________________ चेइयवंदण 1304 - अभिधानराजेन्द्रः - भाग 3 चेइयवंदण विहिणा पणामतियं ति। तत्प्रणामस्वरूपनिरूपिकेयं गाथा "अजलिबंधो अद्धोणओ य पंचगओय तिपणामो"। अजलिबन्धरूप इत्यस्यायमर्थःस्वाम्यादिदर्शनविज्ञापनादिसमये भक्तिकृते करद्वययोजनेति त्रिकद्वयम्।। संप्रति "तिन्नि चेवपणामेत्ति" तृतीयं त्रिकं भावयन्नाह-"अंजलिबंधो गाहा" प्रक्षेपासोपयोगा चेतिव्याख्यायते-इहैकः प्रणामोऽञ्जलिकरणं, शीर्षादी वा अञ्जलिना करणं, तत्र च परिभ्रम्य विज्ञापनाकृते मुखादिप्रदेशे संस्थापनम् / यथाऽऽगमः “चक्खुप्फासे अंजलिपग्गहण" / तथा"अंजलिमउलियहत्थे तित्थयराभिमुहे सत्तकृपयाई अभिगच्छइ तथा"सिरसावत्तं दसनह मत्थए अंजलिं कट्टएवं वयासी।" तथा-"सिरसावत्तं दसनहं मत्थए अंजलिं कटु जएणं विजएणं बद्धावेइ, वद्धावित्ता एवं वयासी" इत्यादि / उपलक्षण मेतदेक हस्तस्याप्यूडी - करणादेः नौरवाद्यर्हप्रतिपत्तये तथाकरणस्य लोके दर्शनात्। अन्यस्त्वविनतरूप ऊद्धििदस्थानस्थितैः किञ्चिच्छिरोनमनं शिरःकरादिना भूपदादिस्पर्शन चेत्यादिस्वरूपः / उक्तं चागमे-"आलोए जिनपडिमाणं पमाणं करेइ।" तथा बृहद्भाष्ये - "तत्तो नमो जिणाणं, ति भणिय अद्घोणयं पणाम च। काउं पंचंग वा, भत्तिभरनिभरमणेण ||११॥"त्ति। एकाङ्गादिचतुरङ्गान्तं प्रणामम्, उपलक्षणमिदम्-अर्द्धानि न सर्वाणि, प्रकृताङ्गमध्यादङ्गान्यवनतानि यत्र प्रणाने सोऽर्द्धावनत इति व्युत्पत्तेः। अपरस्तु पञ्चाङ्ग पञ्च न चत्वार्यपि, अङ्गानि जानुद्वयादीनि भूस्पृष्टानि यत्र स पञ्चाङ्गः। उक्तंच"दो जाणू दुन्नि करा, पंचमगं होइ उत्तमंगं तु। संम संपणिवाओ, नेओ पंचंगपणिवाओ" ||1|| एते त्रयः प्रणामाः सर्वत्र वा भूम्याकाशशिरः प्रभृतिषु उक्तप्रणामेषु वा प्रणामकरणकाले त्रीन् वारान् शिरःकराञ्जल्यादेमनावर्तन्त-दिना प्रणामत्रिकं भवति कर्त्तव्यं, विजयदेववत् / विशेषविषयस्त्वत्र एव द्वारावसरव्याख्यानतो, बहुश्रुतपर्युपास्तेश्च ज्ञातव्यः / / सङ्घा 1 प्रस्ता० / प्रव० (पूर्वसूचितविजयदेवसम्बन्धोऽन्यत्र) (5) उक्तम्-“तिन्नि निसीही तिन्नि य, पयाहिणा तिन्नि चेव य पणाम" त्ति त्रिकत्रयम् / संप्रति चतुर्थ पूजात्रिकं सक लगाथयाऽनेकधा भावयन्नाह अंगग्गभावभेया, पुप्फाहारत्थुईहि पूयतिगं। पंचोवयार अट्ठो-वयार सव्वोवयारावा।। अङ्ग च जिनप्रातिमागात्रम्, अग्रं च तत्पुरोभागः, भावश्च चैत्यवन्दनागोचर आत्मनः परिणामविशेषः / कैः कुत्वेत्याह-पुष्पहारस्तुतिभिर्यथाक्रममिति गम्यम्। यदुक्तं बृहद्भाष्ये - "अंगम्मि पुप्फपूआ, आमिसपृआ जिणग्गओ बीया। तईया थुइथुत्तगया, तासि सरूवं इमं होई" / / चैत्यवन्दनाचूर्णावप्युक्तम्-“तिविहा पूआ पुप्फेहिं नेविज्जोहिंथुईहिंय, सेसभेया इत्थ चेव पविसतित्ति।" उत्तराध्ययनेषु पुनरेवम्- "तित्थयरा भगवंतो, तस्स चेव भत्ती कायव्वा, सा पूआ बंदणाईहिं हवइ, पूर्व पि पुप्फामिसथुईपडिवत्तिभेयं चउव्विहं पि जहासत्तीए कुज ति" ललितविस्तरादौ तु-पुष्पामिषस्तोत्रप्रतिपत्तिपूजानां यथोत्तरं प्राधान्यमिति / सङ्घा०१ प्रस्ता० / (एताश्चैत्यशब्दे दर्शिता अपि विस्तरभिया तत्रानुक्ता अपि सदृष्टान्ताः सङ्घाचाराद वसे याः) त्रिदिग्निरिक्षणविरतिः-यस्यां दिशि तीर्थकृत्प्रतिमा तत्संमुखमेव निरीक्षणं विधेयं, न पुनरन्यादिकत्रयसंमुखं, चैत्यवन्दनस्यानादरतादिदोषप्रसङ्गात् / यथा चैत्यवन्दनं कर्तुकामेन सत्त्वादेः रक्षणनिमित्तं सम्यक् चक्षुषा निरीक्ष्य निजचरणनिक्षेपभूमेः प्रमार्जनं त्रिवारं विधेयं, तच ग्रहिणा वस्त्राञ्चलेन, तिना तु रजोहरणेनेति / "वन्नाइतियमिति" विवृणोति"वन्नथालवणओ, वनइतियं वियाणेज त्ति"। वर्णा अकारककारादयः, अर्थः शब्दाभिधेयम्, आलम्बनं प्रतिमादिरूपमेतस्मिन् त्रितये उपयुक्तेन भवितव्यम्। तत्रालम्बनं यथा"अष्टाभिः प्रातिहार्यः कृतसकलजगद्विस्मयः कान्तकान्तिः, सिञ्चन् पीयूषपूरैरिव सदसि जन स्मेरदृष्टिप्रपातैः॥ निःशेषश्रीनिदानं निखिलनरसुरैः सेव्यमानः प्रमोदादहन्त्रालम्बनीयः स्फुरदुरुमहिमा वन्दमानेन देवान्।।१।।" "मुद्दातिगचेति व्याचष्टे - "जिणमुद्दजोगमुद्दा, मुत्तासुत्ती उ तिन्नि मुद्दाओ त्ति"। जिनमुद्रा, योगमुद्रा, मुक्ताशुक्तिमुद्रा चेति मुद्रात्रयं ज्ञातव्यम्। प्रव०१ द्वार। (6) उक्तम्-"तिविहा पूयाय तह ति” चतुर्थं पूजातिकम्। पूजां च कुर्वतो भगवतोऽवस्थात्रिकं भावनीयमिति पञ्चमं त्रिकं पर्यायाभ्यामाहभाविज्ज अवत्थतियं, पिंडत्थपयत्थरूवरहियत्तं / छउमत्थ केवलितं, सिद्धत्थं चेव तस्सऽत्थो / / भावितार्था / ननु च-"पिण्डस्थं च पदस्थं च, रूपस्यं रूपवर्जितम्। ध्यानं चतुर्विध ज्ञेयं, संसारार्णवतारक म्" // 1 / / इति चतुर्धा ध्यानवेदिभियानमुच्यते / अत्र त्ववस्थात्रिकेण ध्यानत्रयमुक्तामतोऽत्र चतुर्थ ध्यानं कथं स्यात् ? उच्यते-रूपस्थध्यानं हि जिनविम्बादिदर्शनतः प्रथममेव संजायते। यत उक्तम्-“पश्यति प्रथमं रूपं, स्तौति ध्येयं ततः पदैः। तन्मयः स्यात्ततः पिण्डे, रूपातीतः क्रमाद्भवेत्॥१॥" इति स्यादेव यथोक्तध्यानसिद्धिः / सङ्घा०१प्रस्ता०(अवस्थात्रयभावना सनाचाराद् विस्तरेण ज्ञेया) प्ररूपिता सिद्धावस्था, तत्प्रतिपादनेन च निरूपितमवस्थात्रिकभावनमिति पश्चामं त्रिकम् / तच्च दिक्यालोकनवर्जनेन सम्यक स्थादित्यतः "तिदिसिनिरिक्खणविरईत्ति षष्टत्रिकस्वरूपनिरूपणार्थ गाथामाहउच्छाहो तिरियाणं, तिदिसाण निरिक्खणं चइज्जऽह वा। पच्छिमदाहिणवामा - ण जिणसंमुहत्थदिट्ठिजुओ।। प्रेक्षपा सुगमा च। नवरं तुर्यपदस्येयं भावना"आलोयबलं चक्खुं, मणुओ तं दुक्करंथिरं काउं। रूवेहिं तहिं खिप्पइ, सभावओ वा सयं चलइ / / 1 / / तह वि हु नामियगीचो, विसेसओ दिसितियं न पेहिजा। तत्थुवओगाभावे, दसणापरिणामहाणी उ॥२॥" उक्त च महानिशीथे- “भुवणे क्वगुरुजिणिंदपडिमाविणिवेसिय