा प्रक्षिप्यते इत्येकविंशतिरेव बन्धः / ततो मिश्राविरतसम्यग्दृष्टिगुणस्थानकयोरनन्तानुबन्धिनामपि बन्धाभावात् सप्तदश।ततोऽपि देशविरतिगुण स्थानकेऽप्रत्याख्यानकषायाणां बन्धाभावात् यो देशविरतस्ततोऽपि प्रमत्ताप्रमत्तापूर्वकरणेषु प्रत्याख्यानावरणानां बन्धाभावात् तत्र यद्यप्य