________________ चेइयवंदण 1305 - अभिधानराजेन्द्रः - भाग 3 चेइयवंदण नयणमाणसेण धण्णो हंसपुण्णो ह ति जिणवंदणाए सहलीकयजम्मु त्ति मन्नमाणेण विरइयकरकमलंजलिणा हरियतणुबीयजंतुविरहि-भूमीए निहिओभयजाणुणा सुपडिफुडसुविदियनीसंकजहत्थसु-त्तत्थोभयं पए पए भावमाणेणं० जाव चेइए वंदियव्वे"। सडा०१ प्रस्ता०ाध०। (7) गन्धारश्रावककथा"वेयड्ढगिरिस्स समा-सन्ने गंधारजणवए। गंधसमिद्धे नथरे, गंधारो नाम सावओ।।१।। सो उ पव्वइउकामो पव्वइएहिं दुक्खेण तित्थाइ नमिज्जति त्ति सव्वतित्थयराणं जम्मणनिक्खमणनाणुप्पत्तिनिव्वाणभूमीओ दटुं निग्गओ। तत्थजम्मपुरि दो वि णीया, सावत्थी दो अउज्झ कोसंबी। वाणारसि चंदउरी, कायंदी भदिलपुरं च / / 2 / / सीहपुरचंपकंपि-ल्लकज्झरयणउर ति गयपुरमिहिला। रायगिहमिहिलसोरिय-पुर वाणरसी य कुंडपुरं / / 3 / / उसभस्स पुरिमताले, नाणं वीरस्स जंभियाएँ बही। नेमिस्स रेवएव य, नाणो सेसाण जम्मपुरे // 4 // अट्ठावयम्मि उसभो, वीरो पावाऍ रेवए नेमी। चंपाएँ वासुपुज्जो, सम्मेएसेसजिण सिद्धा / / 5 / / इति तित्थाई ददु पडिनियत्तो जाव पव्वयामि त्ति ताहे वेअड्डगिरिगुहाए उसहाइसव्वतित्थयराणं सव्वरयणचिंचइयाओ कणगपडिमाओ साहुसगासे सुणित्ता ताओ दच्छामि त्ति तत्थ गओ, तत्थ देवयाराहणं करिता विहाडियाओ पडिमाओ, तत्थेगो सावगो थयत्थुईहिं थुणतो अहोरत्तं नियसिओ" / इति निशीथे। तत्र स्तोत्रम् - "नम्राऽऽखण्डलमौलिमण्डलमिलन्मन्दारमालोच्छलसान्द्रामन्दमरन्दपूरसुरभीभूतक्रमाम्भोरुहान्। श्रीनाभिप्रभवप्रभुप्रभृतिकॉस्तीर्थङ्करान् शङ्करान्, स्तोष्ये साम्प्रतकाललब्धजननान् भत्तया चतुर्विशतिम्॥१॥ नन्द्यान्नाभिसुतः सुरेश्वरनतः संसारपारंगतः, क्रोधाद्यैरजितं स्तुवेऽहमजितं त्रैलोक्यसंपूजितम्। सेनाकुक्षिभवः पुनातु विभवः श्रीसंभवः शंभवः, पायान्मामभिनन्दनः सुवदनः स्वामी जनानन्दनः / / 2 / / लोकेशः सुमतिस्तनोतु विनतश्रेयःश्रियं सन्मतिदम्भद्रोः कलभं मदेभशरभं प्रस्तौमि पद्मप्रभम्। श्रीपृथ्वीतनयं सुपार्श्वमभयं वन्दे विलीनामयं, श्रेयस्तस्य न दुर्लभं शशिनिभं यः स्तौति चन्द्रप्रभम्।।३।। बोधि नः सुविधे! विधेहि सुविधे! कर्मद्रुमौघप्रधे, जीयादम्बुजकोमलक्रमतलः श्रीमान् जिनः शीतलः / श्रीश्रेयांसजयः स्फुरद्रुणचयः श्रेयःश्रियामाश्रयः, संपूज्यो जगतां श्रियं वितनुनां श्रीवासुपूज्यः सताम्॥४॥ मोक्षं वो विमलो ददातु विमलो मोहाम्बुवाहानिलोऽनन्तोऽनन्तगुणः सदा गतरणः कुर्यात्क्षयं कर्मणः। धर्मो मे विपदश्च्युतं शिवपदं दद्यात्सुखैकास्पदं, शान्तिस्तीर्थपतिः करोत्विभगतिः शान्तिं कृतान्तःक्षितिः / / 5 / / कुन्थुर्मेघरवो भवादयतु बो मानेमकण्ठीरवो, भक्त्या नम्रनरामरं जिनवरं प्रातःस्मरं नौम्यरम्। श्रीमल्लेखनतक्रमोज्झिततभो मल्लेऽस्तु तुभ्यो नमो, विश्वायॊ भवतः सपातु भवतः श्रीसुव्रतः सुब्रतः।।६।। लोभाम्भोजनमेश्वरोपम ! नमे ! धर्मे धियं धेहि मे, वन्देऽहं वृषगामिनं प्रशमिनं श्रीनेमिमं नेमिनम्। श्रीमत्पार्श्वजितं स्तुवेऽस्तवृजिनंदान्ताक्षदुर्वाजिनं, नौमि श्रीत्रिशलाऽङ्गजं गतरुजं मायालताया गजम् / / 7 / / इत्थं धर्म्यवचोवितारनरचितं वयं स्तवं मुद्वतः, सद्धर्मद्रुमसेकसंवरमुचां भक्त्याऽर्हतां नित्यशः। श्रेयः कीर्तिकरं नरः स्मरतियः संसारमाकृत्य सोऽतीतार्तिः परमे पदे चिरमितः प्राप्नोत्यनन्तं सुखम् / / 8 / / (कर्तृनामगभीष्टदलकमलम्) जिन तव गुणकीर्ते विश्वविघ्ने सुकीर्ते, विगलदपरकीर्तेर्यदिगरा धर्मकीर्ते, सितकरसितकीर्तेः सुद्धधर्मककीर्ते। स्तुतिमहमचिकीर्ते तक्षितानङ्गकीर्ते / / 1 / / जय वृषभ जिनाभिष्ट्रयसे निस्तनाभिजडिमरविसनाभिर्यः सुपर्वाङ्गनाभिः। नुन इह किल नाभिक्षोणिभृत्सूनुनाभिहृतभुवनमनाभिः, क्षान्तिसंपत्कनाभिः / / 2 / / प्रकटितवृषरूप त्यक्तानिःशेषरूपप्रभृतिविषयरूप ज्ञानविश्वस्वरूप। जय चिरमसरूपः पापपङ्काम्बुरूप, त्वमजित निजरूपप्राप्तसज्जातरूपः // 3 // जय मदगजचारिः संभवान्तर्भवारिव्रजभिदहितवारिश्रीन केनाप्यवारि। यदधिकृतभवारि श्रेस नः श्रीभवारिः, प्रशमशिखरिचारिप्राणमदानवारिः / / 4 / / अकृतशुभनिवार योऽत्र रागादिचारं, सुविनतमघवारं संचरदुःखवारम्। मदनदहनचारं दोलितान्तर्भवारं, नमत सपरिवार तं जिनं सर्वदाऽरम्॥५॥ तव जिन ! सुमते न प्रत्यहं तद्यतेन, स्तुतिरिति सुमतेन कृत्तमो निष्कृतेन। यदिह जगति तेन द्राग् मया संमतेन, धुवमितदुरितेन श्रीश! भाव्यं हितेन।।६।। परिहृतनृपसद्म श्रीजिनाधीश पद्मप्रभसदरुणपद्मद्युत् तपोहंसपद्म। त्वदखिलभविपद्मवातसंबोधषद्म, स्वजनगतविपद्मय्येतु शर्माङ्कपद्म।७।। दुरितमिभगमोहं पूर्विकार्यक्रमो हन्त्यसमतमशमोऽहकारजिद्द्यः समोहम्। कृतकरणदमो हन्तास्तलोभं तु मोहं, मतिहतमसमोऽहं तं सुपार्श्व तमोहम्।।६।। समतृणमणिभावः ज्ञातनिःशेषभावः, प्रहतसकलभावप्रत्यनीकप्रभावः / कृतमदपरिभावः श्रीशचन्द्रप्रभाव, द्विजपतितनुभाव त्यक्तकामस्वभाव / / 6 / / जिनपतिसुविधे यः स्यात्त्वदाज्ञाविधेयप्रवहण इह धेयः प्रस्फुरद्भागधेयः। त्रिजगदनभिधेय श्लाध्यसन्नामधेय, अयति शुभविधेयस्तम्भसद्रूपधेय॥१०॥