________________ कप्पसुत्त २३७-अभिधानराजेन्द्रः। भाग-३ कप्पसुत्त पञ्चभिरेव दिनैः कल्पसूत्रं वाचनीयं तच यथा देवेषु इन्द्रः तारासुचन्द्रः, न्यायप्रवीणेषुरामः,सुरूपेषु कामः,रूपवतीपुरम्भा,वादित्रेषु भम्भा, गजेषु ऐरावणः, साहसिकेषु रावणः, बुद्धिमत्सु अभयः, तीर्थेषु शत्रुजयः, गुणेषु विनयः, धानुष्केषु धनंजयः मन्त्रेषु नमस्कारस्तरुषु सहकारस्तथा सर्वशास्त्रे शिरोमणिभावं विभर्ति। यतः " नार्हतः परमो देवो, न मुक्तेः / परसंपदम् / न श्रीशत्रुजयात्तीर्थ, श्रीकल्पान्न परं श्रुतम्"। 1 तथायं कल्पः साक्षात्कल्पद्रुम एव। तस्यचअनानुपूर्व्या उक्तत्वात्। श्रीवीरचरित्रं बीजम्, / श्रीपार्श्वचरित्रमगुरः, श्रीनेमिचरित्रं स्कन्धः, श्रीऋषभचरित्रं शाखासमूहः, स्थविरावली पुष्पाणि, सामाचारी ज्ञानं, सौरभ्यं फलं मोक्षप्राप्तिः। किं च वाचनासाहाय्यदानात्सर्वाक्षरश्रुतेरपि / विधिना राधितःकल्पः, शिवदोऽन्तर्भवाष्टकम् "11 // एगम्गचित्ता जिणसासणम्मि, पभावणा पूअपरायणाजे तिसत्तवारं निसुणंति कप्पं, भवण्णवं गोअम! ते तरंति"।२। एवं च कल्पमहिमानमाकर्ण्य तपःपूजाप्रभावनादिधर्मकार्येषु कष्टधनव्ययसाध्येषु आलस्यं न विधेयं सकलसामग्रीसहितस्यैव तस्य वाञ्छितफलप्रापकत्वात्। यथा वीजमपि वृष्टिवायुप्र--- भृतिसामग्रीसद्भावे एवफलनिष्पत्तौ समर्थ नान्यथा एवमयं श्रीकल्पोऽपि देवगुरुपूजाप्रभावनासाधर्मिकभक्तिप्रमुखसामग्रीसद्भावे एव यथोक्तफल हेतुः / अन्यथा " इक्को वि नमुक्कारो, जिणवरवसहस्स वद्धमाणस्स। संसारसागराओ, तारेइ नरं वनारिवा"। इति श्रुत्वा किंचित्प्रयाससाध्ये कल्पश्रवणेऽपि नालस्यं भवेत् कल्प० / कल्पसूत्र केन वृत्तम् / अथ पुरुषविश्वासे वचनविश्वास इति श्रीकल्पसूत्रस्य प्रमाणता वक्तव्या। स च चतुदर्शपूर्वविद्युगप्रधानश्रीभद्रबाहुस्वामी दशाश्रुतस्कन्धस्य अष्टमाध्ययनतया प्रत्याख्यानप्रवादाभिधानात् नवमपूर्वात् उद्धृत्य कल्पसूत्रं रचितवान् / ( कल्प०) तस्मादेतन्महापुरूषप्रणीतत्वान्न सामान्यं गम्भीरार्थ च। यतः “सव्वनईणंजा हुज, वालुआसव्वोदहीणजे उदयं / तत्तो अणंतगुणिओ, अत्थोइ कस्स सुत्तस्स"1१।“ मुखे जिह्वासहस्रं स्यात्, हृदये केवलंयदि।तथापि कल्पमाहाम्यं, वकुं शक्य न मानवैः”।२। अथ तस्य श्रीकल्पस्य वाचने श्रवणे च अधिकारिणो मुखवृत्त्या साधुसाध्व्यस्तत्रापि कालतो रात्रौ विहितकालग्रहणादिविधीनां साधूनां वाचनं श्रवणं च साध्वीनां निशीथचूयाधुतविधिना दिवाऽपि तथा श्रीवीरनिर्वाणादशीत्यधिकनवशत (680) वर्षातिक्रमे मतान्तरेण च त्रिनवतियुतनवशत (193) वर्षातिक्रमे ध्रुवसेननृपस्य पुत्रमरणार्तस्य समाधिमाधातुमानन्दपुरेसभासमक्ष समहोत्सवं श्रीकल्पसूत्रं वाचयितुमारब्धम्। ततः प्रभृति चतुर्विधोऽपि सङ्घः श्रवणोऽधिकारिवाचनेतुविहितयोगानुष्ठानः साधुरेव। अथ अस्मिन् वार्षिकपर्वणि कल्पश्रवणवत्। इमान्यपिपञ्च कार्याणि अवश्य कार्याणि तद्यथा चैत्यपरिपाटी 1 समस्तसाधुवन्दनं 2 सांवत्सरिकप्रतिक्रमणं 3 मिथः साधर्मिकक्षमापणम् 4 अष्टमं तपश्च 5 एषामपि कल्पश्रवणवद्वाञ्छितदायकत्वमवश्यं कर्तव्यत्वं जिनानुज्ञातत्यं च ज्ञेयम्। तत्र अष्टम तपः उपवासत्रयात्मकं महाफलकारणं रत्नत्रयवदान्यं शल्यत्रयोन्मूलनं जन्मत्रयपावनं कायवाङ्मानसदोषशोषकं विश्वत्रयाण्यपदप्रापकं निःश्रेयसपदा-ऽभिलाषुकैरवश्यं कर्त्तव्यं नागके तुवत् / तथा हि चण्डकान्ता नगरी तत्र विजयसेनो नाम राजा श्रीकान्ताख्यश्च व्यवहारी। तस्य श्रीसखीभार्या तया च बहुप्रार्थित एकः पुत्रः प्रसूतः। स च बालक | आसन्ने पर्युषणापर्वणि कुटुम्बकृतामष्टमवार्तामाकर्ण्य जतस्मृतिःस्तन्यपोऽपि अष्टमं कृतवान्ततस्तंस्तनपानमकुर्वाणं पर्युषितमालतीकुसुममिव म्लानमा-लोक्य मातापितरौ अनेकान् उपायांश्चक्रतुः / क्रमाश्च मूर्ख प्राप्तं बालं मृतं ज्ञात्वा स्वजना भूमौ निक्षिपन्ति स्म। ततश्च विजयसेनो राजा तं पुत्रं तदुःखेन तत्पितरं च मृतं विज्ञाय तद्धनग्रहणाय सुभष्टान्प्रषेयामास / इतश्च अष्टमतपःप्रभावात्प्रकम्पितासनो धरणेन्द्रः सकलं तत्स्वरूपं विज्ञाय भूमिस्थं बालकममृतच्छटया आश्वास्य विप्ररूपं कृत्वा धनं गृह्णतस्तान्निवारयामासातत् श्रुत्वा राजाऽपि तत्रागत्योवाच / भो भूदेव ! परम्परागतमिदमस्माकमपुत्रधनग्रहणं कथं निवारयसि / धरणोऽवादीत्। राजन् ! जीवत्यस्य पुत्रः। कथं कुत्रास्तीतिराजादिभिरुक्ते भूमिस्थं जीवन्तं बालकं साक्षात्कृत्य निधानमिव दर्शयामास / ततः सर्वैरपि सविनयैः स्वामिन् ! कस्त्वं कोऽयमिति पृष्टे सोऽवदत् / अहं धरणेन्द्रो नागराजः कृताष्टमतपसोऽस्य महात्मनः साहाय्यार्थमागतोऽस्मि / राजादिभिरुक्तं स्वामिन् ! जातमात्रेण अनेन अष्टमतपः कथं कृतम्। धरणेन्द्र उवाच राजन्! अयं हि पूर्वभवे कश्चिद्रणिकपुत्रो बाल्येऽपि मृतमात्रक आसीत् / स च अपरमात्रा अत्यन्तपीड्यमानो मित्राय स्वं दुःखं कथयामास सोऽपि त्वया पूर्वजन्मनि तपो न कृतं तेनैवं पराभवं लभसे / इत्युपदिष्टवान् / ततोऽसौ यथाशक्ति तपोनिरत आगामिन्यां पर्युषणामवश्यमष्टमं करिष्यामीति मनसि निश्चित्य तृणकुटीरे सुष्वाप / तदा च लब्धावसरया विमात्रा आसन्नप्रदीपनकादग्निकणस्तत्र निक्षिप्तस्तेन च कुटीरके ज्वलिते सोऽपि मृतः। अष्टमध्यानाच अयं श्रीकान्तमहेभ्यनन्दनो जातस्ततोऽनेन पूर्वभवचिन्तितमष्टमतपः। सांप्रतं कृतं तदसौ महापुरुषो लघुकर्मा अस्मिन् भवे मुक्तिगामी यत्पालनीयो भवतामपि महते उपकाराय भविष्यतीति उक्त्वा नागराजः स्वहारं तत्कण्ठेनिक्षिप्य स्वस्थानं जगाम। ततः स्वजनैः श्रीकान्तस्य मृतकार्य विधाय तस्य नागकेतुरिति नामदत्तम्। क्रमाश्च स बाल्यादपि जितेन्द्रियः परमश्रावको बभूव / एकदा च विजयसेनराजेन कश्चित् अचौरोऽपि चौरकलङ्केनहतोव्यन्तरोजातः ससमग्रनगरविघाताय शिला रचितवान्। राजानं पादप्रहारेण रुधिरं वमन्तं सिंहासनाद्भूमौ पातयामासातदा घ नागकेतुः कथमिमं सङ्गप्रासादविध्वंसं जीवन् पश्यामीति बुद्ध्या प्रासादशिखरे आरुह्य शिलां पाणिना दधे ततः स व्यन्तरोऽपि तत्तपःशक्तिमसहमानः शिलां संहृत्य नागकेतुं गतवान् तद्वचनेन भूपालमपि निरुपद्रवं कृतवान्। अन्यदाचसनागकेतुर्जिनेन्द्र पूजां कुर्वन् पुष्पमध्यस्थितसर्पण दष्टोऽपि तथैवाव्यग्रो भावनारूढः केवलज्ञानमासादितवान्। ततः आसन्नदेवतार्पितमुनिवेषश्चिरं विहरति स्म / एवं नागकेतुकथां श्रुत्वा अन्यैरपि अष्टमतपसि यतनीयम् / इति श्रीनागकेतुकथा। अथ श्रीकल्पसूत्रे त्रीणि वाच्यानि यथा। पुरिमचरिमाणं कप्पो, मंगलं वद्धमाणतित्थम्मि। इह परिकहिया जिण-गणहराइथेरावलीचरित्तं // 2 // ( पुरिमचरिमाणंति ) ये श्रीऋषभवीरजिनयोः ( कप्पत्ति)। अयं कल्पः आचारः यदृष्टिर्भवतु मा वा परमवश्यं पर्युषणा कर्तव्या। उपलक्षणत्वात् कल्पसूत्रं वाचनीयं च ( मंगलमित्ति) एकः अयमाचारः अपरं च मङ्गलं मङ्गलकारणं भवति / वर्द्धमानतीर्थे कस्मादेवमित्याह / यस्मादिह परिकथितानि ( जिणत्ति )