________________ चेइयवंदण 1313 - अभिधानराजेन्द्रः - भाग 3 चेइयवंदण सडा०२ प्रस्ता०। ल० धान च तत्र नियमः-एका द्वे तिस्र इत्यादि। क्षेत्रकालाद्यपेक्षया क्वाऽपि तीर्थे कासाशित्पाठादित्यनियतत्वात् तद्व्याख्यानाभावः / एतावता यदत्र व्याख्यातंच तन्नियमेन भणनीयमिति प्रतिपादितम् / व्याख्यातं च सिद्धाधिकृततीर्थेशस्तुतिवत्सूत्रतया नियमभणनीयत्वेन-"वेयावचगराणं" इत्यादि चतुर्थकायोत्सर्गसूत्रस्तुत्यादि। तत्र यथा एवमेतत् “सिद्धाणं” इत्यादि पठित्वोपचितपुण्यसंभारा उचितेषूपयोगफलमेतदिति ज्ञापनार्थ पठन्ति, “वेयावञ्चगराणं" इत्यादिकायोत्सर्गविस्तरः पूर्ववत्, स्तुतिश्च, नवरमेषांवैयावृत्यकराणां तथा तद्भाववृद्धिरित्युक्तप्रायः प्रशंसितः, प्रस्तुत कार्याय प्रोत्सहत इति प्रसिद्धमेवेत्यर्थः / तदपरिज्ञानेऽप्यस्मात्तच्छुभसिद्धाविदमेव वचनं सूत्रं ज्ञापकम् / न चासिद्धम्, एतदभिचारकादौ मन्त्रवादे तथेक्षणात्, सदौचित्यप्रवृत्त्या सर्वत्र प्रविर्तितव्यमित्यैदम्पर्यमस्य। एष ध्रुवं भणनीया चतुर्थी चूलिकास्तुत्यन्ता पञ्चमदण्डकरूपा। तृतीया सूत्रस्तुतिः संपूर्णा चैत्यवन्दनाचूलिका वाऽप्येतदन्तं व्याख्यायोक्तम्। यथा-"सिद्धत्थयदंडयविवरण संमत्तं” / तथा पाक्षिकचूर्णी - "विरइपडिवत्तिकाले चिइवंदणमाइणोवयारेण आवस्सं अहासंनिहियदेवयासंनिहाणम्मि भवइ, अतो देवसक्खियं भणियं"। इहाऽपि वन्दनामध्ये देवाद्युपचारः तत्कायोत्सर्गस्तुत्यादि विनाकोऽन्य इति पाक्षिकाद्यागमोक्तत्वानियतसुदृष्टिदेवताकायोत्सर्गस्तुत्यादि सिद्धाणं बुद्धाणं" इतिनाम्न्यास्तृतीयसूत्रस्तुत्या अन्तेऽवश्य भणनीयम्। उक्तानुक्ताऽऽदिसंग्राहिकत्वादस्याः सिद्धस्तवापरनाम्न्याः सूत्रस्तुतेः / एषैव चैवंसूत्ररूपसुदृष्टिस्मरणाभिधद्वादशाधिकारान्ता पञ्चमदण्डक उच्यते। भणितंच"इह ललिअवित्थरावित्तिमाइवक्खायसुत्तअणुसारा / सुत्तुत्त नवऽहिगारा, दुदस इगारस सुताचरणा / / 1 / / " आवश्यकचूर्णिकारादिबहुश्रुतसंमता इत्यर्थः। आहच"आवस्सगचुण्णीए, जं भणिय सेसया जहिट्ठाए। तेणं उज्जंताइ वि, अहिगारा सुअमया चेव / / 1 / / " एतावता भाष्योन्तरोक्तजघन्यादिभेदा मध्यमाऽपि व्याख्याता। तथा बृहद्भाष्ये - "उक्कोसा तिविहा विहु, कायव्वा सत्तिओ उभयकाल / सेसा पुण छन्भेया, चेइरापडिवाडिमाईसु।।१।।" / भणितं च कल्पभाष्ये-"निस्सकडमनिस्सकड" इत्यादि। एवं प्रागुक्तयुक्त्या-"निस्सकड" इति गाथया मध्यमा चैत्यवन्दना भणिता दण्डकस्तुतियुगलपाठरूपेति स्थितम्। अन्यत्राप्युक्तम्"चिइवंदणं तु नेयं, सुत्तत्थुवओगओ समाहीए। अक्खलिआइगुणजुअं, दंडगपंचगसमुच्चरणं // 1 // " नैवं चेत्ततोऽन्त्यकायोत्सर्गादिवदादिशक्रस्तवकायोत्सर्गाद्यप्य- ) भणनीयं स्यात्, "निस्सकड” इत्यादावनुकूलत्वात् / एवं चान्यत् स्तुतिस्तोत्रप्रणिधानादि सर्वमष्यभणनीयं प्राप्नोति, भवता चैत्यमध्ये उक्तयुक्तेरेव। उक्तंच"जइ इत्तिअमित्तं चिय, जिणवंदणमणुमयं सुरहुं तं। थुइथुत्ताइपवित्ती, निरत्थिआ हुन्ज सव्वाऽवि // 1 // " परिभाव्यमत्र सम्यक् कुग्रहविरहेण। यदागमः"जं जह सुत्ते भणिअंतहेव तंजइ विआरणा नऽत्थि। किं कालिआणुओगो, दिह्रो दिट्ठिप्पहाणेहिं // 1 // " इह च सर्वत्राप्यादौ प्रथममीर्यादिपथिकी प्रतिक्रमितव्या। तथा चागमः"ता गोअमा ! णं अप्पडिकताए इरिआवहिआए न कप्पइ चेव किंचि चिइवंदणसज्झायज्झाणाइ अफलासायमभिकंखुगाणं।" दशवैकालिकेऽपि द्वितीयचूलिकायाम्-"अभिक्खणं काउस्सग्गकारि" इति सूत्रस्य वृत्तिः-अभीक्ष्णं गमनागमनादिषु कायोत्सर्गकारिभवेत्। ईर्यापथप्रतिक्रमणमकृत्वा न किञ्चिदन्यत्कुर्यात्, तदशुद्धताऽऽपत्तेरिति भावः / यदि परमत्रोत्कृष्टशब्दवर्जिते बहुश्रुतसमाचारितां निरुम्भति, नान्यदिति / / उक्ता सप्रभेदा मध्यमाऽपि वन्दना। इयमेव च स्तवप्रणिधानादिपर्यन्तोत्कृष्टा भवतीनि। उक्तं च बृहद्भाष्ये “उक्कोसजहन्ना पुण, सचियसक्कत्थयाइपजंता" / एतदर्थप्रतिपादनायाऽऽह-"पणदंडथुइचउक्कगथुयपणिहाणेहिँ उक्कोसा"त्तिपञ्चाई पञ्चभिर्दण्डकैः शक्रस्तवादिसुदृष्टिकायोत्सर्गपर्यन्तैः स्तुतिचतुष्केन वन्दनाऽनुशास्तितस्तु तिरूपचूलिकास्तुतिचतुष्टयेन द्वितीयदण्डकादिकायोत्सर्गचतुष्कान्तदातव्येन स्तवेन जघन्यतोऽपि चतुःश्लोकादिमानेन “चउसिलोगाइपरेणं धओ भवइ त्ति" व्यवहारचूर्णिभणितात् द्वितीयशक्रस्तवान्ते भणनीयेन तदादौ भण्यमानस्य नमस्कारताऽपत्तेः प्रणिधानैश्च वक्ष्यमाणस्वरूपैर्वन्दनान्ते विधेयैरुत्कृष्टा संपूर्णा चैत्यवन्दनेत्यत्रापि योज्यम्। उक्तंच चैत्यवन्दनाचूर्णी - "सक्कत्थवाइदंडगपंचगथुइचउक्कगपणिहाणकरणाओ उक्कोसा" त्ति / तथाऽऽन्यत्र"सकत्थवाइदंडग-पणगथुइचउक्कपुत्तपणिहाणा। संपुन्ना चेइअवं-दणाउ हवईजओ भणियं / / दुभिगंधमलस्सा वि, तणुरप्पेसणाणिया। उभओ उवहो चेव, तेण ट्ठति न चेइए। तिन्नि वा कड्डई जाव, थुईओ तिसिलोहआ। ताव तत्थ अणुन्नायं, कारणेण परेण वि" / / एतयोर्भावार्थः-साधवश्चैत्यगृहे न तिष्ठन्ति। अथवा-चैत्यवन्दनान्त्यशक्रस्तवाद्यनन्तरं तिस्रः स्तुतीः श्लोकत्रय प्रमाणाः प्रणिधानार्थ यावत्कर्ण्यन्ते, प्रतिक्रमणानन्तरमङ्गलार्थं स्तुतित्रयपाठयत्। तावचैत्यगृहे साधूनामनुज्ञातं निष्कारणं, न परतः। शालिसूरीयभाष्येऽऽप्युक्तम् - "दंडगपंचगथुइजुय-लपाठपणिहाणसहिअउक्कोसा। अहव पणिवायदंडग-पंचगजुअविहिजुआ चेसा" / / प्रथममतं चैवम्।उक्तात् “तिन्नि वा कड्डई जाव" इत्यादि भावार्थः प्रागुक्त एव / सिद्धादिश्लोकत्रयमात्रान्तपाठे तु संपूर्णवन्दनाया भाव एव, प्रथमस्तुतिश्लोकत्रयपाठान्तरं चैत्यगृहेऽवस्थानानुगतेन प्रणिधानासद्भावात्। भणितं चागमे वन्दनान्ते प्रणिधानम्। यथा-"वंदइ नमसई" त्ति सूत्रवृत्तिः-वन्दते ताःप्रतिमाश्चैत्यवन्दनविधिना प्रसिद्धन, नमस्करोति पश्चात्प्रणिधानादियोगेनेति ! वन्दनान्ते तिस्रस्तुतयोऽत्र प्रणिधानरूपा ज्ञेयाः / सर्वथा परिभाव्यमत्र पूर्वापराविराधेन प्रवचनगम्भीर्थ मुक्त्वाऽभिनिवेशमिति / यद्वा-पञ्चदण्डकैर्द्विरुक्तरिति गम्यम्। स्तुतिचतुष्केण स्तुतियुगलद्वयगतेन एकैकयुगले वन्दनाऽनुशास्तिस्तुतिरूपस्तुतिद्वयगणनेन युगलद्वये स्तुतिचतुष्टयभावात्, शेष प्राग्वत, उत्कृष्टा वन्दना इति। उक्तंच"जा थुइजुगलदुगेणं, दुगुणियचिइवंदणाइ पुणो।