________________ एगंतपंडिय 5- अभिधानराजेन्द्रः - भाग 3 एगंतवाय मणुस्से नेरइयाउयंपकरेइ" एकान्तपण्डितः साधुः (मण्णस्सेत्ति) विशेषणं स्वरूपज्ञानार्थमेव अमनुष्यस्यैकान्तपण्डितत्वा-योगात्तदयोगश्च सर्वविरतेरन्यस्याभावादिति। भ०१ श०८ उ०। एगंतबाल-पुं०(एकान्तबाल) मिथ्यादृष्टौ, अविरते च / “एगंत-बालेणं भंते ! मणुस्से" भ०१श०८ उ०/ एगंतमिच्छा-अव्य०(एकान्तमिथ्या) एकान्तेन मिथ्याभूते, "एगंतमिच्छेअसाहु" एकान्तेनैव तत्स्थानतो मिथ्याभूतं मिथ्यात्वोपहतबुद्धीनां यतस्तद्भवत्यत एवासाधु असद्वृत्तत्वात् न ह्ययं सत्पुरुषसेवितः पन्था येन विष यान्धाः प्रवर्तन्त इति / सूत्र०२ श्रु०२ अ०। (अत्रैगंतादिशब्देषु द्वित्वक्कवन्त्यपि रूपाणि भवन्ति तानि विस्तरभयान्न प्रदर्श्यन्ते स्वयमूह्यानि) एगंतमोण-न०(एकान्तमौन) संयमे "एगंतमोणेण वियागरेज्जा'' केनचित्पृष्टोऽपृष्टो वैकान्तमौनेन संयमेन करणभूतेन व्या-गृणीयादिति" सूत्र०१ श्रु०१३ अ० एगंतर-न०(एकान्तर) एकमन्तरं व्यवधानम् / एकव्यवधाने, वाच० "अट्ठोवासा एगंतरेण विहियारणं च आयाम" एकदिन-व्यवधानेन भोजनरूपे व्रतभेदे,पंचा०१६ विव०। एकान्तरवर्तिनि त्रि० एकान्तरासु जातानां धर्म विद्यादिमं विधिम्" वाच० एकस्मादन्य एकान्तरम्। अनन्तरे एकस्मिन्, / तथाच "वाग्द्रव्याणाम् ग्रहणविसर्गाविधिकृत्य "एगंतरं च गिण्हई, निसिरइ एगंतरं चेदं" "एकान्तरमेव गृह्णाति निसृजत्येकान्तरं चैव" अयभत्र भावार्थः। प्रतिसमयं गृह्णाति मुञ्चति कथं यथा ग्रामादन्यो ग्रामो ग्रामान्तरं पुरुषाद्वाऽन्यः पुरुषनिरन्तरोऽपि सन् पुरुषान्तरमेवैकैकस्मा-त्सपयादेकक एवैकान्तरोऽनन्तरसमय एवेत्यर्थः। विशे०। एकदिनव्यवधानेन जायमाने ज्वरभेदे, वाच०।। एगंतरइपसत्त-त्रि०(एकान्तरतिप्रसक्त) एकान्तेन सर्वात्मनारतौ रमणे प्रसक्ता एकान्तरतिप्रसक्तासर्वात्मना रतौ प्रसक्ते, राज०।। एगतलूसग-पुं०(एकान्तलूषक) एकान्तेन जन्तूनां हिंसके एकान्तेन . सदनुष्ठानस्य ध्वंसके च, "आतदंडा एगंतलूसगा गंता ते पावलोगयं" एकान्तेन जन्तूनां लूषकाः हिंसकाः सदनुष्ठानस्य वा ध्वंसकास्ते। ते एवंभूता गन्तारो यास्यन्ति पापं लोसं पापकर्म-कारिणां यो लोको नरकादिश्विररात्रमिति प्रभूतं कालं तन्निवासिनो भवन्तीति / सूत्र०१ श्रु०२ अग एगंतवदात-त्रि०(एकान्तावदात) शुभ्रे, "संखेंदुएगंतवादतसुकं ' सूत्र०१ श्रु०३ अ० एतवाइ(न)-पुं०(एकान्तवादिन) नित्यानित्यायेकपक्षा-भ्युपगन्तरि, स्था। सूत्र एगंतवाय-पुं०(एकान्तवाद) नित्यानित्याघेकपक्षाभ्युपगमे, स्था० एकान्तवादस्य च मिथ्यात्वम्तदेवेति नियमेनकान्ताभ्युपगमे सर्व एवैते मिथ्यावादा उक्तन्यायेन नियमेन मिथ्यात्वमित्यभिधानात् कथंचिदभ्युपगमे सम्यग्वाद एवैत इत्युक्तं भवति यत उत्पादव्ययधोव्यात्मकत्वे वस्तुनः स्थिते तद्वस्तु तत्तपेक्षया कार्य-मकार्य च कारणमकारणं च कारणे कार्यं सर्वासर्वकारण कार्य काले विनाशवदविनाशवच तथैव प्रतीतेरन्यथा वा प्रतीतेरत एका-नतरूपस्य वस्तुनोऽभावात् / सम्म०।। तथाच नित्यानित्याचे कान्तवादे दोषसामान्यभिहितमिदानी कतिपयतद्विशेषान्नाम-ग्राहं दर्शयंस्तत्प्ररूपकाणामसद्भूतोद्भावकतयोद्भूते तथा विधरिपुजनजनितोपद्रवमिव परित्रातुर्धरित्रीपतेस्त्रिजगत्पतेः पुरतो भुवनत्रयं प्रत्ययकारिकारितामाविष्करोति। नैकान्तवादे सुखदुःखभोगौ, न पुण्यपापे न च बन्धमोक्षौ / दुर्नीतिवादव्यसनासिनैवं,परैर्विलुप्तं जगदप्यशेषम्।।२७|| एकान्तवादे नित्यानित्यैकान्तपक्षाभ्युपगमे न सुखदुःखभोगौ घटेते न च पुण्यपापे घटते न च बन्धमोक्षौ घटेते, पुनः पुनर्न प्रयोगोत्यन्ता घटमानतादर्शनार्थः। तथाह्येकान्तनित्ये आत्मनितावत्सुखदुःखभोगौ नोपपद्येते नित्यस्य हि लक्षणाप्रच्यु-तानुत्पन्नस्थिरैकरूपत्वम् / ततो यदात्मा सुखमनुभूयस्वका-रणकलापसामग्री वशाददुःखमुपभुङ्क्ते तदा स्वभावभेदाद नित्यत्वापत्त्या स्थिरैकरूपताहानिप्रसङ्गः। एवदुःखमनुभूय सुखमुपभुजानस्यापि वक्तव्यम् / अथावस्थाभेदादयं व्यवहारो न चावस्थासुभिद्यमानास्वपि तद्वतो भेदः सर्वस्यैव कुण्डलार्जवाद्यवस्थास्विति चेन्ननु तास्ततो व्यतिरिक्ता अव्य-तिरिक्ता वा व्यतिरेके तास्तस्येति संबन्धाभावेऽतिप्रसङ्गात् / अव्यतिरेके तु तद्वानेवेति तदवस्थितैव स्थिरैकरूपताहानिः। कथंचित्तदेकान्तरूपत्वेऽवस्थाभेदो भवेदिति! किंच सुखदुःख-भोगौ पुण्यपापनिवृत्यैतन्निवर्तनं चार्थक्रिया सा च कूटस्थ-नित्यस्य क्रमेणाक्रमेण वा नोपपद्यत इत्युक्तमयम्। तत एवोक्तं न पुण्यपापे इति पुण्यं दानादिक्रियोपार्जनीयं शुभं कर्म पापं हिंसादिक्रियासाध्यमशुभं कर्म ते अपि न घटते प्रागुक्तनीतेः। तथा न बन्धमोक्षौ बन्धः कर्मपूद्गलैः सह प्रतिप्रदेशमात्मनो भवद्भ्यः इवायःपिण्डवदन्योन्यसंश्लेषः / मोक्षः कृत्सकर्मक्षयस्तावप्येकान्तनित्येन स्याताम् / बन्धो हि संयोगविशेषः स चाप्राप्तानां प्राप्तिरितिलक्षणः प्राक्कालभाविनि अप्राप्तिरन्यावस्था उत्तरकालभाविनि प्राप्तिरन्या तदनयोरप्यवस्थाभेददोषो दस्तरः कथंचनैकरूपत्वे सति तस्याकस्मिको बन्धनसंयोगः बन्धनसंयोगाच प्राक्किं नायं मुक्तोऽमुक्तो वाऽभवत् / किंच तेन बन्धनेनासौ विकृतिमनुभवति न वाअनुभवति चेच्चर्मादिवदनित्यः नानुभवति चेन्निर्विकारत्वे सताऽसता वा तेन गगनस्येव न कोऽप्यस्य विशेष इतिबन्धवैफल्यान्नित्यमुक्तएव स्यात्ततश्च विशीर्णा जगति बन्धमोक्षव्यवस्था तथा च पठन्ति "वर्षातपा-भ्यां किं व्योमेश्चर्मण्यस्ति तयोः फलम् चर्मोपमश्चेत्सोऽनित्यः खल्वल्पश्चेदसत्फलः" बन्धानुपपत्तौ मोक्षस्याप्यनुपपत्तिर्बन्धनविच्छेदपायत्वान्मुक्तिशब्दस्येति / एवम नित्यै-कान्तवादेऽपि सुखदुःखाद्यनुपपत्तिरनित्यं हि अत्यन्तोछेद धर्मकत्वं तथाभूते चात्मनि पुण्योपादान क्रियाकारिणो निरन्वयं विनष्टत्वात्कस्य नाम तत्फलभूतसुखानुभवः / एवं पापोपादान-क्रिया कारिणोऽपि निरन्वयविनाशे कस्य दुःखसंवेदनमस्तु एवं चान्यः क्रियाकारि अन्यश्च तत्फलभोक्त्यसमजसमापद्यते / अथ "यस्मिन्नेव हि सन्ताने, आहिता कर्मवासना / फलं तत्रैव संधत्ते, कसैरक्तया यथा" इति वचनान्नासमञ्जसमित्यपि वाङ्मानं सन्तानवासनयोरवास्तवत्वेन प्रागेव निर्लो चितत्वात् तथापुण्यपापे अपि न घटेते तयोहि अर्थक्रियासुखदुःखोपभोगस्तदनुपपत्तिश्चानन्तरमेवोक्ता ततोऽर्थक्रियाकारित्वाभावात्तयोरप्यघटमानत्वम् / किं चानित्यः क्षणमात्रस्थायी तस्मिश्च क्षणे उत्पत्तिमात्रव्यग्रत्वात्तस्य कुतः पुण्यपापोपादानक्रियार्जनम्। द्वितीयादिक्षणे चावस्थात्वमेव न लभते पुण्यपापोपादानक्रियाभावे च पुण्यपापे कुतो निर्मूलत्वात्तदसत्वे च कुतस्तत्सुखदुःखभोगः। आस्तां वा कथंचिदेतत्तथापि पूर्वक्षणसदृशे नोत्तरक्षणेन भवितव्यमुपादानानु-रूपत्वादुपादेयस्य ततः पूर्वक्षणदुःखितादुत्तरक्षणः कथं सुखित उत्पद्यते कथं च सुखितात्ततः स दुःखितः स्याद्विसदृशभागतापत्तेः / एवं पुण्यपापादावापि तस्माद्यत्किचिदे तत् / एवं बन्धमोक्षयोरप्यसं-भवो लोकेऽपि हि य एव बद्धः स एव मुच्यते निरन्वयनाशाभ्युपगमे च एकाधिकरणत्वाभावात् संतानस्य वा वस्तयत्वात्कुतस्तयोः संभावनामात्रमपीति / परिणामि