SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ 258 अभिधानराजेन्द्रः भाग 3 कम्म न निवर्तते "नो चेवणं भवसिद्धिए विरहिए लोए भविस्सइत्ति' वचनात्तर्हि भव्याः कथं ते व्यपदिश्यन्ते इति चेदुच्यते। योग्यतामात्रेण न च योग्यः सर्वोऽपि विवक्षितपर्यायेण युज्यते प्रतिमादिपर्याययोग्यानामपि तथा विधदारुपाषाणादीनां तथाविधसामग्रयभावे केषांचित्तदयोगादित्यलं विस्तरेण / प्रागेवगणधरवादे अस्यार्थस्य विस्तरेणोक्तत्वात्। कर्मजीवान्न वियुज्यते अन्योन्याविभागेनावस्थितत्वादित्यनैकान्तिकमुपायतो दृश्यमानवियोगैः क्षीरनीरकाञ्चनोपलादिभिर्व्यभिचारात् / ननु प्रस्तुतो जीवकर्मविभागः के नोपायेन विघटित इति चेन्नन्वभिहितमेव ज्ञानक्रियोपायतः इति मिथ्यादिभिर्हि जीवकर्मसंयोगः क्रियते मिथ्यात्वादिविपक्षभूताश्च सम्यग्ज्ञानादयोऽतस्तैस्तद्वियोगैयुक्तियुक्त एव अन्नभोजनादि विपक्षभूतैर्लङ्घनादिभिस्तञ्जनिताजीर्णसंयोगवदिति। अथादेवादिषु देवादिबुद्ध्याऽभिगमनवन्दनाभिर्हिसादिभिश्च क्रियाभिजीवस्य कर्मणा संयोग इष्यते न तु दयादानशीलपालनसमितिगुप्त्यादिक्रियाभिस्तद्रियोग इत्याशङ्याह। कह वा दोण किरिया-साफल्लं नेह तव्विधायम्मि। किं पुरिसगारसज्झं, तस्से वा सज्झमेगंतो॥ असुभो तिव्वाईओ, जह परिणामो तदज्जणे भिमओ। तह तस्विओ चिय सुभो, किं नेहो तट्विओगे वि॥ वाशब्दो युक्तेरभ्युच्चये। कथं वा हन्त ! कर्मणः आदाने ग्रहणे क्रियाणां साफल्यमिह त्वयेष्यते न तु दयादानादिक्रियाणां तद्विधाते साफल्यमिति प्रेर्यते किमत्र राज्ञामाज्ञा प्रभवति न तु युक्तिः / किं चेदमपि प्रष्टव्योऽसि किं पापस्थानव्यापुतपुरुष-कारसाध्यं 'एणतो" इहापि संबध्यते एक कर्मणः आदानमिष्यते एकंतु यत्तस्य निर्जरणं तत्तस्यैव संयमादिस्थानविहितपुरुषकारस्यासाध्यमिष्यते इत्येतदपि व्यक्तः मेवेश्वरचेष्टितं भवतः / स्वेच्छाप्रवृत्तेरुपसंहरन्नाह / (तोत्ति) तस्माद्यथा येन प्रकारेण तीव्रमन्दमध्यमभेदभिन्नोऽशुभपरिणामस्तदर्जने तस्य कर्मणोऽर्जनमुपादानं ग्रहणं तत्र हेतुर्भवतोऽभिमतस्तथा तेनैव प्रकारेण तद्विध एव तीव्रादिभेदाभिन्नशुभपरिणामोऽशुभविपक्षत्वात् कर्मार्जनविपक्षभूते तद्वियोगेऽपि हेतुः किं नेष्टो ननु युक्तियुक्तत्वादेष्टव्य एवेति भावः / तस्माजीवेन सहाविभाग-स्थितस्यापि कर्मणः सिद्धो वियोग इति। / विशेः / आ. म. द्वि। कर्मविषये शास्त्रान्तरीयमतम्अविद्याक्लेशकर्मादि, यतश्च भवकारणम्। ततः प्रधानमेवैतत्, संज्ञाभेदमुपागतम्॥ "अविद्येति' अविद्या वेदान्तिनां, क्लेशः सांख्यानां, कर्म जैनानाम्, | आदिशब्दाद्वासना सौगतानां, पाशः शैवानाम्, यतो यस्माचकारो वक्तव्यान्तरसूचनार्थः / भवकारणं संसारहेतुस्ततस्तस्मादविद्यादीनां भवकारणत्वाद्धेतोः प्रधानमेवैतदस्म-दभ्युपगतं भवकारणं सत्संज्ञाभेदं / नाम नानात्वमुपागतम्। दा०१६ द्वा०। यो. किं / "कम्मतित्ति वा कलुसंति वा वज्रति वो वेरं ति वा पंको त्ति या मलो त्ति एगट्ठिया इति" व्य. 1 उ.। अथ कतिभेदं कर्मेत्याशङ्कयाहपयइठिइरसपएसा, तं च उहा मो पगस्स दिहतो। तत्कर्म पूर्वव्यावणितशब्दार्थ चतुर्था चतुप्रकारं चतुभेदं भवतीति शेषः। कथमित्याह (पवइठिइरसपएसत्ति) इह गम्ययपः कर्माधारे इति पञ्चमी यथा प्रासादीत्य इति ततश्च प्रकृतिस्थितरसप्रदेशमाश्रित्य प्रकृतिबन्ध स्थितिबन्धन सबन्धप्रदेशबन्धतयेत्यर्थः / तत्र स्थित्यनुभागपदेशबन्धानां यः समुदायः स प्रकृतिबन्धः / अध्यवसायविशेष गृहीतस्य कर्मदलिकस्य यत् स्थितिकालनियमनं स स्थितिबन्धः / कर्मपुद्गलानामेव शुभोऽशुभो वा धात्यधाती वा यो रसः सोऽनुभागबन्धोरसबन्ध इत्यर्थः / कर्मपुद्गलानामेव यद्ग्रहणं स्थितिरसनिरपेक्षदलिक संख्याप्राधान्येन व करोति प्रदेशबन्धानी उक्त च / "टिइबंधदलस्स ठिई, पएसबंधे पएसगहणं जं। ताण रसो अणुभागो, तस्समुदओ पगइबंधो" अत्यत्राप्युक्तम् / "प्रकृतिः समुदायः स्यात्स्थितिकालावधारणम् / अनुभागो रसः प्रोक्तः, प्रदेशे दलसंचयः" इदं च प्रकृतिस्थितिरसप्रदेशानां स्वरूपं मोदकस्य कणिक्कादिमयलकुस्य दृष्टान्ताद् दृष्टान्तेन भावनीयम्। दृष्टान्तादित्यत्र तृतीयार्थे पञ्चमी। यदाह पाणिनिः स्वप्राकृतलक्षणे व्यत्ययोऽप्यासामिति / यथा वातविनाशिद्रव्यनिष्पन्नो मोदकः प्रकृत्या वातमुपशमयति / पित्तोपशमकद्रव्यनिवृत्तः पित्तं कफापहारिद्रव्यसमुद्भूतं कफमित्येवंस्वभावा प्रकृतिः स्थितिस्तुतस्यैव कस्यचिदिनमेकम्, अपरस्य तु दिनद्वयम्, एवं यावत्कस्यचिन्मासादिकमपि कालं भवति ततः परं विनाशादिति। रसः पुनः स्निग्धमधुरादिरूपस्तस्यैव कस्यचिदेकगुणोऽपरस्य द्विगुणोऽन्यस्य त्रिगुण इत्यादिकः / प्रदेशाश्च कणिक्कादिरूपास्तस्यैव कस्यचिदेकप्रसृति प्रमाणाः अन्यस्य तु प्रसृतिद्वयप्रमाप्पाः यावदपरस्य सेटकादिप्रमाणाः एवं कर्मणोऽपि कस्यचन ज्ञानादिच्छादनस्वभावा प्रकृतिः अपरस्य दर्शनावरणरूपा अन्यस्य आह्नादादिप्रदानलक्षणा कस्यचित्सम्यग्दर्शनादिविघातजननस्वभावेत्यादि। स्थितिश्च तस्यैव कस्याचिस्वित्रशतागरोपप्रकोटाकोटीरूपा अपरस्य तु सप्ततिसागरोपमकोटाकोटिलक्षणेत्यादि / रसस्त्वनुभागशब्दवाच्चस्यैवैकस्थानद्विस्थानत्रिस्थानादिरूपः प्रदेशा अल्पबहुतरबहुतमादिरूपा इति। कर्म। दुविहे कम्मे पण्णत्ते तं जहा पदेशकम्मे चेव अणुभावकम्मे चेव। (स्था०२ठा०) चउविहे कम्मे पण्णत्तेतं जहा पगडीकम्मे ठिइकम्मे अणुभावकम्मे पदेसकम्मे / स्थ० 4 ठा०। (19) मूलप्रकृत्युत्तरप्रकृत्यादिना द्वैविध्यं निरूप्य नामादितोऽष्टविधत्वमाह / मूलपगइट उत्तर-पगइ अट्ठपंचसयमेयं ति। मूलप्रकृतयः सामान्यरूपा अष्टावष्टसंख्या यत्र तन्मूलप्रकृत्यष्टम् उत्तरप्रकृतीनां मूलप्रकृतिविशेषरूपाणामष्टपञ्चाशच्छतं भेदा यस्य तदुत्तरप्रकृत्यष्टपञ्चाशच्छतभेदमिति कर्म / आचा०। सूत्र / उत्त।नं। भ। पा. प्रज्ञा० श्रा० / अन्त, / पं. सं० / अथ कर्मप्रकृतय उच्यन्तेअट्ठकम्माई वोच्छामि, आणुपुध्वि जहकम। जेहिं बद्धो अयं जीवो, संसारे परिवत्तई / / 1 / / हेजम्बूस्वामिन् ! अहं यथाक्रममानुपूर्त्या अनुक्रमेण तानि अष्ट
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy