________________ चेइयवंदण 1332 - अभिधानराजेन्द्रः - भाग 3 चेइयवंदण इहैव वन्दनायाः शुद्धाशुद्धत्वविचारे अभ्युच्चयमाह - किं चेह छेयकूडग रूवगणायं भणंति समयविऊ / तं तेसु चित्तभेयं, तं पिहु परिभावणीयं तु // 34 // किश्चेत्यभ्युचयार्थः, इहशब्दोऽन्यत्र संभत्स्यते, छेकश्चासौ शुद्धः / कूटकश्च कथञ्चिदशुद्धश्छेककूटकः, स चासौ रूपकश्च छेककूटकरूपकः, स एव, तस्य वा, ज्ञातं निदर्शनं, छेककूटकरूपकज्ञातं, तद् भणन्ति वदन्ति, समयविदः सिद्धान्तवेदिनो मद्रबहुस्वामिप्रभृतयः, तन्त्रेष्वावश्यकनियुक्त्यादिशास्त्रेषु। तथाहि-"रुप्पंटकं विसमाहयक्खरं तइयरूवओऽछेओ / दोण्हं पि समाओगे, रूबो छेयत्तणमुवेति / / 1 / / "चित्रभेदं बहुप्रकारं, चतुर्विकल्पमित्यर्थः। इह स्थाने यदिति शेषो दृश्यः, तदपि छेककूटकरूपकज्ञातमपि, न केवलं द्रव्यलिङ्ग ग्रहणानन्त्येनाशुद्धत्वमस्या भावनीयमित्यपिशब्दार्थः / हुशब्द एवकारार्थो , भिन्नक्रमश्चेति / इहेति वन्दनायां, परिभावनीयमेव पर्यालोचयितव्यमेव, इतिशब्दो वाक्यार्थसमाप्ती, इति गाथार्थः // 34|| चित्रभेदमित्युक्तं, तदेव दर्शयन्नाह - दव्वेणं टंकेण य, जुत्तो छेओ हु रूवगो होइ। टंकविहूणो दव्वे, विण खलु एगंतछेओ त्ति // 35 // द्रव्येण रूप्यसुवर्णादिनोचितेन, टडूनच चित्रविशेषेणच, युक्तः समन्वितो यः स छेक एव विशुद्ध एव, हुशब्द एवकारार्थः, रूपको द्रम्मो, भवति वर्तते इत्येको भेदः / तथा टङ्कविहीन उचितचित्रविकलो यः स द्रव्येऽपि रूप्यादावप्युचिते सति, न खलु नैव, एकान्तच्छेकः सर्वथा विशुद्धः, टङ्काभावेनदेशतः कूटत्वात्। इतिशब्दो द्वितीयभेदप्ररूपणासमाप्त्यर्थः / इति गाथार्थः // 35 // अथ तृतीयभेदमाह - अद्दव्वे टंकण वि, कूडो तेण वि विणां उ मुद्दति। फलमेत्तो एवं चिय, मुद्धाण पयारणं मोत्तुं // 36 / / अद्रव्ये रूपाधुचितद्रव्याभावे सति,टङ्केनाऽपि चित्रविशेषेणापि युक्तः, आस्तां टङ्काभावे इत्यपिशब्दार्थः / कूटोऽशुद्ध एव रूपको भवतीति प्रक्रमः। अथ चतुर्थमाह तेनापिटङ्केनापि, अपिशब्दातद्रव्येणाप्युभयाभाव इत्यर्थः / विना तु वियुक्तः पुनः / रूपको मुद्रेति चिह्नमात्रमिति व्यपदिश्यते / अथोपदर्शितरूपकचतुष्टयस्य फलमतिदेशत आह-फलमिष्टार्थप्राप्तिलक्षणं प्रयोजनम्, इतोऽनन्तरोक्ताच्चतूरूपकात्, एवमेव रूपकस्वरूपवदेव भवति / तच क्रमेण पूर्णमीषदपूर्ण विवक्षितफलाभावः, सर्वथा फलाभावश्चेति / किमन्त्यव्ययात्किञ्चिदपि फलं न भवतीत्यत्राह मुग्धानां मूढाना, प्रतारणं वञ्चनं, मुक्त्वाविरहय्य, अन्यत् फलं न भवति, तत्पुनर्भवतीति / अथवा- सामान्यतो दृष्टान्तयोजनामाह-(एत्तो ति) | वन्दनायाः सकाशादिति / अतिप्रसङ्ग वारयन्नाह- "मुद्धेत्यादि / रूपकात्प्रतारणं स्याद्वन्दनायास्तु नेति गाथार्थः // 36 // आद्यव्याख्यापक्षे पातनवम्, अथ तेनैव फलेन तत्फलवद्भविष्यतीत्याहतं पुण अणत्थफलदं,हाहिगयं जमणुवओगि त्ति। आयगयं चिय एत्थं,चिंतिज्जइसमयपरिसुद्धं // 37 // तत्पुनर्मुग्धप्रतारणलक्षणं रूपकान्त्यभङ्गकद्वयजन्यं फलं, किमित्याह अनर्थफलकम् अनर्थफलदं या स्वपरयोरपकाररूपफलदायकम्। अत एव न नैव, इह रूपकविचारे, अधिकृतं प्रस्तुतम्। किमिति नाधिकृतामित्याह- यद्यस्मात्, अनुपयोगि निष्प्रयोजनं, न हि सतामनर्थफलदेन परप्रतारणेन प्रयोजनमस्ति। इतिशब्दः समाप्तौ। तर्हि किमिहाधिक्रियत इत्याह-आत्मगतमेव स्वविषयमेव, क्रायकलभ्यमित्यर्थः। नतुपरविषयं प्रतारणादि, आयगतं वा रूपकविनिमयेन योऽभिप्रेतवस्तुलाभस्तद्गतमेवअत्र रूपकविचारे, चिन्त्यते विचार्यते समयपरिशुद्धं शिष्टव्यवहारविशुद्धं, न त्वसद्व्यवहारगतं परप्रतारणमपीति / व्याख्यान्तरे त्वेवमननु वन्दनातोऽपि प्रतारणं दृष्टमत आह-(तंपुणेत्यादि) “नेह ति" नात्र वन्दनालक्षणे दान्तिकेऽधिकृतम् / (आयगय चिय त्ति) जीवविषयमेव (समयपरिसुद्ध ति) आगमानुगतं मोक्षादि, शेषं तथैवेति गाथार्थः।।३७॥ एवं दृष्टान्तं सफलमभिधाय दान्तिकं सफलमाहअथवा सामान्यतो दार्शन्तिकयोजनामभिधाय विशेषतस्तामेवाहभावेणं धण्णादिहि, चेव सुद्धेहिं वंदण छेया। मोक्खफल चिय एसा, जहोइयगुणा य णियमेणं // 38|| भावेनापुनर्बन्धकाधुचितश्रद्धानभक्तिरूपेण द्रव्योपमेन, वर्णादिभिरेव चाक्षरप्रवृत्तिभिरेव टङ्ककल्पैः, आदिशब्दात्तद्धतक्रियाऽऽलम्बनादिग्रहः / चैवशब्दो व्याख्यात एव। शुद्धैर्निरवद्यैः करणभूतैः, या वन्दना, सा छेका शुद्धा प्रथमरूपकोपमा, किंफलेयमित्याह- मोक्षफलैय निर्वाणप्रयोजनैव प्रधानफलापेक्षया, न पुनः संसारफलेति / एषा वन्दना ऐहलौकिकफलापेक्षया, पुनरियं किंविधेत्याह- यथा येन प्रकारेणोदितोऽमिहितस्तथैव गुणः फलं यस्याः सा यथोदितगुणा, यथोचितगुणा वा / गुणश्चायम्-“पाय इमीऍजत्ते.ण होइइहलोगिया विहाणि त्ति” चशब्दः समुच्चये। नियमेनावश्यन्तयेतिगाथार्थः / / 38 / / अथ द्वितीयरूपकयोजनामाह - भावेणं वण्णादिहिँ , तहा उजा होइ अपरिसुद्ध त्ति। बीयगरूवसमा खलु, एसा वि सुह ति णिहिट्ठा / / 3 / / भावेनोक्तपरिणामेने द्रव्योपमेन, युक्तेति शेषः। तथाशब्दस्य समुच्चयार्थस्येह संबन्धात्, तथा वर्णादिभिरक्षरप्रभृतिभिः। तुशब्दः पुनरर्थः। तस्य चैवं संबन्धः-या पुनर्वन्दना, भवति वर्तते / अपरिशुद्धा सदोषा, इत्येवंप्रकारा, द्वितीयरूपसमा द्रव्ययुक्त टङ्कविहीनरूपकतुल्या, खलुक्यालंकारे, एषाऽष्यसावपि, न केवलमाद्यरूपकसमा / शुभा प्रशस्ता, मोक्षाभ्युदयफलसाधकत्वात् इतिशब्दः उपप्रदर्शने / निर्दिष्टा तीर्थकरादिभिरभिहिता, भावप्राधान्यात् / आह च-"क्रियाशून्यश्च यो भावो, भावशून्या च या क्रिया / अनयोरन्तरं ज्ञेयं, भानुखद्योतयोरिव || 15 // " इतिगाथार्थः // 36 // अथ रूपकचरमभङ्गकद्वययोजनायाऽऽहभावविहूणा वण्णा इएहिँ सुद्धा वि कूडरूवसमा। उभयविहूणा णेया, मुद्दप्पाया अणिट्ठफला 140 / / भावविहीना अपुनर्बन्धकाधुचितश्रद्धानभक्तिरहिता या सा,