________________ 263 अभिधानराजेन्द्रः भाग 3 कम्म सततोदयेनानादिरुदयो भूत्वा सयोगिकेवलिचरमसमये यदोदयव्यवच्छेदमनुभवति तदा नादिसान्तभङ्गक इति / ध्रवबन्धिनीषु पूर्वोक्तस्वरूपासु सप्तचत्वारिंशत्संख्यासु तृतीयवर्जभङ्गत्रिकं भवति / तथा हि यो बन्धोऽनादिकालादारभ्य सन्तानभावेन सततं प्रवृत्तो न कदाचन व्यवच्छेदमाप्तो न चोत्तरकालं कदाचिद् व्यवच्छेदमाप्स्यते सोऽनाद्यनन्तोऽभव्यानामेव भवति। यस्त्वनादिकालात्सततं प्रवृत्तोऽपि पुनर्बन्धव्यवच्छेदं प्राप्स्यति असावनादिसान्तोऽयं भव्यानाम् / साधनन्तलक्षणस्तु तृतीयभङ्गकः शून्य एव न हि यो बन्धः सादिर्भवति स कदाचिदनन्तः संभवतीति तृतीयभङ्गकवर्जनम् / यः पुनः पूर्व / व्यवच्छिन्नः पुनबन्धनेन सादित्वमासाद्य कालान्तरे भूयोऽपि व्यवच्छेदं प्राप्स्यति सोऽयं सादिसान्त इत्येवंस्वरूपं साधनन्तलक्षणतृतीयशून्यभङ्ग वाआजतभङ्ग कत्रयं ध्रुवबन्धिनीषु भवति / सूत्रेऽपि पुस्त्वं प्राकृतत्वात् / प्राकृते लिङ्ग व्यभिचार्य्यपि भवति यदाह पाणिनिः स्वप्राकृलक्षणे लिङ्ग व्यभिचार्य्यपीति / तत्र प्रथमभङ्ग कस्तासां सर्वासामप्यभव्याश्रितः सुप्रतीत एव ध्रुवबन्धिनीः प्रति तद्वन्धस्यानाद्यनन्तत्वादिति / द्वितीयभङ्ग कस्तु ज्ञानावरणपञ्चकदर्शनावरण चतुष्कान्तरायपञ्चकलक्षणानां चतुर्दशप्रकृतीनामनादिकालासन्तानभावेनानादिस्तत्सूक्ष्मसंपरायचरमसमये यदा बन्धो वयवच्छिद्यते तदा भवति।आसामेव चतुर्दशप्रकृतीनामुपशान्तमोहे यदा अबन्धकत्वमासाद्यायुःक्षयेणाद्धाक्षयेण वा प्रतिपतितः सन् पुनर्बन्धेन सादिबन्धं विधाय भूयोऽपिसूक्ष्मसंपरायचरमसमये बन्धव्यच्छेदं विधत्ते तदा सादिसान्तलक्षणश्चतुर्थः। चतुर्दशानां च प्रकृतीनां तृतीयभङ्गको न लभ्यते इति संज्वलनकषायचतुष्कस्य तु सदैवाप्तानादिबन्धभावो यदा तत्प्रथमतया अनिवृत्तबादरादिबन्धव्यवच्छेदं विधत्ते तदाऽनादिसान्तस्वभावस्तस्य द्वितीयो भङ्गः / यदा ततः प्रतिपतितः पुनर्बन्धेन संज्वलनबन्धंसादि कृत्वा पुनरपि कालान्तरेऽनिवृत्तिबादरादिभावं प्राप्त सन्तान् भन्त्स्यति तदा सादिसान्तस्वरूपः संज्वलनचतुष्कस्य चतुर्थ इति / निद्राप्रचलातैजसकार्मणवर्ण चतुष्कागुरुलघूपघातानिर्माणभयजुगुप्सास्वरूपाणां त्रयोदशप्रकृतीनामनादिकालादनादिबन्धं विधाय यदा अपूर्वकरणाद्धायां यथास्थानं बन्धोपरमं करोति तदा द्वितीयो भङ्गकः / यदा तु ततः प्रतिपतितः पुनर्बन्धविधानेन सादित्वमासाद्य भूयोऽपिकालान्तरेऽपूर्वकरणमारूढस्य बन्धाभावस्तदा चतुर्थ इति / चतुर्णा प्रत्याख्यानावरणानां बन्धो देशविरतगुणस्थानकं यावद-नादिस्ततः प्रमत्तादौ बन्धोपरमात्सान्त इति द्वितीयो भङ्गः ततः प्रतिपतितो भूयोऽपि बन्धनेन सादित्वमासाद्य यदा पुनः प्रमत्तादावबन्धको भवति तदा चतुर्थो भङ्गकः / अप्रत्याख्यानावरणानां त्वविरतसम्यग्दृष्टिं यावदनादिबन्धं कृत्वा यदा द्वेशविरतादौ अबन्धको भवति तदा द्वितीयः। ततः प्रतिपतितो भूयोऽपितानेव बध्नाति पुनस्तेषां यदा देशविरतेष्वबन्धको भवति तदा चतुर्थ इति / मिथ्यात्वस्त्यानद्धित्रिकानन्तानुबन्धिनां तु मिथ्यादृष्टिरनादिबन्धको यदा सम्यक्त्वावाप्तौ बन्धोपरमं करोति तदा द्वितीयः। पुनर्मिथ्यात्वगमनेन तान् बध्वा यदा भूयोऽपि सम्यक्त्वलाभे सति भूयोऽपि बन्धं न विरुध्यते तदा चतुर्थः / इत्येवं ध्रुवबन्धिनीनां भङ्गकत्रयं निरूपितमिति / तथा मिथ्यात्वस्य ध्रुवोदयस्य भङ्गाः / अनाद्यनन्ताः 1 नादिसान्त 2 सादिसान्त 3 स्वभावास्त्रयो भवन्ति / तत्रानाद्यनन्तोऽभव्यानां यतस्तेषां न कदाचिन्मिथ्यात्वोदयविच्छेदः समपादि संपत्स्यति वेति / अनादिसान्तस्त्वनादिमिथ्यादृष्टे स्तत्प्रथमतया सम्यक्त्व-तीभे मिथ्यात्वस्याभावात्सादिसान्तः पुनः प्रति-पतितसम्यक्त्वस्य सादिके मिथ्यात्वोदये संपन्ने पुनरपि सम्यक्त्वलाभान्मिथ्यात्वोदयाभावे संभवतीति (दुहावि अधुवा तुरिअभंगत्ति) द्विधापि द्विभेदा अपि बन्धमाश्रित्योदय-माश्रित्याधुवा अध्रुवबन्धिन्योऽध्रुबोदयाश्चेत्यर्थः / तुरीयश्चतुर्थो भङ्गः सादिसानतलक्षणो यासांताः तुरीयभङ्गा भवन्ति। तत्राध्रुवबन्धिनीनां पूर्वोक्तत्रिसप्ततिसंख्याप्रभृतीनाम-ध्रुवबन्धित्वादेव सादिसान्तलक्षणः एक एव भङ्गो भवति / तत्राध्रुवबन्धिनीनां पूर्वोक्तत्रिसप्ततिसंख्याप्रभृतीनाम-ध्रुवबन्धित्वादेव सादिसान्तलक्षणः एक एव भङ्गो भवति। तथाऽध्रुवोदयानामुदयः सहादिना उदयविच्छेदे सति तत्प्रथमतयोदयभवनस्वभावेन वर्तत इति सादिः। सादिश्चासौ सान्तश्च पुनरुदयव्यवच्छेदात्सपर्यवसानश्च सादिसान्तस्ततश्चाध्रुवोददयानामयमेवैको भङ्गो भवति नान्यो ध्रुवत्वादेवेति भावः / उक्ताः सभावार्था ध्रुवबन्धिन्योऽधुवबन्धिन्यश्च प्रकृतयः प्रसङ्गतो ध्रुवाध्रुवादेयानां प्रकृतीनां भङ्गकाश्च। संप्रति ध्रुवोदयप्रकृतिद्वारनिरूपणायाहनिमिणयिरायिरअगुरुल-हु सुहअसुहतेअकम्मचउवन्ना। नाणंतरायदंसण-मिच्छं धुवउदयसगवीसो ||6|| (निमिणत्ति) प्राकृतत्वान्निर्माणं स्थिरास्थिरम् (अगुरुत्ति) अगुरुलघु शुभाशुभं तैजसं कार्मणं चतुर्वर्णगन्धरसस्पर्शलक्षणमित्येता द्वादश नाम्रो ध्रुवोदया ज्ञानावरणपञ्चकमन्तरायपञ्चकं दर्शनचतुष्कं मिथ्यात्वमिति सप्तविंशतिप्रकृतयो ध्रुवोदया नित्योदयाः ! सर्वासामपि स्वोदयव्यवच्छेदकालं यावदव्यवच्छिन्नोदयत्वादिति अभिहिता ध्रुवोदयाः प्रकृतयः। इदानीमध्रुवोदयाः प्रकृतीराह। थिरसुमियर विण अधुव-बंधीमिच्छा विण मोहधुवबंधा। निदोवघायमीसं, सम्मं अपणनवइ अधुवुदया।७।। इतरशब्दस्य प्रत्येकं संबन्धात् स्थिरेतरशुभेतरप्रकृतिचतुष्कं विना स्थिरमस्थिरं शुभमशुभं विना शेषा एकोनसपतिसंख्याअध्रुवबन्धिन्यः प्रकृतयस्तथा हि तैजसकार्मणर्ज शरीरत्रिकमङ्गोपाङ्गत्रयं संस्थानषट्कं संहननषट्कं जातिपञ्चकं गतिचतुष्कं विहायोगतिद्विकमानुपूर्वीचतुष्कं जिननाम उच्छ्वासनाम उद्योतमातपंपराघातंत्रसबादरपर्याप्तकप्रत्येकसुभगसुस्वरादेययशःकीर्तिस्थावरसूक्ष्मापर्याप्तकसाधारणदुर्भगदुःस्वरानादेयायशःकीर्तिरूपमुचैर्गोत्रं नीचैर्गोत्रं सातासातवेदनीयं हास्यरती अरतिशोकौ स्त्रीपुंनपुंसकरूपं वेदत्रयमायुश्चतुष्कमिति / तथा मिथ्यात्वं विना मोहधुवबन्धिन्योऽष्टादश तद्यथा षोडश कषायाः भयं जुगुप्सा निद्रापञ्चकमुपघातनाम मिश्र सम्यक्त्वमिति पञ्चनवतिरध्रुवोदया व्यवच्छिन्नस्याप्युदयसय पुनरुदयसङ्गावादिति। यद्येवं मिथ्यात्वस्याप्यध्रुवोदयतैव युज्यते सम्यक्त्वप्राप्तौ व्यवच्छिनस्यापि तदुदयस्य मिथ्यात्वगमने पुनः सद्भावादित्यत्रोच्यते आसां च प्रकृतीनां येषु गुणस्थानकेषु गुणप्रत्ययतोऽद्याप्युदयव्यवच्छेदोन विद्यते अथवा द्रव्यक्षेत्रकाद्यपेक्षया तेष्वेव गुणस्थानकेषु कदाचिदसौ भवति कदाचिन्ने ति ता एवाधुवो दया यथाभिप्राया मिथ्यादृ