________________ चेइयवंदण 1333 - अभिधानराजेन्द्रः - भाग 3 चेइयवंदण वर्णादिभिरक्षरप्रभृतिभिः, शुद्धाऽपि निविद्याऽपि, आस्तां सावद्या, कूटरूपसमा द्रव्यरहितटङ्कयुक्ततृतीयरूपकतुल्या, तथा उभयविहीना भाववणोंदिशुद्धिरहिता या सा, ज्ञेया ज्ञातव्या, मुद्राप्राया मुद्राकल्पा। चरमभङ्गकद्वयस्यापि फलमाह-अनिष्टफला अनभिमत-प्रयोजना:नर्थफलेति यावत्। इति गाथार्थः / / 40|| इयं चान्त्यभङ्गकद्वयवन्दना केषां किंफला च विशेषण भवतीत्याहहोइ य पाएणेसा, किलिट्ठसत्ताण मंदबुद्धीणं। पाएण दुग्गइफला, विसेसओ दुस्समाए उ||१|| भवति च संपद्यते पुनः,प्रायेण बाहुल्येन,प्रायोग्रहण-मक्लिष्टसत्त्वानामपि कदाचिदनुपयोगावस्थायामियं भवतीति ख्यापनार्थम् / एषा अनन्तरोक्ता रूपकचरमभङ्ग कद्वयोपडिता, वन्दना प्रायः क्लिष्टसत्त्वानां संक्लेशबहुलजीवानां, क्लिष्टं वा सत्त्वं येषां ते तथा तेषां, मन्दबुद्धीनां जडधियां मिथ्यात्वोपहतत्वात्। तथा प्रायेण बाहुल्येन, प्रायोग्रहणं च केषाञ्चिन्मुद्राप्रायाऽपि सती सा संपूर्णवन्दनाहेतुत्वेन सुगतिफलाऽपि भवतीति ज्ञापनार्थम् / दुर्गतिफला कुदेवत्वादिप्रयोजना, विशेषत इत्यत्रोत्तरस्य पुनःशब्दार्थस्य तुशब्दस्य संबन्धाद्विशेषेण पुनः, दुःषमायां दुःषमाकाले कालदोषादेव, इति गाथार्थः / / 41 // इहैवाऽर्थे मतान्तरमाह - अण्णे उलोगिग चिय, एसा णामेण वंदणा जइगी। जं तीइ फलं तं चिय, तीए ण उ अहिगयं किंचि / / 42 / / एके तावदियमनिष्टफलेत्याहुः / अन्ये तु अपरे पुनराचार्याः साक्षादनर्थफलतामपश्यन्तोऽस्याः प्राहुः-यदुत लौकिक्येव सामान्यलोकसंबनिधन्येव, न पुनर्जनी / एषाऽनन्तरोक्ता, अन्त्यभङ्ग कद्वयवन्दना / नन्वर्हद्वन्दनेतीयं प्रसिद्धा, न शिवादिवन्दनेत्यतः कथं नाहतीत्याहनाम्ना अभिधानेनैव, न तु फलतः / वन्दना चैत्यवन्दना, जैनी जिनसंबन्धिनी। अथ कथमिदमवसीयते इत्याह-यत इतिवाक्यशेषः। यदिति यदेव तस्या लौकिकवन्दनायाः फलं साध्यं तदेव नान्यत्तस्या अन्त्यभङ्ग कद्वयगतजैनवन्दनायाः, न तु न पुनरधिकृतं प्रस्तुतं जिनवन्दनोचितं मोक्षादि / अथवा अधिकमर्गलतरं लौकिकवन्दनापेक्षयेति, किञ्चित्किमप्यल्पीयोऽपीति गाथार्थः // 42 // एतस्यैवाचार्यान्तरमतस्याभ्यनुज्ञानार्थमाहएयं पि जुज्जइ चिय, तदणारंभाओ तप्फलं व जओ। तप्पचवायभावो, विहंदितत्तो ण जुत्त त्ति॥४३|| एतदप्यनन्तरोक्तमाचार्यान्तरमतेन कुवन्दनाया लौकिकत्वमपि, न केवलमस्मदुक्तमनिष्टफलत्वमेव। युज्यत एव घटत एव। तत्रोपपत्तिमाहतदनारम्भाजैनबन्दनाऽनासेवनात्। अन्त्यवन्दनाद्वये हि अपुनर्बन्ध - कादिभावाभावाजैनवन्दनाया अनारम्भ एव, तत्फलमिव जैनवन्दनाऽऽराधनाजन्यस्वर्गापवर्गसंपत्तिक्षुद्रोपद्रवहान्यादिलक्षणफलमिव यतो यस्माद्धेताः, तस्या जैनवन्दनाया अविधिकृतायाः सकाशात्प्रत्यपाया उन्मादरोग धर्मभ्रंसलक्षणा अनस्तित्प्रत्यपायाः, तेषां भावस्तप्रत्यपायभावः। सोऽपि, अपिशब्दादिष्टार्थभावोऽपि, हन्दीत्युपप्रदर्शने, ततः कुवन्दनातः, अथवा-(तत्तो त्ति) तत एव जैनवन्दनाऽनारम्भादेव, अवधारणं चेह काकुपाठात्प्रतीयते।नयुक्तो नघटमानः स्यात्, इतिशब्दो वाक्यार्थसमाप्तौ / इदमुक्तं भवति-यथा जैनवन्दनाऽनारम्भान्मुद्राप्रायवन्दनायामिष्टफलं न युक्तम्, एवं जैनवन्दनाऽनारम्भादेव तज्जन्यानर्थोऽपि न युक्तः स्यात्, दृश्यते च मुद्राप्रायवन्दनायामनाभायः यतो अतोऽसौ जैनी न भवत्यपि तुलौकिक्येवेति गाथार्थः // 43 // अमुभेवार्थ भावयन्नाह - जमुभयजणणसभावा, एसा विहिणेयरेहिं ण उ अण्णा। ता एयस्साभावे, इमीऐं एवं कहं वीयं ? // 44 // यद्यस्माद्धेतोरुभयजननस्वभावा इष्टानिष्टार्थोत्पादनबीजकल्पा, एषा जैनवन्दना। अथ कथमेकैवोभयजननस्वभावत्याह (विहिणेयरहिं ति) विधानेन क्रियमाणेनेष्टफला, इतरैर विधिभिस्तु प्रत्यपायफला लौकिक्यप्येवंभूतेति चेदित्यत्राहनत्वन्या न पुनरपरा, लौकिकीत्यर्थः / लौकिकत्वादेव / ततः किमित्याह (ता इति) यत एवं तत्तस्मादेतस्य प्रागदृष्टान्तीकृतस्येष्टफलस्याभावेऽभवने, अस्यां द्विविधकुवन्दनायाम्, एवममुना न्यायेन विधीतराभ्यां सत्फलप्रत्यपाय-जनकत्यलक्षणेन, कथं केन प्रकारेण, न कथञ्चिदित्यर्थः / द्वितीयं प्रत्यपायलक्षणं फलमित्यर्थः / अतः सुष्ठुक्तं तत्फलमिव तत्प्रत्यपायभावोऽपि न युक्त इति। यत्र च प्रत्यपायोऽपि न भवति, सा जैनी न भवतीति / अथवा तस्मादेतस्येष्टानिष्टफललक्षणस्योभयस्याभावाऽस्यां कथं बीजमिव बीजं जैनीत्वं, जैनी ह्यानर्थबीजम् / अथवा-कथं बीजं कथमपुनर्बन्धकादित्वं, तद्धि वन्दनाजन्यार्थानर्थबीजम्, अतो बीजाभावादेषा लौकिक्येवेति युक्तमेव / इति गाथार्थः / / 44 / / इदमेव निगमयन्नाहतम्हा उतदाभासा, अण्णा एस त्ति णायओ णेया। मोसाभासाणुगया, तदत्थभावा णिओगेणं // 45|| यस्मादस्याः प्रत्यपायाभावाज्जैनीत्वं नास्ति, तस्माद्धेतोः / तुशब्दोऽवधारणे / तस्य च प्रयोगो दर्शयिष्यते / तदाभासा जैनीसदृशी, जिनादिशब्दानामुपाननादन्यैव लौकिक्येव, एषा अधिकृतदुर्वन्दना, इतिशब्द उपप्रदर्शन, न्यायत उपपत्त्या, न्यायश्चानन्तरगाथोक्त एव, ज्ञेया ज्ञातव्या, पुनः किंभूतेत्याह- स्वाभाषानुगता असत्यवादान्विता। कथमित्याह-तदर्थे वन्दनाऽभिधेयवस्तुनि, भावस्य सच्छूद्धानाद्यध्यवसायस्यानियोगोऽव्यापारस्तदर्थभावानियोगः, तेन। यदा हि-"ठाणेणं मोणेणं झाणेणं" इत्यादिपदानि तदर्थे भावमनियुञ्जानः समुच्चारयति, तदा मृषावाद एव स्यात्, ध्यानादीनामसंपादनात्। अथवा तदर्थाभावाद्वन्दनाप्रयोजनाभावानियेणिनावश्यतया, इति गाथार्थः / / 45 / / एवं तावदन्त्यभङ्गकद्वयगतवन्दना फलत उक्ता, अथाद्यभङ्गकद्वयगतवन्दनाया अभव्यानां दुर्लभताप्रतिपादनायाऽऽहसुहफलजणणसभावा, चिंतामणिमाए वि णाभवा। पावंति किं पुणेयं, परमं परमपयबीयं ति॥४६|| शुभफलानामभिमतप्रयोजनानां, विशिष्टाभ्युदयादीनां सुखलक्षणफलाना वा, जननमुत्पादनं, स्वभावः स्वरूपं येषां ते तथा, तान्, चिन्तामण्यादिकानपि चिन्तारत्नप्रभृतिकानपि, आदिशब्दात्